________________
७८
न्यायविनिश्चयविवरणे
[२५१ मेकमिति चेत्;अन्तराले किन्न तदुपलब्धिः ? अनभिव्यक्तेरिति चेत्; व्यक्तिप्वपि न भवेत् । नहि तदेव कचिदभिव्यक्तमनभिव्यक्तञ्चोषपन्नं विरोधिरूपाधिकरणत्वेन भेदापत्तेः । इष्टैव तदापत्तिः कथञ्चित्, कथञ्चिदेव तदधिकरणत्वस्यापि भावादिति चेत्, न; तस्य सावयवत्वप्रसक्त्या "विभुत्वावयवाभावौ प्रतिपाद्यौ च शब्दवत् ।" [ मी० श्लो० वन० ३१ ] इति व्यापत्तेः । कुतश्च व्यक्तिषु तस्याभिव्यक्तिः ? स्वशक्तित इति चेत्, तदन्तरालेऽपि स्यात् । सति तस्मिन् शक्तेरप्यवश्यम्भावादभेदात् । • भेदे कयं सा तस्येति व्यपदेशः ? सम्बन्धादिति चेत्; तथापि कथन्न सा तदन्तराले ? निरवयवेन सम्बन्धे 'व्यक्तिगत एव तत्र सौनान्तरालगते' इति विभागानुपपत्तेः । कथञ्चैवम् “व्यक्ति [:] शक्त्यनुरोधतः" [ मी० श्लो० आकृति० २६ ] इत्युक्तम् ? स्वशक्तितस्तदभिव्यक्तौ तदनुषपत्तेः । अस्तु
व्यक्तिशक्तित एव तदभिव्यक्तिरिति चेत्; किमभिव्यक्तेनापि तेन ? अशक्तत्वेनं क्वचिदनुषयोगात् । १० शक्तमेव तदपि वाहदोहादौ, न चैवं विशेषवैयर्थ्य विशेषाणामपि तदात्मनामेव तत्र व्यापारान्न
केवलानामिति चेत् ; उच्यते-यदि विशेषशक्तिरेव तस्यापि शक्तिः कथन्न तद्भेदे विशेषवत्तस्यापि नानात्वम् ? तद्भेदेऽप्येकत्वस्याविरोधादिति चेत् , विशेषाणामपि तदेव स्यात् । न तथा प्रतिभासनमिति
चेत; समानमेतत्सामान्ये ऽपि । न हि तस्याप्यविच्छिन्नस्य प्रतिभासनम् अन्तराले विच्छिन्नविग्रहस्यैव तस्य तदुपलब्धेः । अन्यैव तस्य शक्तिरिति चेत् ; तन्नानात्वे कार्यनानात्वस्य तत एव भावाद् व्यर्थं १५ व्यक्तिषु तन्नानात्वकल्पनम् । तदेकत्वे वा न कार्यनानात्वं शक्त्यभेदेन तदनुपपत्तेः ।
व्यक्तिशक्तीनां नानात्वात्तन्नानात्वमिति चेत् ; आगतं काचषच्यं सामान्यशक्तित एकत्वम्, नानात्वञ्च व्यक्तिशक्तितः इति । तन्न वाहादौ तस्योपयोगः । स्वप्रतिपत्ताविति चेत् । न ; तस्यापि व्यक्तित एव भावात् “व्यक्तिशक्त्यनुरोधतः" [ मी० श्लो० ] इत्यभिधानात् । ततस्तत्समवायिन
एवाभिव्यक्तिर्न व्यापिनः । व्यापिनस्तु तदभिव्यक्तात्स्वरूपादेवेति चेत् , कथं पुनस्तत्समवायिरूपं व्यापिसा२० मान्यस्य ? यतस्तदभिव्यक्तिस्तस्य स्यात् । तस्यैव समाप्त्या तत्र समवायादिति चेत्; कथं व्यापित्वं समाप्तौ
तदयोगात् ? अन्यत्रापि तस्यैव प्रतीतेरिति चेत् , न , युगपत्तदसम्भवाद् व्यक्तिवत् । क्रमेणेति चेत् ; न ; तदविशेषात् व्यक्तीनामपि विभुत्वात् । ततो न युक्तमेतत्--
“यथा च व्यक्तिरेकैव दृश्यमाना पुनः पुनः ।। कालभेदेऽप्यभिन्नैवं जातिर्भिन्नाश्रया सती ॥' [ मी०श्लो०वन० ३२ ] इति ।
क्रमव्याप्तावेव व्यक्तरुदाहरणत्वोपपत्तेः । युगपत् युगपदपि तत्र तत्र तस्य प्रतिपत्तिदृश्यत २५
इति चेत् । न ; दृष्टाया अपि समाप्तिप्रत्ययबाधितत्वेन विभ्रमत्वात् । तस्मादवस्त्वेव मीमांसकस्य सामान्यमशक्तरेविज्ञानाच्च ।
___तत एव नैयायिकादेरपि ; तस्यास्त्येव परिज्ञानं गौरयमयमपि गौरिति प्रत्ययादिति चेत् । न , तस्य विशेषगोचरत्वात् । भिन्नेषु कथमभिन्न प्रत्यय इति चेत् , भवतः कथम् ? अभिन्नसामान्य३० सम्बन्धादिति चेत् ; न , तेनापि तत्र भेदस्यानपाकरणात् साङ्क-पत्तेः । अभिन्नप्रत्ययमेव तत्र स
१- पि तु भ- आ०,ब०, प० । २ साधना- आ०, ब०,प० । ३- त्वे क्व- आ०,ब०, ५० । ४ तदेव तत्स्या -आ०, ब०, प० | ५ युगपदपि आ०, ब०, प० । ६-नत्वमेव तत्सा-पा०, ब०, प० ।