________________
२।५२]
२ अनुमानप्रस्तावः चशब्दः । कीदृशं तदुभयमपीति चेत् ? उत्तरम्-'तत्र' इत्यादि । तत्र सिद्धः साध्यधर्मी तदन्यत्र सिद्धः साध्यधर्म इति सिद्धमित्यस्य लिङ्गपरिणामेन सम्बन्धः । कथं पुनः साध्यधर्मिणस्तदाधारत्वमाधेयत्वञ्च सत्येव भेदे तदुपपत्तेरिति चेत् ? न; सामान्यविशेषरू पतया भेदस्यापि भावात् । 'अपि वा' इति निपातसमुदायेन पक्षधर्मत्वादावनादरं सूचयति । तत्सूचनश्च सतोऽपि तस्यासाधनाङ्गत्वात् । तदयमत्र प्रयोगः-अनित्यः शब्दः शब्दत्वादिति ।
___ यदि धर्मी साध्यः, कथं साधनम् ? अप्रसिद्धस्य साध्यत्वात् प्रसिद्धस्य च साधनत्वात्, तयोश्चैकत्र विरोधादिति चेत्; न; समुदायान्तःपातिन एव तस्य तद्रूपतया साध्यत्वेनासिद्धत्वात् न केवलस्य, केवलस्य च साधनत्वं सिद्धत्वात्, अन्यथा धमित्वमपि न भवेत् प्रसिद्धस्यैव 'तत्त्वोपपत्तेः । ततः समुदायतदेकदेशरूपेणासिद्धतरविभागविषयेण ज्ञाप्यज्ञापकभावोपपत्तेर्न धर्मिणः स्वसाधने हेतुभाविनोऽप्यसिद्धत्वमिति दुर्भाषितमेतत् -
"ज्ञाप्यज्ञापकयोर्भेदाद्धर्मिणो हेतुभाविनः।। असिद्ध पिकत्वस्य धर्म्यसिद्धः स्वसाधने ॥' [ प्र० वा० ४।१८०] इति ।
यदि धर्मी हेतुः, 'अनित्यः शब्दः' इत्येवास्तु न शब्दत्वादिति वैयर्थ्यात् । न वैयर्थ्य हेत्वन्तराकाङ्क्षानिवर्त्तनार्थत्वात्, भवति हि 'अनित्यः शब्दः' इत्युक्ते 'कुतः' इति तदाकाङ्क्षा प्रतिपत्तुः अतस्तन्निवृत्त्यर्थं धर्मितया निर्दिष्टस्यापि हेतुत्वेन निर्देशे न पौनरुक्त्यदोषः फलवत्त्वादिति चेत्, १५ न; धर्मितया निर्दिष्टस्यैव साध्यप्रत्यायनसामर्थ्य तदन्तराकाङ्क्षानुत्पत्तेरनर्थकत्वात्, अन्यथा हेतुभावेन निर्देशेऽपि तदुत्पत्तेः पुनरपि तद्भावेन निर्देशः तन्निवृत्तये कर्तव्यः, पुनरप्येवमिति न क्वचिदवस्थितिः स्यात् । अथ तथा निर्दिष्टस्य न तत्सामथ्र्यम् ; हेतु तया निर्दिष्टस्यापि न स्यात्, तन्निर्देशेनाप्यसमर्थस्य सामर्थ्यानापादनात् । तदुक्तम् --
"यदि शब्दस्य सामर्थ्य हेत्वन्तरमनर्थकम् । अथासामध्यमस्यास्ति पुनरुक्तेन तेन किम् ॥" [प्र० वार्तिकाल० ४।१७९] इति।।
सत्यमस्त्येव धर्मितया निर्दिष्टस्यापि हेतुत्वं तत्तु धर्मपरतया पञ्चम्या च निर्देशाभावे न प्रतीयत इति चेत्, न, धर्मिपरे प्रथमानिर्देशेऽपि तत्प्रतिपत्तेः वृक्षोऽयं शिंशपा यत इति, अनित्योऽयं कृतको यत इति च । ततः पुनर्वचने यद्विवक्षितं तदत्र नास्तीत्यसिद्धो हेतुरिति चेत्, न सम्यगेतत्; एवं हि 'विषाणवानयं पिण्डो नाश्वो विषाणवत्त्वात्' इत्यपि न हेतुर्भवेत् प्रतिज्ञार्थंक- २५ देशत्वेनासिद्धत्वात् । पिण्डस्यैव तदेकदेशत्वं न तद्विशेषणस्य विषाणवत्त्वस्येति चेत्, न, तत्रापि तस्यावश्यम्भावात्, कथमन्यथा तद्विशिष्टस्य पिण्डस्यापि तदेकदेशत्वम् ? वा मा भूत्तस्य तत्त्वम् , तथापि विशेषणतया निर्देशादेव हेतुभावस्यापि प्रतिपत्तेः,विषाणवत्त्वादिति किं पुनर्वचनेन हेत्वन्तराकाङ्क्षायाः प्रकृतवदत्राप्यनवक्लप्तेः तन्निवर्तकस्यापि पुनर्निर्देशफलस्याभावात् । ततोऽत्राप्येवं वक्तव्यम्
१ धर्मित्वोपपत्तेः । २ धर्मितया । ३ "प्रतिज्ञार्थंकदेशासिद्धः ।" -ता० टि०।४-शे फआ०, ब०, प०।
२०