________________
२।५१]
२ अनुमानप्रस्तावः
इति चेत् ? न दृष्टत्वात् । तत्रापि तत्कल्पनायां न किञ्चिद्भवेत् । ततो निर्बाधाया एव प्रत्यभिज्ञायाः तत्सिद्धिर्नान्यतः । सा च काचिदेव तदेवाह - 'काचित्सादृश्यविनिबन्धना' इति । काचित् जलविषया न तच्चक्रादिगोचरा सादृश्यस्य विशेषेण तन्मात्रातिशायिना रूपेण निबन्धनं व्यवस्थापनं यस्याः सा तथेति । सैव कस्मात्तथा ? इत्याह
1
७७
प्रमाणपूर्वका नान्या [ दृष्टिमान्यादिदोषतः । ] इति ।
प्रमाणं प्रत्यक्षादि पूर्वं कारणं यस्याः सा काचिदेव नान्या तच्चक्रविषया यतः इत्यनेन कारणशुद्धया तस्याः सत्यत्वोपदर्शनात् सैव तद्विनिबन्धना नापरेत्युक्तं भवति । कुतः पुनरस्या भवति ? इत्याह- 'दृष्टिमान्द्यादिदोषतः' इति । दृष्टेर्मरीचिकादर्शनस्य मान्द्यं यथावस्थिततत्परिच्छित्तिं प्रत्यपाटबम् आदिर्यस्य जलाभिलाषादेः स एव दोषस्तत इति । अनेनापि दोषवत्कारणत्वेनासत्यत्वान्न सा तन्निबन्धनेति निवेदितम् ।
१०
स्यान्मतम्–खण्डादौ सामान्यप्रत्यभिज्ञावत् एकत्वप्रत्यभिज्ञाप्यस्ति कथं समान एवाकारः सामान्यं नैक इति ? तन्न, समानप्रत्यभिज्ञाया एव प्रत्यक्षपूर्वकत्वेन तत्संवादनात् प्रामाण्योपपत्तेर्न परस्याः । तदाह'प्रत्यभिज्ञा' इत्यादि । यद्यपि समानैकविषयभेदेन द्विधा खण्डादौ प्रत्यभिज्ञा तथापि काचित् सा समानविषया दृश्य विनिबन्धना दृश्यो दर्शनवेद्यः समानाकारस्तद्विनिबन्धना तोरा । तत एव प्रमाणपूर्वका च तत्र प्रमाणं नान्या नैकत्वविषया तद्विपर्य्ययात् । नहि सामान्यमेकं शक्यदर्शनम् । १५ तथाहि - यदि तदेकम् ; व्यक्तिवदन्तरालेऽपि स्यात् । अनुपलम्भान्नेति चेत्, कथमेकम् ? प्रत्यन्तरालं विच्छेदे व्यक्तिवन्नानात्वस्यैवोपपत्तेः । विच्छिन्नमप्येकमेव एकप्रत्यवमर्शादिति चेत्; अहो मी विवेकशक्तिः कुमारिलस्य यदसौ मृतमपि जीवन्तमभिधत्ते । कथञ्चैवं लूनपुनर्जातकेशादिरप्येको न भवेत् ' स एवायं केशादिः' इति प्रत्यवमर्शात् ? लवनप्रत्ययेन बाधनान्नेति चेत्, न; अन्यत्रापि विच्छेदप्रत्ययेन तस्यावश्यम्भावात् । विच्छेदं पश्यतोऽपि एकप्रत्यवमर्शो न निवर्त्तत इति चेत्; २० सौगतादेः शब्दं नित्यं पश्यतोऽप्यनिं व्यप्रत्ययस्यानिवर्त्तनाद् वेदादेरनित्यत्वमेव स्यात् । दुरागमाभ्यासोषनीतस्य मनोदोषस्याभावे निवर्त्तनमन्यत्रापि । ततः -
"व्यक्तिष्वेव च सामान्यं नान्तरा गृह्यते यतः ।" [ मी० इलो० आकृति ० इलो० २५] इति बुवाणस्य स्ववचनविरुद्धमेतत् -
-
" तस्मादेकस्य भिन्नेषु या वृत्तिस्तन्निबन्धनः ।
२५
कुतश्चिदेकबुद्धिकरणादेवैकत्वस्योपगमात्,
सामान्यशब्दः सत्तावदेकाधिकरणेन वा ॥" [ मी० श्लो० आकृति ० २४ ] इति । न वस्तुतो भिन्नेषु तदेकम् अनेकस्यापि 'एकाधिकरणेन वा' इत्यस्यैव पक्षस्य परिग्रहादिति चेत्; न किञ्चिद् व्याहतम्, स्याद्वादिभिरप्यपोद्धारनयेन तदुपगमात् । निवेदितश्चैतत् - 'समानं केनचित्' इत्यादिना । तन्न व्यक्तिगतं तदेकम् । सर्वगतज्ञानव - आ०, ब०, प० । २ - यात्तर्हि विपर्ययात्तर्हि सा- आ०, ब०, प० । ३ बाधनस्य । ४ - तो ह्येकत्र प्र- आ०, ब०, प० । ५ नित्यस्यानि - आ०, ब०, प० । ६ सत्तावदभावे कथं करन आ०, ब०, प० । “सत्तादावे कधीकरणेन" मी, ० इलो० । ७ न्यायवि० श्लो० २।४७ ।
१
-