________________
८२
न्यायविनिश्चयविवरणे
[ २०५२ तस्यान्वय इति चेत्, न, तत्र विवादाभावात् । मीमांसकस्य तत्रापि विवाद एव शब्दे क्षणिकत्ववतस्यापि तेनानभ्युपगमादिति चेत् ; न ;
___ "तेनेयं व्यवहारात् स्यादकौटस्थ्येऽपि नित्यता ।" [मी० श्लो० शब्दनि० २८९ } इति कौटस्थ्याभावमभ्युपजानतोऽपि तस्याभ्युपगमात् । तन्मात्रादन्यस्य तदभावस्याभावाद्विवादा५ पन्नमपि कथं तव तत्साध्यम् अनभिप्रेतत्वात् ? अभिप्रेतमेव हि तदापन्नमपि साध्यं नापरमतिप्रसङ्गात् ।
न च भवतस्तदभिप्रेतं क्षणक्षयस्यैव तत्त्वात् । तदप्यभिप्रेतमेव साधितात्ततः क्षणभङ्गसाधनादिति चेत् ; न, तत्राप्यन्वयाभावस्याविशेषात् । ततोऽप्यपरानित्यत्वसाधनेन तत्साधनपरिकल्पनायामनवस्थापत्तेः । तन्न कारणत्वस्याप्यन्वयबलादमकत्वम् । व्यतिरेकनिर्णयात्तु तत्त्वं सविशेषणस्यापि न विरुद्धम् । निर्विशेषण
स्यैव तत्त्वे किं विशेषणेन तद्वादिनो व्यर्थवादित्वेन निग्रहावाप्तेरिति चेत् ; अत्यल्पमिदमुच्यते, १० कृतकत्वादिनापि किमिति वक्तव्यं सत्त्वस्यापि तद्विशेषणरहितस्यैव गमकत्वात् । शिष्यव्युत्पत्तिवैचि
त्र्या) सत्त्वमेव' शुद्धम्, अविशुद्धञ्च भिन्नविशेषणं कृतकादि, अभिन्नविशेषणञ्चोत्पत्तिमत्त्वादि गमकमुपदिश्यत इति चेत् ; अहो महानयमनुग्रहः शिष्येषु भवतो यतो निग्रहनिबन्धनेषु तेषां गमकत्वव्युत्पत्तिराकरप्यते । वैयर्थ्ये ऽपि कृतकत्वादीनां तन्निबन्धत्वे प्रतिज्ञादीनामपि स्यादविशेषात् । को वा विशेषः
कृतकत्वादीनां यतस्त एव सत्त्वविशेषाः शिष्यव्युत्पत्तयेऽवकल्पन्ते न कारणत्वविशेषः श्रावणत्वमिति १५ प्रतिपत्तिः । यदुक्तम्-अन्यत्रापि सिद्धमिव धर्मिण्येव सिद्ध मपि गमकमिति, तन्न युक्तम् ; वैषम्यात् ।
अन्यत्रापि सिद्धस्य तदंशव्याप्तिनिर्णयादितरस्य विपर्ययादिति चेत् नः तदंशव्याप्तेस्तत्रैव निर्णये वैफल्यात् तत्र साध्यस्य प्रमाणान्तरादेवावगमात् । तन्निर्णयादेवावगमे परस्पराश्रयात्-साध्यसिद्धया तन्निर्णयः तस्माच्च तत्सिद्धिरिति । तत्राप्यन्यत्र तन्निर्णये ऽनवस्थापत्तेः । साकल्येन तन्निर्णये तु पक्षेऽप्य
यमवश्यम्भावी तदभावे सामस्त्येन तदनुपपत्तेः । ततोऽन्तर्व्याप्तेरवश्यम्भावादन्यत्र सिद्धस्यापि तयैव २० च गमकत्वोपपत्तेरुपपन्नं तद्वदितरस्यापि गमकत्वोपवर्णनम् । अन्तरपि व्याप्तिनिर्णये तत एव साध्यस्या
प्यवधारणाद् व्यर्थमनुमानमिति चेत्, इदमपि “ द्वयस्वरूपग्रहणे मति सम्बन्धवेदनम्" प्र०वार्तिकाल०१।१] इति ब्रुवाणस्यैव दूषणं न स्याद्वादिनाम् ; तैः साध्यापरिज्ञानेऽपि तत्सम्बन्धस्य लिङ्गस्वरूपत्वेन तन्मात्रग्रहणेऽपि तन्निर्णयोपगमात् । तदुक्तम्--
___ “लिङ्गात्मग्राहकं मानमूहो मतिनिबन्धनः।" [ ] इति । ___ प्रथमदर्शिनोऽपि किन्न तन्निर्णय इति चेत् ? सामग्र्यभावात् क्षणक्षयादिनिर्णयवदिति ब्रूमः । ततो युक्तम् -अन्यथानुपपत्तिबलाच्छब्दानित्यत्वे श्रावणत्वस्य गमकत्वं तथा रूपाद्यनित्यत्वे चाक्षुषत्वादेरपि प्रतिपत्तव्यं तदविशेषात् । तद्वलेन गमकत्वमन्यस्यापि दर्शयति- तेन साध्यधर्मी च साधनम् ' इति । तेन यद्विना यद्विघातेन साध्यश्चासौ अनित्यत्वविशिष्टतया साध्यमानत्वात् धर्मी च शब्दादिः साध्यधर्मी साधनं गमकं शब्दानित्यत्वस्य । न केवलं स एवापि तु साध्यधर्मो ऽपीति
१ "यत् सत् तत्सर्वमनित्यं यथा घटादिरिति शुद्धस्य स्वभावहेतोः प्रयोगः । स्वभावभूतधर्मभेदेन स्वभावस्य प्रयोगः। यत् कृतकं तदनित्यमित्युपाधिभेदेन । " -न्यायबि० पृ०६५-६६ । २-नामतन्निता०।३ ततो न व्या- आ०, ब०, प० ।