________________
न्यायविनिश्चयविवरणे
२।४९] योज्यताम् सम्बद्धयताम् , विशेषणविशेष्यधीः विशेषणधीरनित्य इति विशेष्यधीः शब्द इति । केषु सत्सु सा तत्र योज्यताम् ? व्यवच्छेदस्वभावेषु व्यवच्छेदो विपरीतव्यावर्तनं स्वभावो येषां तेषु समानाकारेष्वपोद्धतेषु, तदभावे निमित्ताभावेन तत्र तद्योजनानुषपत्तेः । अतद्रपाव्यवच्छेदे च तेषां न ततो विशेषणादिबुद्धिः, तेषामेवाव्यवस्थितेरिति व्यवच्छेदपदम् । स्वभावग्रहणं तु तेषामपोहरूषत्वनिषेधार्थम् , अपोहस्य नीरूपत्वेन स्वभावत्वासम्भवात, अस्वभावस्य च तद्बुद्धिनिमित्तत्वानुपपत्तेः । न केवलं तद्धीरेवापि तु शब्दो विशेषणादिश्रुतिः तत्र योज्यताम् । कीदृशः तत्तन्निमित्तकः स स समानाकारविशेषो निमित्तं यस्य स तत्तन्निमित्तकः । वीप्साद्विरुक्तस्य तच्छब्दस्य निमित्तपदेन बहुव्रीहिः । न केवलं धर्मिण्येव तथान्यत्र घटादावषि योज्यताम् उक्तरूपा बुद्धिः शब्दश्च।
___ अस्तु वस्तुतः सादृश्ये ते नित्यसदृशे नित्यसदृशस्य शब्दस्य योजनम् , सादृश्यञ्च न वस्तुन्यवस्थितं सम्भवति, प्रत्युत्पत्तिविलक्षणे वस्तुनि चिरापक्रान्तसङ्केतविषयापेक्षया पश्चाद्भाविनि सादृश्यस्य निमूलतो. विनाशात् । विशेषणशब्दे स्वरव्यञ्जनादिभेदेन तत्रात्यन्तवैसादृश्यस्य प्रतीतेः, यथा शालाशब्दान्मालेल्यादौ अपकृष्यमाणस्य वेश्येत्यत्रात्यन्तिकविनाशः, तथान्यत्रापि तत्सम्भवमुत्पश्यतां
कथं कस्यचित्प्रयोगः सतोऽप्यर्थवत् ? सदृशाच्छब्दात्तत्प्रतीतिः भ्रान्तिरेव धूमसदृशाद्वाप्पादेवि १५ पावकप्रतीतिः । भवत्वेवमिति चेत्, न, बाधकविरहात् । तावता तर्हि तत्प्रतीतेरपि भ्रमत्वमिति चेत् तथा शब्दनित्यत्वमपि सिध्येत्, तज्ज्ञानस्यापि तद्विरहाविशेषात् । तदुक्तम्
"वस्तुन्युत्पत्तिभिन्ने च दूरादारभ्य कल्पितम् । स्तोकस्तोकविशेषेण सादृश्यं विप्रकृष्यते ॥ स्वरव्यञ्जनमात्रादिभेदाच्छब्दे विशेषतः । शाला माला बला वेला वेश्येत्यादि विकल्पनात् ॥ सदृशात्प्रतिपत्तौ च भ्रान्तिज्ञानं प्रयुज्यते । धूमे दृष्टेऽग्निसम्बद्ध वाष्पादिव कृशानुधीः ॥ एवमस्त्विति चेद् ब्रूयान्नैतबाधकवर्जनात् । तावता सिद्धमिति चेच्छब्दाभेदोऽपि सिध्यतु ॥"
[मी० श्लो० शब्दनि० श्लो० २६७-७० ] इति चेत्, न; अपकर्षातिशयेऽपि सादृश्यस्य कचिदत्यन्तनाशस्यासम्भवात् क्वचिदपरिज्ञातसादृश्यस्यापि तत्प्रसङ्गात् । दृश्यते हि तस्यापि तदतिशयः भस्मादेः एकेन्द्रियजीवे, ततोऽपि द्वीन्द्रिये, ततोऽप्यन्यत्र यावच्छास्त्रार्थवेदी पुरुषः । यत्र च तस्यात्यन्तनाशस्तस्य सर्ववेदित्वेन धर्मेऽपि प्रामाण्यात् न “धर्मे चोदनैव प्रमाणम्" [ ] इत्यवतिष्ठेत । न च सोदृश्या
१-द्धिश्च श- आ०, ब०, प० । २ विशेषणविशेष्यधियौ। ३ भवत्येव-आ०, ब०, प० । कल्पनं आ०, ब०, प०। ५-ब्दाभेदो- आ०, ब०,५०। ६यावान् शा- आ०, ब०, प० ।