________________
२१५२]
२ अनुमानप्रस्तावः ननु अन्यथानुपपन्नत्वमपि सत्येव पक्षधर्मत्वादी भवति ततस्तदेव हेतुलक्षणं तदसत्त्वादेव च प्रधानास्तित्वमप्यसाध्यमिति चेत् ; न , तदभावेऽपि क्वचित्तदुपलम्भात् । तदाह
तत्रान्यत्रापि वासिद्ध यद्विना यद्विहन्यते ।
तत्र तद्गमकं [ तेन साध्यधर्मी च साधनम् ] ॥ ५२ ॥ इति ।
अपिशब्दो मिन्नप्रक्रमोऽसिद्धमित्यस्यानन्तरं द्रष्टव्यः । ततोऽयमर्थः-तत्र तस्मिन् ५ विवक्षिते धर्मिणि असिद्धमपि न केवलं सिद्धम् अन्यत्र वा अन्यस्मिन् दृष्टान्तधर्मिणि इव । वाशब्दस्य इवार्थत्वात् । तत्किम् ? तत् साधनं गमकं तत: पक्षधर्मत्वादेरतल्लक्षणत्वमव्यापकत्वादिति मन्यते । व ? तत्र साध्ये। कीदृशं तत् तत्रेति तदिति चोच्यते कुतो वा तदगमकम् ? अत्रोत्तरम्-यद्विना यदन्तरेण यद्विहन्यते यद्विघटते । एतदुक्तं भवति- यत्स्वयं निवर्तमानं लिङ्ग निवर्त्तयति तत्तत्रेति, यच्च यन्निवृत्त्या नियमेन निवर्त्तते तत्तदिति, १० तन्निवृत्त्या निवृत्तिनियमश्च गमकत्वे निबन्धनमिति । ननु तदेव नास्ति यत्र पक्षधर्मत्वादिरहिते तन्निवृत्त्या निवृत्तिनियमः ततो गमकत्वञ्चेति चेत्; न, तस्य बहिरादिसाधनस्य साधनदूषणप्रयोगादेः सविस्तरं निरूपितत्वात् । तस्यैवानुस्मरणार्थं मन्दानुग्रहबुद्धया पुनरस्य वचनात् । अथवा तत्रेति अत्रावधारणमपीति, एतच्चान्यत्रेत्यत्र द्रष्टव्यम् । अत्राप्ययमर्थः-तत्रैव धर्मिण्येव सिद्धन दृष्टान्तधर्मिणि यदिना यद्विहन्यते तत्र तद्गमकम् । किमिव ? अन्यत्रापि वा इति । अन्यत्र दृष्टान्ते १५ धम्मिणि अपिशब्दात् साध्यधर्मिण्यपि सिद्धमिव वाशब्दस्य पूर्ववदिवार्थत्वात् । यथा पक्षसपक्षयोः सिद्ध सत्त्वकृतकत्त्वादि गमकमविनाभावनियमात् तथा पक्ष एव सिद्ध श्रावणत्वादिकञ्चेत्यर्थः । युक्तं कृतकत्वादेर्गमकत्वम् अन्वयबलादविनाभावपरिज्ञानात् , न श्रावणत्वस्य विपर्य्ययात् । नहि तस्य क्वचिदनित्यत्वेनान्येन वा शक्यमन्वयदर्शनं शब्द एव भावात्, तत्र च तयोर्विवादात् । तन्न तेंद्गमकत्वं संशयं तु कुर्वीत वस्तुसतस्तदुभयपरिहारेणानवस्थानात् । उभयोरन्यतरस्मिन्नप्यप्रति- २० पत्तेरिति चेत्, न; सत्त्वस्याप्येवमगमकत्वप्रसङ्गात् । नहि तस्यापि क्वचित् क्षणिकत्वेनान्वयः । विद्युत्प्रदीपादावपि क्षणभङ्गं प्रति वावदूकानां विवादात्, अविवादास्पदस्यैव सपक्षत्वोपपत्तेः । पक्ष एव विपक्षे बाधकप्रत्ययवलादविनाभावप्रत्तिपत्तेस्तस्य गमकत्वमिति चेत्, अनुकूलमाचरसि, श्रावणत्वस्याप्येवं गमकत्वावाप्तः ।। श्रावणत्वं हि श्रवणज्ञानविषयत्वम्, तच्च तज्ज्ञानकारणस्यैव "नाकारणं विषयः" [ ] इति वचनात् । न च नित्यस्य कारणत्वम्; कार्यानुपरमप्रसङ्गादिति निरूपितं २५ "कारणस्य" इत्यादौ । ततो निश्चितनित्यव्यावृत्तिकं तत् शब्दे धर्मिण्युपलभ्यमानमनित्यत्वं गमयत्येव न संशाययति सत्त्ववत् । यदि पुनः श्रवणज्ञानकारणत्वात् श्रावणत्वम् तर्हि 'कारणत्वात्' इत्येव हेतुरस्तु तावता साध्यप्रतिपत्तेः व्यर्थं तज्ज्ञानेन तद्विशेषणमिति चेत्, तावतापि कथं तत्प्रतिपत्तिः अन्वयाभावस्याविशेषात् ? क्षणभङ्गेनानन्वयेऽप्यनित्यत्वमात्रेणास्त्येव विद्युत्प्रदीपादौ
१ पक्षधर्मत्वाद्यभावेऽपि । २ सिद्धमेव वासिद्धम् आ०, ब०, प० । ३ तद्वृत्तं तत्रेति आ०, ब०, प०। ४ तदागम- आ०, ब०, प० । ५ सत्त्वस्यावगम- आ०, ब०, प० । ६ -कत्वापत्तेः आ०, ब०, प० । ७ न्यायवि० श्लो० १०६। ८ तत्तर्हि आ०, ब०, प० ।
११