________________
२।३३-३६ ]
२ अनुमानप्रस्तावः
नो चेद्विभ्रमहेतुभ्यः प्रतिभासोऽन्यथा भवेत् ॥ ३३ ॥ इति । तेषामेवाभावादिति भावः । बहुवचनं नौयानादिभेदेन तेषां बहुत्वात् । अत्रोत्तरमाह
तदकिञ्चित्करत्व' न निश्चिनोति स किं पुनः । इति ।
स धर्मकीर्तिः पुनरिति शिरःकम्पे किं कस्मात् न निश्चिनोति । किम् ? तदकिञ्चित्करत्वं तेषां विभ्रमहेतूनामकिञ्चित्करत्वमन्यथाप्रतिभासं प्रत्यकारणत्वम्, न च निश्चितवान् ५ स्वशास्त्रे 'तेषां तत्कारणत्वस्यैव तेन निश्चयात्, अन्यथा अभ्रान्तपदवैयर्थ्यापत्तेः । संवृत्यैव तन्निश्चयो न वस्तुत इति चेत्; जीवन्तु ब्रह्मविदस्तेषामप्यविद्यायां तयैव तदुपपत्तेः । भवत्वेवं तथापि किम् ?
1
इत्यत्राह -
६५
तथा हि दर्शनं न स्याद्भिन्नाकारप्रसङ्गतः ॥ ३४ ॥ इति ।
तथा तेनाविद्यानिबन्धनभेदप्रतिभासप्रकारेण हीति सौष्ठवे दर्शनं सौगतस्य विलक्षणमेव १० सर्वमिति मतं न स्यात् न भवेत् । अत्र हेतुः - भिन्नस्तन्मताद्विलक्षण आकारः स्वरूपं यस्य अद्वैतात्मनस्तस्य प्रसङ्गतः प्राप्तेः, भेदस्य भ्रान्तत्वे तदन्यप्राप्तेरवश्यम्भावात् । विशेष एव परमार्थ - संज्ञः तस्यैव दृष्टेः नाविशेषः परमार्थो विपर्ययादिति चेत्; अत्राह
न च दृष्टर्विशेषो यः प्रतिभासात् परो भवेत् । इति ।
न च नैव दृष्टेर्दर्शनाद् विशेषः परस्परविलक्षणरूपः सिद्ध्यतीति शेषः । कीदृशो न १५ सिद्धयति ? यो विशेषः प्रतिभासात् परमात्मनः " तमेव भान्तमनुभाति सर्वम्" [ कठो० ५।१५ ] इति तस्य प्रतिभासरूपत्वश्रवणात् परो विभिन्नो भवेत् स दृष्टेर्न सिद्ध्यति तस्या एव तत्राभावादिति भावः । भवतु तर्हि यथादर्शनं वस्तुव्यवस्थेति चेत्, अत्राह
प्रतिभासभिदैकत्र तदनेकात्मसाधनम् || ३५ || इति ।
तत् तस्मादविशेषवत् विशेषस्यापि तद्दर्शन बलादव्यवस्थानात् एकत्र एकस्मिन् घटादौ अने- २० . कस्य समानेतरस्थूलेतरादेः आत्मन: स्वभावस्य साधनं सिद्धिः 'भवतु' इत्याकृष्य सम्बन्धः । कया तत्साधनम् ? प्रतिभासस्य दृष्टेर्भिदा विशेषेण एकान्तवैमुख्यरूपेण । अनेकान्तेऽपि दुर्लभैव दृष्टिरिति चेत्; आह—
अदृष्टिकल्पनायां स्यादचैतन्यमयोगिनाम् । इति ।
अनेकान्तस्याादृष्टिरनुपलब्धिस्तत्कल्पनायां स्यात् भवेत् अचैतन्यं चैतन्य- २५ वैकल्यम् अयोगिनां संसारिणाम् । तेषां तदन्यदृष्टेरभावात् तद्दृष्टश्चापलाषात् । भवतु तेषां तद्दृष्टिः, न तावता तत्सिद्धिः, योगिभिरन्यथा दर्शनात् "व्याख्यातारः खल्वेवं विवे
१ नौयानादीनाम् । २ न्यायवि० पृ० १६ । ३ प्रत्यक्षलक्षणे । ४ तस्य एव आ०, ब०, प० । ५ - दपि वि-आ०, ब०, प० ।
९