________________
५
६८
न्यायविनिश्चयविवरणे
[ २३८
च यस्यायं' निर्बन्धः “विवक्षाजन्मानः शब्दास्तामेव गमयेयुर्न बहिरर्थम् " [ ] इति । तत्राहसत्यानृतार्थताऽभेदो विवक्षाव्यभिचारतः ॥ ३८ ॥ इति ।
सत्यानृतार्थी ययोस्तयोर्भावस्तत्ता तयाऽभेदो भेदाभावः सत्यार्थं सुगतवचनम्, अनृतार्थं वेदादिवचनमित्ययं भेदो न भवेत्, सर्वस्य सत्यार्थ तैव स्यादित्यर्थः । कुत एतत् ? विवक्षा वक्तुमिच्छा तस्याम् अव्यभिचारतः अविप्रतिसारतः शब्दस्य । शब्द इत्यागतस्य विभक्तिपरिणामेन सम्बन्धात् । नहि तस्य तद्व्यभिचारे तत्कार्यत्वम्, अतिप्रसङ्गात् ।
१०
शब्दार्थश्चेद्विवक्षैव तस्यामव्यभिचारतः ।
अर्थवानेव सर्वोऽपि शब्दः स्यान्न निरर्थकः ॥ १३८४ ॥
एवञ्च सौगतं वाक्यं प्रमाणं नान्यदित्ययम् ।
विभागो न भवेदेव विवक्षावाच्यवादिनाम् ॥ १३८५ ॥
1
हि विवक्षाया भावाभावाभ्यां शब्दस्य सत्यार्थत्वमन्यत्वं वा येनायं प्रसङ्गः किन्तु विवक्षितस्यार्थस्य, तेंद्भावश्च सुगतवचन एव तदर्थस्यानित्यादेरुपपत्तिमत्त्वात्, नान्यत्र तद्विषयस्य नित्यादेः विपर्य्ययात्, ततो भवत्येव तद्विभाग इति चेत्; न; अर्थस्यातद्विषयत्वात् । न ह्यर्थः शब्दस्य विषयो यतस्तद्भावाभावाभ्यां सत्यानृतविभागस्तत्र कल्प्येत । अविषयधर्माभ्यां तु ताभ्यां तत्कल्पने अतिप्रसङ्गात् । १५ तद्विवक्षाया विषय एवार्थ इति चेत्, तंत्रैव तर्हि स विभागोऽस्तु कथं शब्दे ? विवक्षागतस्य तत्राप्यारोपादिति चेत्; अनृतार्थमेव स्यात्, विवक्षायामप्यर्थासंस्पर्शित्वेन तस्यैव भावात् । नायं दोषः तद्धेतोर्विकल्पस्यार्थवत्त्वात्, तस्य च तस्यामध्यारोपादिति चेत्, नं, तस्याप्ययथार्थत्वात् । प्रतिपत्त्रभिप्रायाद् यथार्थ एव विकल्पः प्रतिपत्तृभिर्दृश्य विकल्प्ययोरेकीकारेण व्यवहारादिति चेत्, न तदेकीकारस्य दर्शनादसम्भवात्, तस्य विकल्प्याविषयत्वात् । विकल्पाच्च; " तस्यापि २० दृश्यागोचरत्वात् । उभयवेदिनश्च प्रत्ययस्यानभ्युपगमात् 1 सत्यमेतत् केवलम् 'इदमेव दृश्यम्' इति विकल्प एव स्ववासनाप्रकृतेः स्वाकारमदृश्यमपि दृश्यतया व्यवस्यन्नुपजायते, ततस्तदभिप्रायभावाभावाभ्यां सत्यानृतार्थत्वयोर्विकल्पे सम्भवात् तज्जन्मनि विवक्षायां तत्प्रसवे शब्दे ऽपि " तदुभयोपपत्तिरिति चेत्, न; विकल्पस्य स्वाकारे प्रत्यक्षत्वेन ' अन्यथाध्यवसायासम्भवात्, विविक्तसम्भ्रमस्यैव'' तत्त्वोषपत्तेः । विकल्पान्तरात्तत्र तदध्यवसाय इति चेत्; न; तेनापि तदाकारस्याग्रहणात्, ग्रहणेऽपि अनिश्चयात् । अथ निश्चये ऽप्यतदाकारतया ग्रहणे ४ स्वमतविरोधात् । तदाकारे तु स्वाकार एव तदध्यवसायो नान्यत्र । स चायुक्त एव उक्तोत्तरत्वात् । विकल्पान्तरात्तत्रापि तदध्यवसाये ऽनवस्थापत्तेः । तन्न
२५
हि वक्तुर्विवक्षावृत्तित्वात् तन्नान्तरीयकतया तयैव गमकाः स्युः ।" - प्र० तत्त्वसं० पृ० ७०२ । तर्कभा० मो० पृ० ४ । २ तयोर्भेदो आ०, आ०, ब०, प० । ४ विवक्षितार्थसद्भावः । ५ - वचनमेव । ६ त्वस्यैव । ८ न नापित- आ०, ब०, प० । ९- करणव्य- आ० इति सम्बन्धः | ११ शब्दे तदु - ता० । १२ अन्यथा व्यव - आ०, १४ स्वयमविरो- आ०, ब०, प० ।
१ " नान्तरीयकताभावाच्छब्दानां वस्तुभिः सह । नार्थसिद्धिस्ततस्ते हि वक्त्रभिप्रायसूचकाः ॥ " ... वा० स्व ० १ । २१६ | ब०, प० । ३ सत्यार्थमन्यद्वा विवक्षायामेव । ७ अनृतार्थब०, प० । १० 'असम्भवात् ' ब०, प० । १३ भेदे विभ्रमवतः ।