________________
न्यायविनिश्चयविवरणे
[२५१ अस्ति प्रधानमित्यत्र लक्षणासम्भवस्वतः ॥५१॥ इति ।
अस्ति विद्यते प्रधानं सत्त्वरजस्तमसां सायावस्थानम् इति एवं' न साध्यते 'साध्यन्ते' . इत्यनुवृत्तस्यै नेत्यनेनाप्यनुवृत्तेनैव ( नैक ) . परिणामेन सम्बन्धात् । कुतो
न साध्यते ? अत्र अस्मिन् साध्ये लक्षणस्य 'साध्यं शक्यम्' इत्यादेः असम्भवत्वतः । सम्भवतो भावः सम्भवत्वं तदभावात् । न ह्यभिप्रेतमप्रसिद्धमित्येव लक्षणमपि तु शक्यञ्च । न
च , प्रधानं शक्यम् ; तस्यैककारणरूपस्य जगत्कारणानेकत्वग्राहिणा प्रत्यक्षादिना प्रतिक्षेषात् अनुष्णाग्निवत् । अथवा अत्र अस्मिन् परप्रतिपादिते भेदानां परिमाणादौ तल्लिङ्गे लक्षणासम्भवत्वतो लिङ्गलक्षणस्याभावात् न साध्यत इति । त्रैरूप्यमेव तल्लक्षणं तदभावादेव
तर्हि तन्न साध्यत इति चेत् ; न ; तस्यालक्षणत्वेन वक्ष्यमाणत्वात् । ततोऽन्यथाऽनुपपन्नत्वस्यैवा१० भावात्ततस्तन्न साध्यते । तदभावश्च प्रधानानपेक्षे भोगे तद्भावात् । अस्ति हि विषयानुभवात्मनि
भोगे परिमाणादिः, न च तस्य प्रधानं कारणम् अचेतनत्वापत्तेः । अचेतन एव वस्तुतो भोगो बुद्धेविषयाकारपरिणामस्यैव तत्त्वात् , चेतनत्वं तु तत्रं पुरुषसम्बन्धनिबन्धनाद्विभ्रमादेवेति चेत् ; न ; एवं पुरुषस्यैवासिद्धः । नासिद्धिः, संघातपरार्थत्वाल्लिङ्गात् प्रतिपत्तेरिति चेत् ; कः पुनः पुरुषस्य
सङ्घातेनार्थः ? भोग इति चेत् ; न ; तस्य बुद्धावेव भावात् । विभ्रमात्पुरुषे ऽपीति चेत् ; न ; विभ्रम१५ स्यैव पुरुषासिद्धावसिद्धेः । तत्सिद्धौ सिद्धिरिति चेत् ; न , चक्रकदोषात् । तत्सिद्धौ तस्य बुद्धिसंसर्गातत्र भोगविभ्रमः तेन च सङ्घातस्य तादर्थ्यम् , ततश्च तत्सिद्धिरिति । किञ्च
विभ्रमोऽचेतनश्चेन्न तेन भोगमतिर्न रे । अन्यथा व्यर्थमेव स्यात् क्वचिच्चैतन्यकल्पनम् ॥१३८९॥ तत्रापि चेतनत्वं चेद्विभ्रमादवकल्प्यते । अनवस्थानदोषस्त्वां जीवन्तन्नावमुञ्चति ॥१३९०॥ न च विभ्रममालेयमेकभोगानुबन्धिनी । प्रतीतिपथमाप्नोति प्रीत्यै या तव कल्प्यते ॥१३९१॥ वस्तुनश्चेतनत्वे तु १ भोगचिद्विभ्रमात्कथम् । विभ्रमस्यापि भोगत्वादन्यथानुभवात्मनः ॥१३९२।। ततो न परिमाणादेः प्रधानास्तित्वसाधनम् । अन्यथानुषपन्नत्ववैकल्याद् व्यभिचारिणः ॥१३९३॥ साधनादिप्रयोगस्य न चैवं व्यभिचारिता ।
यतस्ततो न सिद्धिः स्याद् बहिर्भावादि वस्तुनः ॥१३९४॥ १ एतन्न सा-आ०, ब०, प० । २- स्य तेने-आ०, ब०, प० । ३ न्यायवि० श्लो०२।१। ४ तस्यैव का-श्रा०, ब० ,प० ।५ "भेदानां परिमाणात्समन्वयात् शक्तितः प्रवृत्तेश्च । कारण कार्यविभागादविभागाद्वैश्वरूपस्य ||"-साख्यका० १५। ६ लिङ्गलक्षणम् । ७ बुद्धि विपर्ययाका-आ०, ब०,१०।८ भोगे। ९ सांख्यका० १७ । १० भोगविद्वि-आ०, ब०, ५०