________________
२।४९]
२ अनुमानप्रस्तावः प्रतिपत्तिान्तिरेव, विशेषावधारणे तदभावात् । तदनवधारणाच्च प्रतिपत्तुरेव दोषान्न सादृश्यस्य । कथञ्चैवम् अहमिव सर्वे पुरुषाः प्रतिनियतार्थमिन्द्रियैः पश्यन्ति इत्युपमानमभ्रान्तम् ? सादृश्यादेव तस्यापि भावात् । ततो विभ्रमविलासादेव 'वस्तुनि' इत्याद्यभिजल्पितं न परिशुद्धज्ञानसामर्थ्यात् । 'तावता' इत्याद्यपि न सुभाषितम् ; शाब्दज्ञानवत् शब्दकत्वज्ञाने बाधविवर्जनस्याभावात्, तस्य च यथावसरं निरूपणात् ।
तथा, वाचकत्वं शब्दस्य अर्थवता तदन्तरेण सादृश्यात्, अर्थवत्त्वञ्च सम्बन्धात् । स च न क्षणिकत्वे सम्भवति दुरवबोधत्वात् । सम्भवेऽपि सर्गादौ सर्वज्ञकृतस्य तद्वतः शब्दस्यास्माभिरनवलोकनात् कथं तत्र तत्सदृशे बुद्धिः ? यदि मतम्-तत्कालीनैः पुरुषैः तत्सदृशप्रतिपत्त्या तन्निबन्धनो व्यवहारः प्रबन्धेन प्रवर्तितः ततोऽनुमीयते मुख्यः कश्चिदर्थसम्बन्धः शब्द आसीत्, ततः सुगमैव तत्सादृश्यपरम्परा परापरशब्देषु प्रसज्यत इति; तन्न; एवमपि तद्विशेषस्यानवगमात् कथं क्वचिद्विशि- १० ष्टस्य सादृश्यस्यावगमो यतो विशिष्टार्थप्रतिपत्तये तत्प्रतियत्न इति चेत् ? न; लिङ्गेऽप्येवं प्रसङ्गात् । नहि तस्यापि सादृश्यादन्यतो गमकत्वं सामान्यप्रतिक्षेपात्, तत्र च सम्बन्धाभावस्य सत्यपि सर्गादिकृते सम्बन्धे तद्वतोऽन्यत्र तत्सादृश्यापरिज्ञानस्य च शब्दवदुपनिपातात् । तत इदमपि वेदवादिनो बालविलसितमेव
"सम्भवेद्यदि सम्बन्धः सर्गादौ कस्यचित्कृतः । तस्मिन्नबुद्ध नैव स्यादस्माकं सदृशे मतिः ॥ अथ तत्कालजैः भिस्तस्मिन् शब्देऽवधारिते । प्रवृत्तेरनुमीयेत तत्सादृश्यपरम्परा ॥ तत्र सम्बन्धमात्रेण पूर्वोक्तन प्रयुज्यते । स्मार्या तन्मूलसादृश्यं तदधीनार्थनिश्चये ॥"
[ मी० श्लो०शब्दनि० २६४-६६ ] इति । न च सर्वज्ञकृतसम्बन्धशब्दसादृश्यादेव अधुनासनस्य वाचकत्वम् । उपाध्यायोपदर्शितप्रतिबन्धगोशब्दसादृश्यादपि तदपरगोशब्दस्य गँवादौ तदर्थप्रयोगोषपत्तेः । उपाध्यायस्यापि तत्र तत्प्रयुक्तिः तदपरोपदर्शिततत्सादृश्यादपीति न किञ्चिदाद्यसादृश्यपरिज्ञानप्रयासेन ? ततो युक्तमुक्तम्-'शब्दः प्रयुज्यताम्' इति ।
यदि न पुनः सदृशपरिणाम एव सामान्यं तस्य व्यक्तिवदनेकत्वात् कथं तत्र सत्तेत्येकतया व्यवहार इति चेत् ? अत्राह
ततः सत्तेति [ साध्यन्ते सन्तो भावाः स्वलक्षणाः] ॥४९॥
ततस्तस्मादपोद्धारनयात् सत्तेति उपलक्षणमिदं तेन द्रव्यत्वं गुणत्वमित्याद्यपि भवतीति शेषः । नन्विदमुक्तमेव 'समानम्' इत्यादिनेति चेत् , न तस्यैवानेनोपसंहारात् । ततः किम् ? ३०
१ विवर्जितस्या- आ०, ब०, प० । २ अथा वा- ता० । ३ भवेद्यदि च स- आ०, ब०, प० । ४ वागादौ आ०, ब०, प० । ५ सामान्यमि-ता० ।