________________
न्यायविनिश्चयविवरणे
[२।५३ “यदातीतं न तद्ग्राह्यौं यदा ग्राह्यं न तत्तथा। स्मर्यमाणेन रूपेण तदतीतं न वस्तु' तत् ॥” [ प्र० वार्तिकाल० ४।१९७] इति ।
__ तत्कथमवस्तुनैकत्वं वस्तुनः प्रत्यक्षविषयस्येति चेत् ? न; सच्चेतनादिरूपेणानुभवविषयस्यैव तेनै ग्रहणात्; तस्य च वस्तुत्वात् । कथमिदानीमतद्विषयस्यातीतत्वस्य तेन ग्रहणमिति चेत् ? __ भवतु तावता तस्यास्मरणत्वम् अपूर्वार्थत्वात् । तदेव कथं स्मरणमस्मरणश्चेति चेत् ? "तदेव स्वरूपे प्रमाणमितरत्राप्रमाणमितिवत्" [
] इति ब्रूमः । तत: प्रमाणमेव स्मरणं कथञ्चिदपूर्वार्थत्वादविसंवादाच्च । अस्ति हि तत्राविसंवादः, ततोऽपि प्रवृत्तस्य विषयप्राप्तेः । कथमतीतस्य प्राप्तिः ? कथं वर्तमानस्य ? प्राप्तिकाले तस्याप्यभावात् । प्राप्त इत्यभिप्रायादिति चेत्, न;
इतरत्रापि तुल्यत्वात् । सांवृतमेवैवं स्मरणस्य प्रामाण्यमिति चेत्, प्रत्यक्षस्यापि स्यात् । तदपि तादृशमेव १० वस्तुत इति चेत्, नेदानीमतीतस्यैवावस्तुत्वं वर्तमानस्यापि तत्त्वात् । तत्कुतस्तत्रैव तन्निर्बन्धः । ततस्स
देवातीतमषि वर्तमानवदिति कथं न तदेकत्वं प्रत्यक्षविषयस्य ? तस्मादनालोचितवचनमेवेदम्"स्मर्यमाणेन रूपेण तदतीतं न वस्तु तत्" [प्र. वार्तिकाल० ] इति । असत्यपि वस्तुत्वे कथन्न तदेकत्वं तद्वत्तद्गतस्य तस्याप्यवस्तुत्वात् धर्मिरूपानुसारित्वाद्धर्मस्य । नैकान्तेनावस्तुत्वं वस्तुभूत
वर्तमानप-यगतत्वेन वस्तुत्वस्यापि भावादिति चेत्, न तर्हि तदेकमेकत्वं भवेत्, अपि त्वतीतगत१५ मन्यद्वस्तुरूपम् अन्यच्च वर्तमानगतं वस्तुभूतमिति भिन्नस्यैवोषपत्तः । तन्नातीतेतरयोरेकत्वं तस्यैवैकस्यासम्भवात् । तदुक्तम्
"यदि धर्मवशेन स्यात्तस्यासत्यतया स्थितिः। एकमेव तदातीतं वर्तमानतया मृषा ॥" [प्र० वार्तिकाल० ४।१९७ ] इति । इति चेत्; उच्यते
अवस्तुत्वादतीतस्य तदैक्यं चेन्न वस्तुनः । तद्धेतुत्वं कथं तस्य वर्त्तमानस्य कल्प्यताम् ।। १३९८ ॥ अवस्तुनोऽपि हेतुत्वे हेतुत्वं वस्तुलक्षणम् । अर्थक्रियासमर्थं यत्तत्सदित्युच्यते कथम् ॥ १३९९ ॥ अतीतं चेन्न तद्धेतुस्तदहर्जातचेतनात् । अतद्रूषादतत्कार्यात्प्राग्भवानुमितिः कथम् ॥ १४०० ॥ कुतो वा वस्तुनो जन्म भव्याच्चेद्वस्तु तत्कुतः । प्रत्यक्षगोचरत्वस्याभावात्तत्राप्यतीतवत् ॥ १४०१॥ पश्चात्तद्गोचरत्वाच्चेद्वस्तु तत्प्रतिवाञ्छितम् ।
तन्न तत्रापि यद्वक्तुमेवं शक्यं मनीषिणाम् ॥ १४०२ ॥ ५ वस्तुतः आ०, ब०,प० । २ स्मरणेन । ३ अस्त्विह आ०, ब०, प०। ४ “प्रत्यक्षविषयस्य" -ता०टि०। ५ धर्मिव-ता। "यदि धर्मवशेनास्याः सत्यासत्यतया स्थितिः। वर्तमानतया सत्याऽवर्तमानतया मृषा ॥” ६-प्र० वा २।३ । प्र० वार्तिकाल० ।