________________
७१
२।४०-४३]
२ अनुमानप्रस्तावः यात् तत्परिज्ञानमित्यपि न युक्तम् । तत्समुदायस्याप्येकदर्शनागोचरत्वात् । दर्शनान्तरसमुदायस्य च तद्विषयस्यानभ्युपगमात् । ततो विकल्पादेव तत्परिज्ञानम् , तस्य च स्वविषयेणार्थवत्त्वे प्रत्यभिज्ञानस्यापि तदुपपत्तेः । अर्थ एव सङ्केतो न ज्ञानाकारेषु इत्याह
मिथ्यार्थप्रतिभासिषु । ज्ञानाकारेषु सङ्कत इति केचित्प्रचक्षते ॥४०॥ इति । मिथ्या वितथो योऽर्थ एकत्वसादृश्यलक्षणस्तत्प्रतिभासिषु ज्ञानाकारेषु ज्ञानं प्रत्यभिज्ञानं तदाकारेषु सङ्कत इति एवं केचित् कुत्सिताः; कुत्सितत्वञ्च तदर्थस्य सत्यार्थस्यैव मिथ्यार्थत्वप्रतिपादनात्, प्रचक्षते कथयन्ति शाक्याः, तन्नः, तदाकारेष्वेवं' सङ्केतशक्तः, तद्वचनाबहिरप्रवृत्तिप्रसङ्गाच एकत्वाध्यवसायस्य प्रतिक्षेपात् । क्व तर्हि सः ? इत्याह
वागर्थदृष्टिभागेषु गृहीतग्रहणेष्वपि ।
सत्याकारावबोधेषु सङ्केतमपरे विदुः ॥४१॥ इति । वाक् च शब्दः अर्थश्च वाच्यो दृष्टिश्च तत्प्रत्ययः त एव भागा वचनविषयस्य तेषु सङ्केतं शब्दसमयम् अपरे जैना विदुः जानन्ति न ज्ञानाकारमात्रे दोषवचनात् । कीदृशेषु ? सत्याकारैः सत्यनिश्चयः अवबोधो येषां तेषु अपिशब्दस्यात्रापि सम्बन्धात् 'असत्याकारावबोधेषु' इत्यपि द्रष्टव्यम्, ततश्च शब्देषु सत्यानृतार्थत्वविभागोपपत्ति: । केषु तेषां तदवबोधत्वम् ? १० गृहीतानां दर्शनविषयीकृतानां ग्रहणानि परामर्शरूपाणि तेषु सत्सु । बहुवचनं विषयभेदेन तेषां बहुत्वात् अपिशब्दाद् अगृहीतग्रहणेष्वपि । ततो गृहीतग्रहणेषु सत्याकारावबोधत्वम्, इतरत्र तदन्यावबोधत्वमित्युक्तं भवति ।
भवर्तुं तर्हि वागादिभेदेष्वेव समय इति चेत्; न तत्र समयविषयस्यान्यतः प्रतिपत्तिः, भेदान्तरे च समयस्याभावेन फलाभावात् । नापि तेष्वेव सामान्यवत्सु, तत एव । अभिहितश्चैतत्- २० 'सम्बन्धो यत्र' इत्यादिना । नापि केवले सामान्ये; तस्यार्थक्रियायामशक्तः, 'विशेषे वैयर्थ्यात् । लक्षितलक्षणयाँ ततो विशेषाधिगमेऽप्युक्तम्-'तद्वत्यचोदिते' इत्यादिना । न च भेदादौ शक्यक्रियः सम्बन्धः; तस्यैवैकान्तरूपस्य प्रमाणाविषयत्वात् । निरूपितञ्चैतत् । एतदेवाह
न भेदेषु न सामान्ये केवले न च तद्वति ।
फलाभावादशक्तेश्च समयः सम्प्रवर्तते ॥ ४२ ॥ इति । सुबोधमेतत् । किन्निबन्धनः पुनः सङ्केतोऽयमपरे विदुरिति चेत् ? अत्राह
स एवायं समश्चेति प्रत्ययस्तन्निबन्धनः ।
वितथोऽवितथश्चापि तत्रैकत्वनिवन्धनः ॥ ४३ ॥ इति ।
१-वंश- आ०, व०, प० । २- स्या प्र-आ०, ब०, ५०। ३- रास- (०, ब०, प० । ४-तु वा त- आ०, ब०, प० । ५ न्यायवि० श्लो० २।२३। ६ 'नापि केवले विशेषे' इत्यन्वयः । ७ शब्देन लक्षितं सामान्यं तेन च लक्ष्यते विशेष इति । ८ न्यायवि० श्लो० २।२२ ।
२५