________________
२३८]
२ अनुमानप्रस्तावः नृतार्थ नान्तः,अन्यथा तदसत्यत्वस्याप्रतिपत्तेरिति चेत् । तर्हि तत एव बहिरषि तत् किञ्चित् सत्यार्थमङ्गीकर्तव्यम् । सत्यार्थमेकचन्द्रादिज्ञानमन्तरेण द्विचन्द्रादावज्ञानस्यापि मिथ्यार्थत्वानवगमात् । भवत्वेवं तत्प्रामाण्यस्योपगमादिति चेत् ; कमिदम्' इतरस्मादविशेषात् ? नाविशेषः तस्यार्थकार्यत्वात् इतरस्य विपर्ययादिति चेत् । सिद्धं नः समीहितम्- शब्दस्यापि तत्कार्यस्यार्थवत्त्वोपपत्तेः । विवक्षात एव शब्दो नार्थादिति चेत् ; न, परम्परया ततोऽपि भावात् 'यथा धुमश्चायम्' इत्यस्य । अत्र हि धमस्य दर्शनं ततो विवक्षा ततोऽप्ययंशब्दः, एवमन्योऽपि । यदि पुनरस्यापि तत्कार्यत्वं नेष्यते कथमतो धूमप्रतिपत्तिः परस्य, यतोऽनुमानम् ? अप्रतिपन्नात्तदनुपपत्तेरिति कदर्थित एव परार्थानुमानव्यवहारः । ततो युक्तं पारम्पर्येणार्थादुत्पत्तेस्तद्वत्त्वं शब्दानाम् । अतीतानागतयोस्तर्हि कथं तेषां प्रतिबन्धः, तयोरेकस्य नष्टत्वेनान्यस्यानुत्पन्नत्वेनावस्तुत्वात् । अवस्तुनि च प्रतिबन्धानुपपत्तेरिति चेत् ; आह-'अनुमानवदिष्यते' इति । अनुमानमत्र लिङ्गं तन्निमित्तत्वात्, १० तस्येव तद्वत्, इष्यते अतीतादौ तेषां प्रतिबन्ध इत्यर्थः। नहि लिङ्गमतीतादावप्रतिबन्धमेव तहमयत्यतिप्रसङ्गात् । गमयच्च दृश्यते-कृत्तिकोदयादतीतस्य भरण्युदयस्य अनागतस्य च शकटोदयस्याविगानेन प्रतिपत्तेः । ततो यथा लिङ्गस्य तत्र प्रतिबन्धस्तथा शब्दानामपि, भाविकार्यत्वस्यापि लिङ्गवत्तत्रोपपत्तेः । योग्यत्वादेवास्य तत्र प्रतिबन्धो न तत्कार्यत्वादित्यपि न वाच्यम् ; शब्देष्वपि सदृशत्वात् । सत्यपि प्रतिबन्धे ततस्तत्प्रवृत्तिमिथ्यैवास्पष्टत्वादिति चेत् । न, अनुमितावपि तुल्यत्वात् । १५ सार्पि तथैवेति चेत् । किमिदानी प्रमाणम् ? प्रत्यक्षमिति चेत् । न तस्यापि प्रवृत्तिविषये भाविनि स्नानादावस्पष्टत्वात् । सन्निहिते त्वप्रवर्तकत्वेन प्रामाण्यानभ्युपगमात् । व्यवहभिप्रायात् प्रत्यक्षानुमानुमानयोः प्रामाण्ये शब्दस्यापि स्यात् ; तदन्तरेण क्षणमपि व्यवहत॑णामाश्वासोऽनु( सानु ) पपत्तेः । तथा च कस्यचित् सुभाषितम् -
"इंदमन्धंतमः कृत्स्नं जायेत भुवनत्रयम् ।
यदि शब्दाह्वयं ज्योतिरासंसारान दीप्यते ॥" [ ] इति । । तदेवाह
ततः सम्भाव्यते शब्दः सत्यार्थप्रत्ययान्वितः । इति ।
ततस्तस्मान्न्यायात् सम्भाव्यते अवकल्प्यते शब्दः। कीदृशः ? सत्यश्वासावर्थप्रत्ययश्चार्थज्ञानं तेनान्वितः सम्बद्ध इति । अवश्यं चैतदभ्युपगन्तव्यम् २५ "नार्थान्.शब्दाः स्पृशन्त्यमी" [ ] इत्यादेरप्यनर्थकत्वेन तद्वादिनो निग्रहापत्तेः । अपि
१ द्विचन्द्राद्यज्ञा- आ०, ब०, प० । २ तत्प्रामाण्यम् । ३ एकचन्द्रज्ञानस्य । ४ परार्थोऽनुमान- आ०, ब०, प० । ५ अनुमानं तदीष्य- आ०, ब०, प० । ६ नापि त- ०, ब०. प० । अनुमितिरपि । ७ इदं मन्दं तमः आ०, ब०,१०। ८ जायते आ०, ब०, प०। ९-वर्थः प्र- आ०, ब०, प० । १० “उद्धृतमिदम्-विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः । तेषामन्योन्यसम्बन्धो नार्थान् शब्दाः स्पृशन्त्यमी ॥-" न्यायकुमु० पृ० ५३७। टि० ७॥