________________
६६
न्यायविनिश्चयविवरणे
[ २।३६-३७
चयन्ति " [ प्र० वा० स्व० १।७२ ] इति वचनात् । योगिदृष्टस्यैव परमार्थसत्त्वोपपत्तेरिति चेत् ;
न
अत्र प्रमाणाभावात् ।
योगिनः परिषश्यन्ति सौगतोक्तं स्वलक्षणम् ।
किं वा तदन्यदेवेति प्रमाणान्नात्र दृश्यते ।। १३८१ ॥
वाङ्मात्रात्तेषु तद्दृष्टावतद्दृष्टिस्ततो न किम् ? तामवस्थां गतानां तु न विद्मः किं भविष्यति ॥ १३८२ ॥ उपसंहरन्नाह-
एवम् अत्र विचार्यमाणे सम
प्रचक्षीरन् तस्य विसदृशपरिणामे
तस्मादभेद इत्यत्र समभावं प्रचक्षते ॥ ३६ ॥ इति । तस्मात् उक्तन्यायाद् अभेदः तिर्यक्सामान्यम् इति १० भावं सदृशपरिणामं प्रचक्षते तद्रूपत्वेन तत्त्ववेदिनः । कथं पुनस्तं सति विरोधेनासम्भवादिति चेत् ? तदाहनेक्षतेनाविरोधोऽपि [ न समानाः स्युरन्यथा ] । इति । समभावमित्यनुवर्तते तं नेक्षते न किन्तु वीक्षत एव । कस्तन्नक्षते ? नाविरोधः तत्परणामयोः परस्परापरिहारः कथञ्चिद् वस्तुषु तस्य सद्भावात्, अन्यथा वस्तुत्वहानेरिति भावः । केवलमवि१५ रोध एव तन्नक्षते न इति अपिशब्दः ।
1
तयोः कथञ्चित्तादाम्यादविरोधस्तमीक्षते ।
यथा तथैव नानात्वाद्विरोधोऽपि तमीक्षते ॥ १३८३ ॥
तदनभ्युपगमे दोषमाह - 'न समानाः स्युरन्यथा' इति । अन्यथा अन्येनाविरोध एव विरोध एव वा तमीक्षत इति प्रकारेण समानाः सदृशा न स्युर्भावाः । तथा हि-यदि भावेषु विसदृशा एव २० धर्मा नापरे विरोधात् कथं तत्र समानप्रत्ययो विषयाभावात् विभ्रमादिति चेत्; न; तन्निषेधात् ।
;
तथा यदि सही एव; तदापि सर्वथा सादृश्येन भेदाभावात् कथं तत्प्रत्ययः ? तस्य भेदोपाधित्वेन प्रतीतेः । भवन्ति च समानास्तत्प्रत्ययाः । ततः सूक्तम्- 'नेक्षते न' इत्यादि । 'नानेकत्र' इत्यादयो व्याख्यानश्लोकाः सदृशपरिणामस्य प्रागुक्तस्यैव तैरभिधानात् ।
२५
कथं पुनः शब्दानामर्थवत्त्वं तदभावेऽपि प्रवृत्तेः प्रधानादिशब्दानाम् तेषामपि तत्त्वे न कश्चिदप्यनृतवादी तीर्थकर इति प्रामाण्यमेव सर्वप्रवादानाम् । न च तदुपपन्नं परस्परविरुद्धार्थत्वात् । ततः प्रधानेश्वरादिशब्दवदन्ये ऽप्यनृतार्था एवेति चेत् ; अत्राह -
अक्षज्ञानेऽपि तत्तुल्यम् [ अनुमानवदिष्यते ] ||३७|| इति । अक्षाणां चक्षुरादीनां कार्यं रूपादिविषयं ज्ञानम् अक्षज्ञानं तत्राऽपि न केवलं शब्दे तद् अनृतार्थत्वं तुल्यं सदृशम्, तस्याऽपि केशमशकादावनृतार्थत्वाऽवगमात् । अस्तु बहिस्तद
ब०,
१ -रप- आ०, ब०, प० । २ वः न के- आ०, ब०, प० । ३ सर्वदा सा - आ०, प० । ४ अक्षज्ञानस्यापि ।