________________
२।४७-४९
२ अनुमानप्रस्तावः कथं पुनः सामान्यस्य व्यक्तिव्यतिरिक्तस्याभावे तद्व्यवहार इति चेत् ? अत्राह
समानं केनचित्किञ्चिदपरञ्च तथाविधम् ।।
भेदिवद् धर्मिणः कृत्वा समानाकारकल्पना ॥४७॥ इति । भेदिवत् भेदिनमिव कस्वा निश्चित्य । कुतः ? धर्मिणः शब्दादेः । कम् ? समानं सदृशपरिणाममनित्यादिव्यपदेशविषयं कश्चित् न सर्वम् , सर्वस्य भेदिवत्करणे 'धर्मिणोऽनवशेषात्, ५ तस्य तद्वयतिरेकेणाभावात् अपरं च तमेवान्यतस्तत्परिणामोदनन्तरं च कृत्वा। कीदृशम् ? . तथाविधम् अन्यगततत्परिणामप्रकारम्, अनेन तदपरत्वकरणे निमित्तमुक्तम् तथाविधत्वात्तदपरं कृत्वेति, कृतिरपि केनचिदषोद्धारन येन । ततः किम् ? समानाकारकल्पना सामान्यव्यवहारः ।
तदपरत्वकारिणं नयं दर्शयति
तदन्यत्र समानास्मा स एवेति [तथाविधे] । इति ।
तस्मात् शब्दादेरन्यत्र घटादौ यः समानास्मा समानः स्वभावो नित्यत्वादिः स एव यः शब्दाधिगतः तदात्मैव नापर इति एवं केनचिदपरं कृत्वा तत्कल्पनेति । ततो यदुक्तं कुमारिलेन
"तथा भिन्नमभिन्नं वा सादृश्यं व्यक्तितो भवेत् । एवमेकमनेकं वा नित्यं वाऽनित्यमेव वा॥ भिन्नत्वैकत्वनित्यत्वे जातिरेव प्रसज्यते ।"
[ मी०श्लो०शब्दनि० २७१-२७२ ] इति। तत्प्रतिविहितम् ; भिन्नत्वादेरपोद्धारनयार्पणयैव भावात् । तदपेक्षया च सादृश्यं 'जातिरेव प्रसज्यते' इत्यस्येष्टत्वेनादोषत्वात् । अकल्पिततद्रूपाया एव तस्या अनभ्युपगमात् । प्रमाणार्षणया तु न तत्र भिन्नत्वादिकम् अभेदानित्यनानारूपतयैव तया तस्य प्रतीतेः । विशेष एवैवं शब्दार्थः स्यान्न २० सादृश्यं तस्य तद्व्यतिरेकेणाभावात्, ततो व्यक्तिवादात् प्रागुक्तान्न सादृश्यवादस्य विशेषः । तदुक्तम्
अभेदानित्यनानात्वे पूर्वोक्तेनैव तुल्यता।" [ मी० श्लो० शब्दनि० २७२ ]
इति चेत्, न सारमेतत्; प्रमाणतस्तस्याऽभेदादिरूपत्वेऽपि नयवशात्तदन्यरूपत्वस्यापि भावात् पूर्वोक्तेन तुल्यत्वानुपपत्तेः । 'प्रमाणतोऽप्येकान्ततस्तत्राभेदादेरप्रतिपत्तेरित्यलं बहुजल्पितेन; तं प्रति अपोद्धृतभेदेषु समानाकारेषु तन्निबन्धनं प्रयोजनमाह
. तथाविधे। व्यवच्छेदस्वभावेषु विशेषणविशेष्यधीः ॥ ४८ ॥
तत्तन्निमित्तकः शब्दस्तथान्यत्रापि योज्यताम् । इति । तथा तेन प्रकारेण विधा विधानं तदाकारापोद्धा रणं यस्मिन् तस्मिन् धर्मिणि शब्दादौ
१ धर्मिणो न विशे. श्रा०, ब०, प० । २- मान- प्रा०, ब०, ५०। ३ भेददृष्टया । ४ एवायं श-ता० । ५ अभेदनित्यतानाना-प० । ६ प्रमाणेप्ये-आ०, ब०, प० । ७ तदान्यत्रा- आ०, ब०, प० । ८-ण वा विधानं आ०, ब०प० ।
१०