________________
२।३८]
२ अनुमानप्रस्तावः तदभिप्रायः । सत्यपि तस्मिन् कथन्नाम स्वतोऽनर्थकस्य तद्वशादर्थवत्त्वम् ? गुडस्यापि विषाभिप्रायाद्विषत्वापत्तेः । अतिप्रसङ्गाच्च-तदभिप्रायस्य नित्यत्वादिविकल्पेष्वपि तद्वादिनां भावात् । भावेप्यनित्यादिविकल्पानामेवाविसंवादकत्वेनार्थवत्त्वं न तेषां विपर्ययादिति चेत्, गतमिदानी 'तद्वशात्तद्वत्त्वकल्पनम् । अविसंवादोऽपि तेषामेवेति कुतः ? वस्तुनि प्रतिबन्धादिति चेत् । वस्तुदर्शनाद् विकल्पस्ततो विक्क्षा ततोऽपि शब्द इति प्रणालिकया शब्दस्यापि तंत्र प्रतिबन्ध इति कथं नियमेनातत्प्रतिबन्धत्वं तस्योपकल्प्येत ? ५ भवतु प्रतिबन्धः, तथापि तस्य विकल्प्याकारे सामान्य एव सङ्केतात्, तस्य चावस्तुत्वान्न वस्तुविषयत्वमिति चेत् ; तदेव तस्य कस्मात् ? दर्शनेनाग्रहणात्, तद्गृहीतस्यैव वस्तुत्वोपपत्तेरिति चेत् । कथमतद्विषयस्य विकल्पेनापि तज्जन्मना प्रतिपत्तिः ? अन्यथा नीलादेरप्यतद्गोचरस्यैव ततः प्रतिपत्तेनिराकारमेवं दृश्यं तद्दर्शनञ्च प्राप्तम् । नीलादेः दर्शनेऽपि प्रतिभासनमुपलभ्यत इति चेत् ; न ; एकान्तविसदृशस्य तदप्रतिवेदनात् । कथञ्चित् सदृशात्मन इति चेत्, तर्हि विकल्पेनापि तस्यैव ग्रहणात् कथमवस्तुसत्त्वं १० दृष्टे तदनुपपत्तेर्नीलादिवत् ? वस्तुविषयत्वे विकल्पस्य वैशद्यमेव स्याद् दर्शनवत्, न चैवम्, दर्शनस्यैव तत्प्रतीतेः, ततो दर्शनाद्भिन्नविषय एव विकल्पः तद्भिन्न प्रतिभासित्वात रूपदर्शनाद्रसादिज्ञानवदिति चेत् , न; हेतोर्व्यभिचारात्-आसन्नपादपदर्शनात् दूरतदर्शनस्याविशदत्वेन भिन्नप्रतिभासत्वेऽपि एकविषयत्वप्रवृत्तेः । निरूपितञ्चैतत्- “दूरदूरतरादिस्थैः" इत्यादौ । ततस्तयोरिव दर्शनविकल्पयोरप्यावरणमलविश्लेषविशेषादेकविषयत्वेऽपि विशदेतरभावोपपत्तेः उपपन्नमेव १५ वस्तुविषयत्वं विकल्पस्य, एवं शाब्दज्ञानस्यापि । शब्दस्य "सत्यर्थं प्रयुक्तस्य तदभावेऽपीच्छया प्रयोग- . दर्शनात् कथमर्थविषयत्वमिति चेत् ? विवक्षाविषयत्वमपि कथम् ? तदभावेऽपि गोत्रस्खलनादौ तत्प्रयोगस्यापि प्रतिपत्तेः । तत्र विवक्षाविशेषस्याभावेऽपि तन्मात्रमस्त्येवेति चेत् न , अन्यत्राप्यर्थमात्रस्यानिवारणात् । तन्मात्रे न शब्दविशेषस्य प्रयोग इति चेत् , विवक्षामात्रेऽपि न भवेत् । ततो विवक्षाया अपि तदर्थत्वानुपपत्तेः ताल्वादिपरिस्पन्द एव तदर्थः स्यात्, तत्र शब्दस्याव्यभिचारात् । २० विवक्षायां तु व्यभिचारः ; योगिनः १ १ तन्मात्राभावेऽपि तत्प्रवृत्तेः । कथं पुनः शब्दज्ञानेऽनवभासमानस्य तस्य तदर्थत्वमिति चेत् ? अभिप्रायस्य कथम् ? श्रवणे वक्तुरयमभिप्राय इत्यवगमादिति चेत् ? न ; तस्यानुमानत्वेनाशाब्दत्वात्, अनुमानस्य च परिस्पन्देऽप्यविशेषात् । ततो न कश्चिदपि शब्दार्थ इति प्राप्तम् ।
एवमेतत्, तद्व्यवहारस्तु विभ्रमादेव स्वप्नवत् । अस्ति हि स्वप्ने तदभावेऽपि तद्व्यवहारः- २ 'ममायमाह, मया चैतद्वचनात् प्रतीयते' इति तदर्शनादिति चेत् ; न ; अतो वचनात्प्रकृतार्थप्रतिपत्तौ3 अर्थवत एव शब्दस्योपपत्तेः । अप्रतिपत्तौ किमस्योच्चारणं वैफल्यात् । तदपि विभ्रमादेव न वस्तुत इति चेत् । न; अस्यापि तुल्यचोद्यत्वात् । पुनर्विभ्रमकल्पनायामनवस्थापत्तेः । ततः कस्यचित् किञ्चित्
१ अभिप्रायवशादर्थवत्त्वकल्पनम् । ·२ अर्थे । ३ अवस्तुत्वमेव । ४ दर्शनाविषयस्य । ५ विकल्यात् । ६ प्रत्यक्षाग्राह्यमेव । ७- भासत्वात् आ०, ब०, प० । ८ दूरदर्श- आ०, ब०, १०। ५ न्यायवि० श्लो० २।१३। १० सत्याथें ता० । ११ सामान्यविवक्षाऽभावेऽपि । १२ ताल्यादिपरिस्सन्दस्य । १३- तार्थवत एव शब्द-आ०, ब०, प० ।