________________
२।५२ ]
२ अनुमानप्रस्तावः
हेतोश्च दोषमन्विच्छन्नन्विच्छत्यपि तद्द्बलात् ।
साध्यसिद्धिमिति ह्येषा महती बोधदीधितिः ।। १३९७ ॥
८५
ततो हेतुरिव शब्दत्वं सिद्धत्वादन्यथानुपपत्तेश्च, तथा रूपाद्यनित्यत्वे रूपत्वादिकमप्यविशेषात् । धर्मिण इव किन्न साध्यधर्मस्यापि हेतुत्वमिति चेत् ? न, तस्य समुदायगतस्येव केवलस्याप्यसिद्धत्वात् । तदन्यगतः सिद्ध एवेति चेत्; इष्टमेवैतद् 'अनित्यः शब्दः तदन्यस्य सर्वस्यानित्यत्वात्' इति । चशब्देन ५ तत्समुच्चयस्याभिधानात् । कथमत्रान्यथानुपपन्नत्वं शब्द नित्यत्वेन तदन्यानित्यत्वस्य हि भिन्नाधिकरणत्वेन विरोधाभावात्, “विरोधोपायत्वाच्च तत्प्रतिपत्तेरिति चेत् न; शब्दस्य नित्यत्वे तद्वत्त्वेनैव तदन्यस्यापि वस्तुनो व्याप्तेरेकाधिकरणतया विरोधोपपत्तेः । न च वस्तुनः कस्यचिन्नित्यत्वम् अन्यस्यानित्यत्वं व्यापक मित्युपपन्नम् सत्त्वादेरपि व्यभिचारेणागमकत्वप्रसङ्गात् । तस्मादनित्यत्वमेव साकल्येन तस्य व्यापकम्, तच्च क्वचिद्भवदन्यत्रापि तद्विपर्ययं प्रतिक्षिपति तद्व्याप्तं शब्दत्वादिकमपि । इत्युपपन्नमभि- १० हिंतम् - 'तत्र' इत्यादि । यद्यनन्वयमपि श्रावणत्वादिकं गमकं किन्न प्राणादिमत्त्वमपीति चेत् ? क तस्य तत्त्वम् ? आत्मनि नित्यादिरूपे प्राणादेस्तत्कार्यत्वेन तत्राविनाभावादिति चेत्; न नित्यत्वेन हेतुत्वस्य निषेधात् । अनिषेधेऽपि किन्न शरीरवदन्यत्रापि प्राणादि: आत्मनस्तत्रापि भावात् ? तद्धेतोर्विशेषस्य शरीर एव भावात् बहिश्च विपर्ययादिति चेत्, न तस्यै तत्स्वभावत्वे बहिरपि प्रसङ्गात् व्यापिनस्तदपरस्वभावानुत्पत्तेः, अन्यथा तावानेवात्मा भवेत् आत्मप्रयोजनस्य तत्रैव भावान्न बहिर्भावी तद्भागो विपर्य - यात् । अथायं तत्स्वभावो न भवति, आत्ममनः संयोगादित्वेन ततो भिन्नत्वादिति चेत्; तँतोऽपि कुतस्तत्रैव प्राणादिः ? तदवच्छिन्न एवात्मप्रदेशे तस्य भावादिति चेत्, न; आत्मनो निष्प्रदेशत्वात्, कल्पितस्तु प्रदेशो न तत्सहायोऽपि तद्धेतुः, अवस्तुत्वाद्वन्ध्यासुतादिवत् । कथं वा तत्रैव भव विप्रकृष्टात्'' पश्चादा ( पश्वाद्या) कृष्टिर्यतस्तदनुमानम् ? कथं वा १२ तस्यात्मकार्यस्य तत्रैव भावो न बहिरपि ? तद्धेतोरपि विशेषस्य तत्रैव भावादिति चेत्, तस्य पूर्ववदनर्थान्तरत्वे " ततोऽपि कुतस्तन्मनः- २० • संयोगादिस्तत्रैव ? तस्यापि तदवच्छिन्न एव तत्र प्रदेशे भावादिति चेत्, न, 'आत्मनो निष्प्रदेशत्वात् ' इत्यादेरावृत्तेरनवस्थापत्तेश्च । नायं दोषः, सहकारिणां हेतुफलभावेन क्रमभाविनामनवस्थितेरेव '४ रूपत्वादिति चेत्; एवमषि सहकारिणामिति कुतो न स्वतन्त्राणामिति : तत्सहायादात्मन एव प्राणादे - र्भावान्न तेभ्य एवेति चेत् कथं पुनस्तेषामेव निवृत्त्या घटादेर्निवर्त्तमानः तेभ्य एव स न भवेत् ? आत्मापि ततो निवृत्त एवेति चेत्, न विभुत्वात् । सहकारिसहितो निवृत्तश्चेत्; न तत्साहित्यस्य २५
१५
१०
१
१५
१६
१ विपक्षभूतेन सह । २ विपक्षविरोधकारणकत्वात् । ३ नित्यत्वेनैव । तद्वत्तेनैव आ०, ब०, प० । ४ प्राणादिसद्भाव कारणस्य विशेषस्य । ५ प्राणादिहेतोविशेषस्य आत्मस्वभावत्वे । ६ प्राणादिहेतु विशेषः बहिर्भाविभागस्वभावः । ७ आत्ममनः संयोगादेः । ८ आत्ममनः संयोगादेः । ९ कथं त- ता० । १० शरीरदेशे एव । ११ दूरदेशात् । विप्रकृष्टत्वात् आ०, ब०, प० । १२ आत्ममनः संयोगादेः । १३ -त्वेपि ततः कुआ०, ब०, प० । १४ सन्तानापेक्षया अनन्तत्वस्यैव । १५ सहकारिभ्य एव स्वतन्त्रेभ्यः । १६ आत्ममनःसंयोगादीनामेव । १७ प्राणादिः ।