________________
७९
२।५१]
२ अनुमानप्रस्तावः करोतीति चेत् ; स तर्हि विभ्रम एव अतस्मिंस्तद्ग्रहणत्वात्। ततः कथं सामान्यसिद्धिः ; तन्मात्रे सम्यक्त्वादिति चेत् । न ; एकत्र सम्यक्त्वविभ्रमयोर्विरोधात् । अविरोधे वा समानाकारे तस्य सम्यक्त्वं तदेकत्वे तु विभ्रम एव बाधाविशेषात् । तन्न सामान्यस्यैकत्वमाकारः । कुतस्तर्हि तत्प्रत्यभिज्ञा ? इत्याह—'दृष्टि' इत्यादि । दृष्टया स्वमतश्रद्धया मान्धं बुद्धर्वस्तुविचारं प्रत्यपाटवम् आदिशब्दादेकसामान्यसंस्कारादिः स एव दोषः तत इति ।
स्वमताभिनिवेशादेः सर्वं सर्वत्र विद्यते । इति बुद्धिर्यथैवेयं पारमः प्रकल्प्यते ॥१३८७॥ मीमांसकादिभिस्तद्वदेकं सामान्यमित्यपि ।
कल्प्यते बुद्धिरीक्षा दृष्टिमान्यादिदोषतः ॥१३८८॥ कथमेवं समानपरिणामे समर्थिते विशेषपरिणामो यत इदमवतिष्ठेत्-'तत्समानासमानेषु १० इत्यादीति' चेत् ; न ; विशेषप्रत्यभिज्ञया तस्यापि समर्थनात् तदाह—'प्रत्यभिज्ञा द्विधा' इति । कुतो द्विधा ? काचित्सादृश्यविनिबन्धना। काचिदिति वचनादन्या वैसदृश्यनिबन्धना यत इति । सापि प्रमाणपूर्विका प्रमाणतः प्रत्यक्षादेः सामान्यविशेषात्मकवस्तुविषयादत्पत्तेः नान्या। या त्वन्या सादृश्याद्येकान्तप्रत्यभिज्ञा न सा तत्पूर्विका प्रत्यक्षादिना तद्विषयस्याप्रतिपत्तेः । ततो न ततस्तत्समर्थनमप्रमाणत्वादिति मन्यते । कुतस्तर्हि सा ? तत्रोत्तरम्-'दृष्टि' इत्यादि १५ व्याख्यानं पूर्ववत् । ततो यदुक्तम्
"सर्वज्ञानानि मिथ्या च प्रसज्यन्तेऽत्र कल्पने ।" [मी०श्लो॰आकृति०७२] इति।
तद्यदि सामान्यज्ञानवद्विशेषज्ञानानामपि समानाकारपराङ्मुखत्वात् अभिमतमेव तन्मिथ्यात्वं तदभिमुखतयैव सम्यक्त्वोपपत्तेः, तत्र निर्बाधत्वादन्यत्र विपर्ययात् । ततः सिद्धं शब्दानां वस्तुविषयत्वं समानपरिणामे सङ्केतात् , तस्य च वस्तुत्वेनावस्थापनात् । गौरेव २० कश्चिन्न प्रसिद्धस्तदन्यतो विशेषाग्रहणात् कथं तत्सादृश्येन खण्डादौ गोशब्दस्य सङ्केतः ? तदुक्तम्
"विशेषग्रहणाभावादेका गौः कश्च कल्प्यताम् ।" [मी० श्लो॰आकृति०७३] इति ।
इति चेत्, न, तस्य वृद्धव्यवहारविषयस्य प्रसिद्धत्वात् । वृद्धानाञ्च तदपरव्यवहारविषयसादृश्यात्तदुषपत्तेः । अतद्व्यवहारद्वीपादागतं तु प्रतिपत्तारं प्रति न प्रसिद्धसादृश्यात्सङ्केतः किन्तु सादृश्यविशेषाधिष्ठानेषु खण्डादिषु 'एते गाव इति प्रतिषत्तव्याः' इति । ततो निरवद्यं तेषां तद्विषयत्वं २५ २ लिङ्गवत् । लिङ्गादवस्त्वेव प्रतीयत इति चेत; न; अप्रतिबन्धात् । नहि तस्य तस्मादुत्पत्तिः; अशक्यत्वात् । नापि तादात्म्यम्। स्वयमवस्तुत्वापत्तेः, अनेकान्तस्य चानभ्युपगमात् । ततस्ततोऽपि साध्यस्य वस्तुन एव प्रतिपत्तिः ।
___ कथं तर्हि बहिरादिवत् प्रधानस्यापि सत्त्वं ततो न साध्यते ? अनन्वयादिति चेत्, न; अन्वयस्य॑ भवन्मतेनालिङ्गलक्षणत्वादिति । अत्राह
१ न्यायवि० श्लो० २।४४ । २ वैसाह- प० । ३ "लिङ्गस्य यथा साध्याख्यवस्तुविषयत्वम्" ता. टि०। ४-स्य च तन्म-आ०, ब०, प० ।