________________
८६
न्यायविनिश्चयविवरणे
२५२ तत्स्वभावत्वे तदनुपपत्तेः । अतत्स्वभावत्वे तु सहकारिण एव तदिति सिद्धा तन्निवृत्तित एव ततस्तव्यावृत्तिः । अतो नात्मनि प्राणादिमत्त्वस्य गमकत्वमन्यथानुपपत्तिवैकल्यात् ।।
अस्तु तर्हि 'बुद्ध्यात्मन्येव तस्य गमकत्वमविनाभावादिति चेत्, कुतोऽविनाभावः ? तस्य स्वशरीरे तत्पूर्वकत्वेन प्रतिपत्तेरिति चेत् कीदृशस्तदात्मा ? निश्चयविकल इति चेत्, कथं तद५ स्तित्वव्यवहारः ? निर्विकल्पादेव स्ववेदनादिति चेत् ; न; क्षणभङ्गादावपि तत एव तद्भावेनानुमानवैफल्यात् । व्यवहारसमर्थे च तद्वेदने विपरीतारोपणस्यानुपपत्तेः । तन्न तस्यान्वयमुखेनाविनाभावः ।
नापि व्यतिरेकबलेन अनिश्चितास्तित्वस्य कुतश्चिन्निवृत्तेरपरिज्ञानात् । भवतु नीलमिदं पीतमिदमित्युपजायमानो निश्चय एव स इति चेत्; स एव कुतः ? निर्हेतुकत्वे नित्यसत्त्वादिप्रसङ्गात् ।
पूर्वस्मान्निश्चयादेवेति चेत; कुत इदमवगन्तव्यम् ? तयोरेवान्यतरस्मादिति चेत्, न; तेन परस्परस्या१० विषयिकरणात् । नाप्यन्यतः, तेनापि तदन्यतरकालेनेतरस्य तत्कालासम्भविनोऽपरिज्ञानात्, उभयकाल
व्यापिनश्च क्षणभङ्गभङ्गभयेनानभ्युपगमात् । 'तदुभयपृष्ठभाविनो विकल्पात्' इत्यपि नोत्तरम्, तुल्यचोद्यत्वात् 'कुतस्तस्य तत्पृष्ठभावित्वमवगम्यते' इति ? विकल्पान्तरकल्पनायामनवस्थानदौःस्थ्यभयापत्तेश्च। न चोभयापरिज्ञाने तद्धेतुफलभावप्रतिपत्तिः; "द्विष्ठसम्बन्ध" [प्र० वार्तिकाल० १।१ ] इत्यादेविरोधात् । तन्न नैरात्म्यवादिनां निश्चयोऽपि तदात्मा यतः प्राणादयो भवेयुः । .
सत्यपि तस्मिन् कुतः सुषुप्तादौ तदुत्पत्तिः ? तदापि निश्चये तद्दशाविलोषात् । जाग्रतो निश्चयादिति चेत्, भवतु नामानन्तरः, परस्तु क्रमभावी कुतः ? प्राणादेरेव पूर्वपूर्वस्मादिति चेत्; कथमिदानीं ततः परचैतन्यवित्तिर्व्यभिचारात् ? न व्यभिचारः-चैतन्यप्रभवात् प्राणादेस्तत्प्रभवस्य॑ वैलक्षण्यात् अग्निप्रभवादिव धूमात् तत्प्रभवस्य धूमस्येति चेत्, न; तदनवधारणात् । कथमन्यथा सव्याजेयं सुषुप्तिरव्याजा वेति संशयः ? न हि द्रुतबहलादिविशेषविकलतयोषलभ्यमानामाद्भूमध्वजं सशयानाः परिदृश्यन्ते प्रतिपत्तारः । किञ्च, तदा' निश्चयवैकल्ये कुतः ''प्रबोधः ? सोऽपि जाग्रत एव निश्चयादिति चेत् कथं क्रमभाविप्राणादिः प्रबोधश्चाक्रमादेव तन्निश्चयात् ? "नाक्रमात् क्रमिणो भावाः" [प्र० वा०१।४५] इत्यस्य व्यापत्तेः । कुतो वा मृतशरीरेऽपि तत एव न प्रबोधः ? सहकारिणो ऽदृष्टस्याभावादिति चेत्; एतदपि कुतः ? तत्र प्रबोधस्यानाविर्भावादिति चेत्, न; विषमूर्छितादौ पक्ष मेकमनाविर्भावेऽपि तस्य
पुनस्तत्रैव प्रयत्नबलादाविर्भावप्रतिपत्तेः अत्रापि तदाशङ्काऽनिवर्त्तनात् न निश्चितस्तदनाविर्भाव २५ इति कथमदृष्टाभावः ? कथञ्च दाहादिसाहसमाचरितव्यं पातकित्वप्रसङ्गात् । ततो न मृतशरीरवत्
सुषुप्तादावपि जाग्रज्ज्ञानात्तदुत्पत्तिरिति सन्निहित एव कश्चिद्धेतुर्वक्तव्यः । स चात्मैव उपयोगपरिणामी
२०
१ "सौगताङ्गीकृते चित्तसन्ततिरूपे ।"- ता० टि० । २ निर्विकल्पकादेव । ३ "दृष्टेऽपि क्षणभङ्गादौ विपरीतसमारोपसम्भवात्तद्वयवच्छेदार्थस्यानुमानस्य साफल्यम् । तदुक्तम्-तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः । भ्रान्तेनिश्चीयते नेति साधनं सम्प्रवर्तते ॥ इति । इत्याशङ्कायामाह ।” -ता० टि० । ४ निर्विकल्पवेदने । ५ "...संवित्तिः नैकरूपप्रवेदनात् ।” -प्र० वार्तिकाल० । ६ प्राणादिः। ७ प्राणादे.. ८ प्राणादिप्रभवस्य । ९ धूमप्रभवस्य । १० सुषुप्तादौ । ११ प्रबन्धः आ०, ब०, प० । १२ तत्र बो- आ०, ब० प०। १३ -शंकाविनि वर्तनात् आ०, ब०, प० ।