________________
७२
न्यायविनिश्चयविवरणे
[ २।४४-४६ प्रतिपादितमेव प्रत्यवमर्शनिबन्धनत्वं तस्य गृहीतग्रहणेष्विति', तत्किमनेनेति चेत् ; न ; तस्यैवानेन विस्तरतः कथनात् । स एव पूर्वगृहीत एव अयं प्रतीयमानो नापरः, समश्च सदृशश्च तेन 'अयम्' इति एवं यः प्रत्ययः प्रत्यवमर्शः तन्निबन्धनस्तद्धेतुकः 'समयः' इति गतेन सम्बन्धः । स च प्रत्ययो वितथोऽवितथश्चापि प्रातीतिकमेतत् । क पुनस्तस्यायं विभागः प्रतिपत्तव्य इति चेत् ? उक्तं तत्र तेषु वागादिषु भिन्नदेशेषु एकत्वनिबन्धनः एकत्वविषयः प्रत्ययो मीमांसकस्य वितथः; तदेकत्वाभावस्य निरूषणात्, स्वस्तिकरुचकादौ त्ववितथ एव तदेकत्वस्यावस्थापनात् । तथा 'समत्वनिबन्धनः' इत्यपि द्रष्टव्यम् , अस्योषलक्षणत्वात् । सोऽपि तत्रोपादानोपादेयरूपेषु सादृश्यमात्रविषयो मिथ्या तदेकत्वस्यापि वास्तवत्वात् , शबलशाबलेयादावमिथ्या तत्सादृश्यस्य 3निर्बाधत्वात् ।
न केवलमेकत्वसमत्वयोरेवेयं प्रक्रिया अपि तु तदन्यत्रापीत्याह
तथा तत्प्रतिषेधेऽपि वैलक्षश्यादिशब्दवत् । इति ।
तथा तेनोक्तप्रकारेण तयोरेकत्वसमत्वयोः ‘स देवदत्तोऽयं जिनदत्तो न भवति, स कर्कोऽनेन खण्डेन समानो न भवति' इति प्रतिषेधेऽपि न केवलं विधौ यः प्रत्ययस्तन्निबन्धनश्च
सङ्केतः । तथा स वितथोऽवितथश्चापि तत्रोपादानोपादेयेष्वेकत्वनिषेधी वितथः शरीरचैतन्ययोरवितथः । १५ तथा शबलशाबलेयादौ सादृश्यनिषेधी वितथः, खण्डकर्कादौ त्ववितथः, सादृश्यविशेषस्य तत्राभावात् । तत्रोदाहरणम्- वैलक्षण्यं सादृश्याभावः आदिशब्दादेकत्वाभावः तयोः शब्दस्तत्रेव तद्वदिति । साम्प्रतं सङ्केतितस्य शब्दस्य प्रवृत्तिप्रकारं दर्शयति
तत्समानासमानेषु तत्प्रवृत्तिनिवृत्तये ॥४४॥
संक्षेपेण क्वचित्कश्चिच्छब्दः सङ्केतमश्नुते ॥ इति । तत् तस्मात् समानासमानेषु सदृशासदृशेषु वस्तुषु तत्प्रवृत्तिनिवृत्तये तेषु प्रवृत्त्यर्थमनित्य इति निवृत्त्यर्थ नौनित्य इति संक्षेपेण समासेन कचित् शब्दादौ कश्चित् शब्दादिलक्षणः शब्दः सङ्केतं समयम् अश्नुते इति । न केवलमेक एव अपि तु अनेकोऽपि । इत्याह
तथाऽनेकोऽपि तद्धर्मनानात्वप्रतिपादने ॥ ४५ ॥ इति ।
तथा उक्तप्रकारेण शब्दः श्रावणोऽनित्य इत्यादि क्वचिद्धर्मिणि सङ्केतमश्नुते इति २५ सम्बन्धः । किन्निमित्तम् ? तस्य धर्मिणो धर्माः कृतकत्वादयस्तेषां नानात्वस्थ प्रतिपादने तन्निमित्तम् । कथं पुनरेकत्रानेकधर्मसद्भावः ? इत्यत्राह
एकत्र बहुभेदानां सम्भवान्मेचकादिवत् ॥ ४६॥ इति । निरूपितमेतद् बहुशः इति न प्रतन्यते ।
१ श्लोकांशेन । २ समत्वनिबन्धनः प्रत्ययः । ३ तन्निबन्धनत्वान्न केवलमेतयोरेव आ०, ब०, प०।४ न नित्य आ०, ब०, प० । ५-त्वमनेकत्वस्य प्र- आ०, ब०, प० । ६ इत्याह ता० ।