________________
२।५३]
२ अनुमानप्रस्तावः नापर इति, तत्रैव तस्य गमकत्वमन्यथानुपपत्तिसम्भवात् । तस्यापि निर्णयात्मन' एव सन्निधाने कथं सुषुप्तिरिति चेत् ? न; तदा तस्यादृष्टवशान्निर्णयविकलस्यैव भावात्, प्रबुद्धस्यैव निर्णयरूपतया प्रतिपत्तेः । कथमेकस्य निर्णयश्चेतरश्च स्वरूपमिति चेत् ? तथैवाधिगमाद्विकल्पज्ञानवत् । एतदेवाह ---
अप्रत्यक्ष : सुषुप्तादौ बुद्धः प्रत्यक्षलक्षणः। जीवतीति यतः सोऽयं जीव आत्मोपयोगवान् ॥ ५३ ॥ इति । ५
न विद्यते प्रत्यक्षं निर्णयरूपं यस्य सः अप्रत्यक्षो जीवः' इति सम्बन्धः । क ? सुषुप्तः स्वप्नदर्शी निद्रावान् आदिर्यस्य मूच्छितादेस्तस्मिन्निति । सदा तर्हि सोऽप्रत्यक्ष एव कपिलादेरप्यात्मा परोक्ष एवेति केषाञ्चिदभ्युपगमादिति चेत, न, बुद्धो निद्राप्रबन्धाद व्युत्थितः । प्रत्यक्षलक्षणः प्रत्यक्षं निर्णयात्मकं स्वसंवेदनम् , “व्यवसायात्मकं ज्ञानं प्रत्यक्षम्" [ ] इति वचनात् , तल्लक्षणं स्वरूपं यस्य तेन वा लक्ष्यत इति तल्लक्षण १० इति । अनेन तत्परोक्षत्ववादस्य प्रत्यक्षबाधनमुपदर्शितम् । भवतु बुद्धो जीवः प्रत्यक्षतोऽवगमात्, सुषुप्तादिस्तु कथमिति चेत् ? उत्तरम्-जीवतीति यतः इति । यतो लोकस्य सुषुप्तादिरपि जीवतीति प्रत्ययः ततः सोऽप्यस्त्येव अन्यथा तत्प्रत्ययायोगात् । कुतोऽयं प्रत्ययः ? मृते मृतप्रत्ययोपि कुतो यतो दाहादेस्तत्र कल्प्येत ? स्पर्शादिविशेषाल्लिङ्गादिति चेत्, न, जीवनप्रत्ययस्यापि तत एव भावात् । जीवनप्रतिबन्धस्यापि तद्विशेषस्य निरुच्छ्वासमूर्च्छितेऽपि १५ लोकैरध्यवसायात् । सोऽपि जाग्रत एव जीवनान्न तादात्विकादिति चेत; तदहर्जातस्य व्याहारादिरपि प्राच्यभवजीवनादेवेति कथं ततस्तच्चैतन्यप्रतिपत्तिर्यतोऽयं परिपोषणादिनाऽनुगृह्यत । ततो यथा तदानीन्तनादेव जीवनात्तद्व्याहारादिः, अन्यथा सन्तानान्तरव्यवहारविरहापत्तेः, तथा सुषुप्तादेः स्पर्शादिविशेषोऽपीत्यलमाग्रहवैशसेन । कथं पुनरेवमपि सुषुप्तादिना प्रबुद्धस्यैकत्वं यतः 'अप्रत्यक्षः' इत्याधुच्यत इति चेत् ? अत्रोत्तरम्-'सोऽयम्' इति । अत्रापि इति यत इति सम्बन्धनीयम् । तदयमर्थः- २० सः सुषुप्तादिः अयं प्रतीयमान इति एवं प्रत्यभिज्ञानं यतस्ततः स एव अप्रत्यक्षः पूर्वं पुनः प्रबुद्धश्च प्रत्यक्ष इति । ननु स इत्यतीतस्य निर्देशः, तस्य च कुतः प्रतिपत्ति: ? स्मरणादिति चेतः तस्याप्यनुभूतवस्तुगोचरत्वे न तद्विषयत्वम् अतीतेऽनुभवाभावात् । नहि वस्तु किञ्चिदतीतत्वेनानुभवे परिस्फुरति । अतद्गोचरत्वे तु न स्मरणम्, अनुभवपृष्ठभाविन एव प्रत्ययस्य तत्त्वोपगमात् । तदुक्तम्
"अनुभूतार्थविषया स्मृतिश्चेत् नष्टता कथम् ? __नानुभूतार्थविषया यदि सा स्मृतिता कथम् ॥” [प्र० वार्तिकाल० ४।१९७] इति ।
अनुभूतमेवानुभवादंषकान्तमतीतमिति चेत्, न; युगपत् विरोधेन तदसम्भवात् । पर्यायेण तत्सम्भवं तु तदषकान्तादन्यदेवानुभूतमिति कथं तदेवातीतमिति व्यपदेशः ? ततः केवलं वासनाबलादेव स्मरणमिति ततोऽवसीयमानमवस्त्वेवातीतं प्रधानादिवत् । तदप्युक्तम्
१ -नः सन्निपातेपिक- आ०, ब०, प०। २ जीवप्रत्य- आ०, ब०, प० । ३ "जीवनेन सह प्रतिबन्धः सम्बन्धो यस्य स जीवनप्रतिबन्धस्तस्य ।" -ता० टि० ।.जीवनप्रबन्धस्यापि आ०, ब०, प० । ४ मरणत्वोपगमात् । ५ -दप्रतिक्रान्तमिति आ०, ब०, प० ।