________________
न्यायविनिश्चयविवरणे
[२५२
शक्तिविषाणिनश्चेत् स्याद्धत्वन्तरमनर्थकम् ।
शक्तिर्यदि न तस्यास्ति पुनरुक्तेन तेन किम् ॥ १३९५ ॥ इति । ततोऽत्रापि पुनर्वचने विवक्षिताभावादसिद्ध एवायं हेतुः । नेह विशेषणस्यैव तत्पिण्डगतविशेषात्मनः पुनर्वचनम् ; अपि तु तदन्यस्यैव तदतहतस्य विषाणवत्त्वसामान्यस्य, तस्यैव च हेतुत्वं ५ ततोऽयमदोष इति चेत्, कथं तहीदमलङ्कारवचनमविरुद्धम्-“यदि नाम पक्षविशेषणं विषाणित्वं
पिण्डान्तरव्यवच्छेदाय तथापि तस्य हेतुत्वं न विरुद्धयते ।" [प्र. वार्तिकाल० ४।१८७] इति । अनेन तद्विशेषणस्यैव हेतुत्वप्रतिपादनात् । तन्नायमत्र परिहारः ।
स्यान्मतम्-यस्य विशेषणनिर्देशादेव तत्र हेतुभावप्रतिपत्तिः प्रज्ञातिशयसम्पत्तेस्तं प्रति मा भूत्तस्य पुनर्वचनं वैयर्थ्यात्, यस्य तु नास्ति कोमलप्रज्ञस्य तं प्रति फलवदेव तद्वचनं ततस्तस्य १० तद्भावप्रतिपत्तेः । न च पुनरुक्तत्वम् ; अनवगतवचनात्', अवगतवचनत्वात्तस्यावकाशादिति, तदेत
दुषकारायैवास्माकं शब्दस्याप्येवं निर्दोषतया हेतुत्वेनावस्थितेः । ततो यथा साध्यविशेषणत्वेऽपि तेन साध्यप्रतिबन्धस्याप्रतिपादनाद्धेतुरेव विषाणवत्त्वं न प्रतिज्ञार्थंकदेशासिद्धम् ; धर्मितद्विशेषणभावेन प्रतिज्ञार्थादर्थान्तरत्वाद्, तथा शब्दत्वमपि, धर्मित्वेऽपि तेन तत्साध्यप्रतिबन्धस्याप्यप्रतिक्षेपात् समुदा
यकेवलात्मना तदर्थान्तरस्यापि भावात् । भवत्वसिद्धिरेव विषाणवत्त्वस्यापि, तत्कथं तदवष्टम्भेन शब्दत्वे १५ तत्परिहार इति चेत् ? किं पुनरिदं धर्मकीर्तेबुभुक्षाव्याकुलितस्य वचनम् -
"पक्षाङ्गत्वेऽप्यबाधत्वान्नासिद्धिभिन्नधर्मिणि । यथाऽश्वो न विषाणित्वादेष पिण्डो विषाणवान् ॥" [प्र०वा०४।१८७] इति ।
यत्पुनरत्र पक्षान्तरम्- न साध्यसमये विशेषणमस्ति साध्यमुपलक्ष्य तस्य प्रागेव निवृत्तेः निवृत्तस्य च तदेकदेशित्वायोगान्नासिद्धत्वमिति । तदुक्तम्“साध्यकालं गतो वा न निवृत्तेरुपलक्ष्यते ( तत् )।"
[प्र. वा० ४। १८८ ] इति, तदपि न; शब्दत्वेऽप्येवं तदोषानवक्लप्तेः । शक्यं हि वक्तुं शब्दत्वमपि साधनमेव न साध्यम् अनित्यः शब्दत्वादिति अनित्यत्वस्यैव साध्यत्वात् ततो न तदपि तदेकदेशत्वेनासिद्धमिति क्केदानीमनित्यत्वं साध्यं निराधारस्य धर्मस्यासम्भवादिति चेत् ? अग्निमान् धूमवत्त्वादित्यत्र क्वाग्निमत्वम् ? सामर्थ्याम एव, तदन्यत्र तत्साधने हेतोरसामर्थ्यादिति चेत्, तत एवानित्यत्वमपि शब्द एवास्तु । कथमिदानी न तस्य तदेकदेशत्वमिति चेत् ? न; हेतुब (का)लापूर्वं तदभावात् । पश्चात्तु भवतोऽपि हेतोरदूषणात् । नहि तबलोपनीतमेव तद्वृषणाय भवत्यतिप्रसङ्गात्, स्वयं चाभावापत्तेः । तथा हि
नहि दोषवतो हेतोस्तत्सिद्धिरवकल्पते । तत्सिद्धौ वा कथं नाम हेतुर्दोषी भवेदयम् ॥ १३९६ ॥
१-चनपाव-ता०।२ पुनरुक्तत्वस्य । ३ धमित्वेन त-आ०, ब०, प०।४-त्यः शब्दः शआ०, ब०, प०१५ चेत्तदग्निमान् आ०, ब०, प०।६-दोषो भ- आ०, ब०, प० ।