________________
न्यायविनिश्चयविवरणे
[२३६ सर्वेकत्वम् अभावमात्रत्वेनाभिन्नत्वं तस्य प्रसङ्गः प्रसञ्जनं हि यतस्ततः प्रागुक्तम् । अथ न स्वतो वैलक्षण्यं न तर्हि तदेकान्त इति तत्कल्पनं विभ्रमात् । एतदेवाह-'तद्दष्टं भ्रान्तिकारणम्' इति । तस्य वैलक्षण्यैकान्तस्य दृष्टं दर्शनं कल्पनारूपं भ्रान्तिः दुरागमजनितो विभ्रमस्त
कारणं तन्निबन्धनम् । यदि वचन ( यदि च न ) सादृश्यं वस्तुतः कुतस्तत्प्रतिभासः ? व्यावृत्तिक५ लादेवेति चेत्, न तस्य सर्वत्र भावात्, गवादिव्यवहारसाङ्कर्यापत्तेः । ततोऽपि विशिष्टादेवेति चेत्, कस्तद्विशेषोऽन्यत्र वस्तुभूतात्सादृश्यात् । सोऽप्यतात्त्विक एव अन्यतस्ततोऽवकल्पनादि ति
चेत्, न, तत्राप्यविशेषविशेषयोः पूर्ववत्प्रसङ्गादनवस्थोपनिपाताच्च । ततो वस्तुभूतमन्यदेव व्यावृत्तेः सादृश्यं निर्बाघप्रतीतिगोचरत्वात् । तथापि तदवस्तुत्वे वैलक्षण्ये ऽप्यनाश्वासात् सर्वेकत्वमेव तात्त्विकं प्रसज्येत । तदाह 'सर्व' इत्यादि । तत्प्रसङ्गाद्वैलक्षण्यं वदतो न कौशलं तदव्यवस्थितेरिति भावः । • सति वैलक्षण्यप्रतिभासे कथं सर्वेकत्वमिति चेत् ! सति सादृश्यप्रतिभासे वैलक्षण्यमपि कथम् ? तस्य भ्रान्तिकारणत्वादिति चेत्, न, अन्यत्रापि तुल्यत्वात् । तदाह—'तद्' इत्यादि । तस्य वैलक्षण्यस्य दृष्टं दर्शनं कल्पनारूपं भ्रान्तिकारणम्-अविद्यानिबन्धनं विभ्रमादेव परमात्मापरिज्ञानरूपात् प्रतिभासः स्रगाद्यपरिज्ञानात् सर्पादिप्रतिभासवत् सर्पादिरूपेण स्रगादिवच्च भेदरूपेण तदात्मैवाविद्यावता
मवभासत इति च ब्रह्मवादिभिरभिधानात् । तथा च तदीयं वार्तिकम्१५
"सर्वैकत्वं परं ब्रह्म परमात्मेति यद्विदुः । तन्मोहभानां सर्वेषां न तत्वं परमार्थतः ॥१॥ तदज्ञानैकवेद्यत्वात्तेनैव परमात्मना। तदन्यान्यात्मवन्ति स्युः सर्पादीनि सजा यथा ॥२॥ उक्तात्मच्युतदृष्टीनां तदबोधेकहेतुतः। आब्रह्मस्थाणुभेदोऽयं नामरूपक्रियात्मकः ।। ३ ॥ अविद्याकृत एव स्यात् न यथावस्तुधीकृतः॥"
बृहदा०वा०१।४।११३८-४१] इति ननु चाविद्यैव सर्वेकत्वे तद्व्यतिरिक्ता न सम्भवति तद्वादविलोपात् । न च तदेवाविद्या; तस्य सत्यज्ञानत्वेनोपगमात् “सत्यं ज्ञानमनन्तं ब्रह्म" तैत्ति० २।१।१] इति श्रवणात् । कथन्ततो भेद२५ प्रतिभास इति चेत् ? न; तस्या अवस्तुत्वेन भेदेतराभ्यामनिर्वचनीयत्वात् । अवस्तुनः कथं प्रति
भासकारणत्वमिति चेत् ? न; प्रतिभासस्यापि तादृशत्वात् । नहि स्वप्नात्तदन्तरानुत्पत्तिः दृष्टत्वात् । अथैवं "नेप्यते न कश्चिदप्यन्यथा प्रतिभासहेतुर्भवेत् नौयानादीनामपि निरंशवादिनामसम्भवात् । मा भूदिति चेत्, एतदेवाह--
१ सर्वभा-- आ०, ब०, ५०। २-विकल्पयोः। ३ कल्पनं भ्रा- आल, ब०, प० । ४ ये वि- आत ब०, प० । ५ तन्मोहजानां आ०, ब०,०। ६ सक्तत्वं आ०, ब०, प० । ७-कहेतुत्वाचत्रैव आ०, ब०, प०।८ स्रजो यथा आ०, ब०, प० । ९ अविद्यायाः । १. प्नात्तदनु-आ०, ब०, प० । ११ तथैव ने -आ०, ब० प ।