________________
७०
न्यायविनिश्चयविवरणे
[२।३९-४० निरूपयता शब्दस्य तद्विषयत्वमङ्गीकर्तव्यम् अन्यथा तदनुपपत्तेः । कथं पुनर्विषयवतः तदभावेऽपि प्रयोग इति चेत् ? न । तस्य ततोऽन्यत्वात् । गुणनिबन्धनो हि शब्दो विषयवान्न तस्य तदभावे प्रयोगः । यस्य तु प्रयोगः स तस्माद् भिन्न एव दोषोपनीतत्वात् । सोऽपि स एव, स एवायमिति प्रत्य
भिज्ञानादिति चेत् । न । तस्य सादृश्यमात्रभावित्वेन विभ्रमत्वात् केशनखादिप्रत्यभिज्ञानवत् । ५ गुणदोषविवेक एव वक्तरि दुष्करी वीतदोषस्यापि सदोषवत् सदोषस्य वीतदोषवच्चेष्टासम्भवादि
ति चेत् ; न; परीक्षया तस्यापि सुकरत्वात्, अन्यथा चेष्टाव्यत्यासस्याप्यनवबोधे "नवीतदोषस्य" [प्र० वार्तिकाल० २।२८६ ] इत्यादेरवचनप्रसङ्गात् ।
तस्मादनर्थकत्वेऽपि शब्दानां दोषजन्मनाम् ।
अर्थवत्त्वं भवत्येवं गुणालङ्कृतजन्मनाम् ॥ १३८६ ॥ १० साम्प्रतं तत्रैकमभिसन्धाय' इत्यादि प्रपञ्चेन श्लोकैाचिख्यासुः सङ्केतनिबन्धनं प्रत्यभिज्ञानम् एकत्र स इति अयमिति च स्मरणदर्शनरूपोंविरुद्धाकारयोरनुपपत्त्या निराकुर्वन्तं प्रत्याह
सहशब्दार्थदृष्टावयविकल्पयतः कथम् ।
समयः [ तत्प्रमाणत्वे क प्रमाणे विभाव्यताम् ] ॥ ३९ ॥ इति ।
सह युगपत् शब्दाश्च गौरित्यत्र गकारादयो वर्णा अर्थाश्च रूपादयः तेषां दृष्टौ १५ दर्शने, न केवलमदर्शने इत्यपिशब्दः, अविकल्पयतो विकल्पमनाचक्षाणस्य । तात्पर्यमत्र
यथा न प्रत्यभिज्ञानमयमाचष्टे विरुद्धधर्माध्यासात् तथा विकल्पमप्यभिलाप्येतराकारमिति तस्य कथं न कथञ्चित् समयोऽनुगमो गकारादिगोरूपादिसमुदायवेदनं यतो गौरित्युच्चारयेत् खण्डादिरिति वा व्यवहरेत्, अस्ति च समयः, भवितव्यं ततो विकल्पेन तथा प्रत्यभिज्ञानेनापीति । एवं भवन्नपि
विकल्पो न प्रमाणं तथा प्रत्यभिज्ञानमपीति चेत् ; न, ततः समयायोगात् । सोऽपि प्रत्यक्षादेवेति चेत् ; २० न; वक्ष्यमाणत्वात् । प्रमाणत्वे तु प्रत्यभिज्ञानस्यापि तद्वत्प्रामाण्यात् युक्तस्तद्विषये सङ्केतः । किञ्च , प्रत्यभि
ज्ञानस्य भवत्यस्माकं परोक्षेऽन्तर्भावः, भवतस्तु क विकल्पस्य ? न प्रत्यक्षेत्र विकल्पत्वात् । नानुमाने; अलिङ्गजत्वात् । प्रमाणान्तरत्वे तु न प्रमाणद्वयनियमः । इदमेवाह-'तत्प्रमाणत्वे क प्रमाणे विभाव्यताम्' इति । तस्य विकल्पस्य प्रमाणत्वे क स विभाव्यताम् ? न क्वचित् प्रत्यक्षा
नुमानयोस्तदनुपपत्तेः। प्रमाणान्तरत्वे क्व प्रमाणे द्वे ? न क्वचित् तृतीयस्यापि भावात् । किं पुनर्विक२५ रुपेन समुदायपरिज्ञानस्य प्रत्यक्षादेव भावादिति चेत् ? अत्राह
तदर्थदर्शनाभावात् [ मिथ्यार्थप्रतिभासिषु ] । इति । ..
तस्य समुदायात्मनोऽर्थस्य दर्शनं तस्याभावात् । नहि क्रमभाविषु गकारादिष्वेक दर्शनम् । तन्नित्यत्वापत्तेः । नापि नानादेशेषु रूपादिषु , देशव्याप्त्या निरंशवादव्यापत्तेः । दर्शनसमुदा
१ शब्दस्य । २ निरर्थकशब्दस्य । ३ गुणिनि- आ०, ब०, प० । ४ “न वीतरागस्य सुखं यौषिदालिङ्गनादिजम् । वीतद्वेषस्य तु कृतः शत्रुसेनाविमर्दजम् ॥'- प्र. वार्तिकाल । ५- नमेव तत्र आ०, ब०, प० । ६- व्यज्ञानं न भा०, ब०, ५०।७- ध्वेवं द- आ०,ब०, ५०। ८ एकं दर्शनमिति सम्बन्धः ।