________________
4
न्यायविनिश्चयविवरणे
[२।५० इत्याह- साध्यन्ते सन्तो भावाः सवलक्षणाः इति तत इत्यत्रागतम् । ततस्तस्मात् सामान्यस्यैकस्याभावात् 'अस्ति बहिरर्थः' इत्यादौ भावाः घटादयः सन्तो विद्यमानाः साध्यन्ते नैका सत्ता तदभावात् । अन्यथा पृथिव्यादिषु तत्साधनादेव रूपादावपि तत्सिद्धेः, द्रव्यतत्साधनात् पृथग्गुण' तत्साधनप्रयासो व्यर्थ इति मन्यते । निरूपितञ्चैतत्-'नित्यं सर्वगतम्'[ ] इत्यादिना । कीदृशास्ते सन्तः ? स्वलक्षणाः स्वा ( स्वम् आ ) त्मीयमपरामिश्रणं लक्षणं सदृशेतरपरिणामरूपं येषां ते तथोक्ताः। एकान्ततः सादृश्ये वैलक्षण्ये च सत्त्वप्रतिक्षेपात् ।
पुनरपि तन्नयात् सिद्धं दर्शयति--
नानैकवचनाः शब्दाः [ तथा सङ्केतिता यतः ] इति ।
एकत्राषि जलकणिकादौ वस्तुसतोऽनेकस्यैकस्य च धर्मस्यापोद्धारे यथाक्रममपोद्धाराः १० जलं कलत्रमिति नानावचना एकवचनाश्च भवन्ति शब्दाः। कुतः पुनरबादयः एकवचना कलत्रादयश्च
नानावचना न भवन्तीति चेत् ? अत्राह-'तथा सङ्केतिता यतः' इति । नानैकवचनप्रकारेण सङ्केतिता वृद्धैर्यतस्ततो नानैकर्वंचना नान्यथेति मन्यते । ततो न युक्तमेतत्
"विवक्षापरतन्त्रत्वान्न शब्दाः सन्ति कुत्र च।" [प्र० वा ०१।१८ ] इति ।
__ अर्थवतोऽपि वृद्धव्यवहारांतिक्रमेण न प्रयोगोषपत्तिः सुतरामनर्थकस्य अन्यथा विवक्षेत्यादेरपि १५ सर्वत्र शब्दाभाव एव विवक्षया प्रयोग इति शङ्कायां कथमतः सर्वत्रातत्सद्भावप्रतिपादनं यतोऽसाधनाङ्गवचनात्तद्वादिनो न निग्रहावाप्तिः ? ततो युक्तं 'तथा' इत्यादि । 'सह' इत्यादयो व्याख्यानश्लोकाः ।
___ यदि समानप्रत्यवमर्शात्सामान्यं तहिं जलयोरिव जलमरीचिकाचक्रयोरपि तद्भवेत्-'इदं जलमिदमपि जलम्' इति, तत्रापि समानप्रत्यवमर्शादिति चेत् , न; तच्चके तत्प्रत्यवमर्शस्य बाध्यत्वेन मिथ्यात्वात् । न हि मिथ्याप्रत्ययात् तद्विषयसिद्धिः ; द्विचन्द्रादिज्ञानादपि तत्प्राप्तेः । ततो निर्बाधादेव २० प्रत्यवमर्शात्तत्सिद्धिः । एतदेवाह
प्रत्यभिज्ञा द्विधा [ काचित्सादृश्यविनिबन्धना ] ॥५०॥ इति ।
'प्रत्यभिज्ञा प्रत्यवमर्शः । पँस्तावात् सामान्यविषयैव गृह्यते नैकत्वविषया,विपर्ययात्, तस्याः निरूपितत्वाच्च । सामान्यप्रत्यभिज्ञापि निरूपितैव स एवायं समश्च' इत्यत्रेति चेत् , सत्यम् । तथापि
सम्यमिथ्यार्थप्रतिपादनार्थमिदमुक्तम् । सा द्विधा मिथ्या तथ्या चेति द्विप्रकारा । ततस्तथ्याया एव २५ सामान्यसिद्धिरिति मन्यते । सामान्यमपि समानाकार एव, स च जलवत्तच्चक्रस्याषि विद्यत
एव तत्कथं तत्प्रत्यवमर्शो मिथ्येति चेत् ? न, तद्विशेषस्यैव तत्त्वेनोपगमात्, न तन्मात्रस्य । स च जल एव । तत्रैव निर्बाधात्प्रत्यवमर्शत्वात् न तच्चक्रे विपर्यायात् । तन्मात्रापेक्षया तु भवत्येव स तत्रापि तथ्य एव चैकचिक्यादेः सत एव तदाकारस्य तेनाधिगमात् । कथं पुन: स एव तद्विशेषतन्मात्रापेक्षया मिथ्या तथ्यश्चेति चेत् ? बाधकभावेतराभ्यामिति ब्रूमः । कथन्न विरोध
१- णादौ त- आ०, ब० प० । २ न्यायवि० श्लो० १११५४ । ३- कर्णिका- भा०,ब०,प० । ४- वचनेनान्य- आ०, ब०, प० । ५ रानति- आ०. ब..प० । ६ प्रत्यभिज्ञा नाम प्र-ब० । प्रत्यभि नानामप्र-प०। ७ "अवसरात् , प्रस्तावः स्यादवसर इत्यमरः"-ता० टि०। ८ न्यायवि० श्लो० २।४३ । सामान्याकार आ०, ब०, प० । १०-ति बा- आ०, ब०, प० ।