________________
. २५३]
२ अनुमानप्रस्तावः
यदा भव्यं न तद्राह्यं यदा ग्राह्य न तत्तथा । अनुमागम्यरूपेण भव्यं तन्न च वस्तु तत् ॥ १४०३ ॥ इति । समकालात्तु तज्जन्म न त्वयैवोपगम्यते । तस्मादहेतुकं वस्तु ततश्च ध्रुवमापतेत् ॥ १४०४ ॥ नित्यत्वमेवं तद्ध्वंसप्रयत्नादप्यवस्थितम् ।
प्रज्ञाकरपदं व्यर्थं त्वयि शाक्य प्रकल्पयेत् ॥ १४०५ ॥ न वस्तुतः किञ्चित् कस्यचित् कार्य कारणं नित्यमनित्यमन्यद्वा, सकलविकल्पापक्रान्तस्याद्वैतस्यैव भावात् । तदभ्युपगमस्तु संवत्यैवेति चेत्, नन्वियं लोकबुद्धिरेव,
___ "केवलं लोकबुद्धयैव बाह्यचिन्ता प्रतन्यते ।" [ प्र० वा०२।२१९ ] इति वचनात्, तथा च कथमतीतादेरवस्तुत्वम् वस्तुतयैव तत्र लोकबुद्धर्भावात् । भवत्वेवं तथापि कथं प्रत्यभि- १० ज्ञानात्तदेकत्वम् ? कथं च न स्यात् ? असत्यपि तस्मिंस्तस्य भावात् लूनपुनरुत्पन्ननखकेशादाविति चेत्, अक्षज्ञानादपि कथं क्वचित्पीतादिः ? तदभावेऽपि शुक्लशङ्खादौ तस्य भावात् । निर्बाधादेव ततस्तद्भावो न सर्वस्मात्, बाधितञ्च प्रकृतं पुनर्भाविना शुक्लप्रतिभासेनेति चेत्; न; प्रत्यभिज्ञानेऽपि समानत्वात् । लूनपुनरुत्पन्नकेशादौ किं तस्य बाधकम् ? मध्ये लूनतादर्शनमिति चेत् । ननु लूनता नाम विच्छेदः, स च पूर्वस्योत्तरेणासङ्घटनम् । तच्च लूनवदन्यत्रापि समानं तत्कथं कचिदपि १५ तस्य निर्वाधित्वम् ? तदुक्तम्
"लूनता नाम विच्छेदः परासङ्घटनं स च। ततः पूर्वपरित्यागाद्वित्तिः सङ्घटिते कुतः ॥ असङ्घटितदृष्टिश्च समा दार्टान्तिकेतरे ।" [ प्र० वार्तिकाल० ४।१९७ ]
इति चेत्, न; असङ्घटितत्वस्य दान्तिके कथञ्चिदेवावगमान्न सर्वथा । न च तेन कथ- २० ञ्चिदेकत्वप्रत्यभिज्ञानस्य बाधनम्; अविरोधात् । अथ कथञ्चिदिति न क्षम्यते तस्यान्धपदत्वात्। न तर्हि प्रत्यभिज्ञानमपि तदाकारयोरपि स इत्ययमिति चासङ्घटितयोरेवावभासनादेकत्वस्यानुषपत्तेः; तद्रपत्वाच्च प्रत्यभिज्ञानस्य । न हि स इति प्रत्यभिज्ञानं स्मरणत्वात् । नाप्ययमिति प्रत्यक्षत्वात् । तदपि मा भूदिति चेत् ; कथं तहीदमुक्तम्-"एकार्थक्रियाकारितयैकत्वं प्रत्यभिज्ञानविषयो न तत्त्वतः ।" [प्र० वार्तिकाल० ४।१९७ ] इति ? सत्येव तस्मिंस्तद्विषयचिन्तनस्योपपत्तेः । तदपि कल्पनादेव २५ न तत्त्वत इति चेत् ; ननु तदपि प्रत्यभिज्ञानमेव योऽयं स इति स एवायमित्ययमाकार' इत्युपजननात्, तच्च कथश्चिद्वादविद्वेषे नास्ति । तत्कथम सतैवासतः परिकल्पनम् ? तदषि परिकल्पनादेवेति चेत् ; न; अनवस्थाप्रसङ्गात् । ततो दूरं गत्वापि तत्त्वत एव सङ्घटिताकारं तदङ्गीकर्तव्यम् ।
१ -पपद्यते आ०, ब०,प० । २ पीतादेस्त- आ०,ब०,प० । ३ -दतः स आ०, ब०, प० । ४ 'कथञ्चिदित्यन्धपदमेतत्"- हेतुबि० टी० पृ० ८४ । ५ -रमित्यु- आ०, ब०, प०। ६-सत्येवासआ०, ब०, प०।