________________
न्यायविनिश्चयविवरणे
[२०५४ तथा च तद्वदेवातीतादेरपि सङ्घटनोपपत्तेरुषपन्नम्-'प्रत्यभिज्ञानात्कथञ्चिदसङ्घटनेऽपि तदेकत्वपरिज्ञानम् ।' ततः कथञ्चित्पदस्यान्धत्वाभिधानमन्धतमसानुबन्धादेव न परीक्षाबलादिति निश्चिन्वन्ति विपश्चितः । ततः सूक्तम्-‘स एवायम् ।' इति । यतस्ततः सुषुप्तादिरेव प्रबुद्ध इति ।
भवतु तादृशो जीवो न त्वात्मा तस्य नित्यशुद्धत्वेन सुषुप्तादिभावानुपपत्तेरिति चेत्; उत्तरम्-- ५ 'आत्मा' इति । अत्र सोऽयमिति योजयितव्यम् । तदयमर्थः-स प्रकृतो जोवोऽयं प्रत्यवमर्शेन व्यव
स्थाप्यमान आत्मा नापरः । कुत एतत् ? उपयोगवान् यतः उपयोगो ज्ञानदर्शनरूपो व्यापारो विद्यते अस्येत्युषयोगवान् । नित्ययोगे तादात्म्यलक्षणे मतुः। एतदुक्तं भवति-आत्मनोऽप्युपयोगवत्त्वमेव लक्षणम् “सत्यं ज्ञानमनन्तं ब्रह्म" [तैत्ति० २।१।१] इति वचनात् । तस्य च जीव
एव दर्शनात् स एवात्मेति तत्र दर्शनमपि परमात्माविवेकादेव न स्वतस्तत्त्वात् , “तमेव भान्तमनु १० भाति सर्वम् [ कठो० ५/१८] इत्याम्नायादिति चेत् ; न, तत्र दृष्टस्यान्यत्र कल्पनायामनवस्थापत्तेः,
तदन्यत्रापि तदनिरावरणात् । आम्नायबाध' नान्नेति चेत्, प्रत्यक्षबाधनादाम्नायोक्तेऽपि न भवेत् । ततो जीव एवात्मा “अनेन जीवनात्मना" [ छान्दो० ६।३।२ ] इति जीवाभेदेन तस्याम्नायाच्च ।
आत्माभेदेन जीवस्यैवायमाम्नायो न तदभेदेनात्मन इति चेत्, तस्यैवाम्नाये को दोषः ? जीवादन्यो
नात्मा स्यात्, अस्ति चासौ · मुक्तरूपः, न च तस्य जीवत्वं प्राणधारणस्याभावात्, सत्येव तस्मिन् १५ जीवत्वोपपत्तेरिति चेत्, न, तस्यापि भूतपूर्वगत्या तत्त्वात्, जीवितपूर्वो जीव इति व्युत्पत्तेः, विग्रह
गतावपि जीविष्यतीति जीव इति व्युत्पादनात् । कथं पुनरुपयोगवत्त्वे तस्य सुषुप्त्यादिः सत्यज्ञानस्वभावस्य तदसम्मवादिति चेत् ? न; कर्मवशात्तस्यापि तदुषपत्तेः । तत्राह- .
कर्मणामपि कर्ताऽयं तत्फलस्यापि वेदकः । इति ।
कर्मणां ज्ञानावरणादीनामयं जीवः कर्ता न केवलमुपयोगवानेवेत्यपिशब्दः । ततश्च तेषां २० यत्फलं तत्परिपाकोपनीतं सुषुप्त्यादिलक्षणं तस्य वेदकस्तद्रूपतयापि वृत्तेरनुभविता । न केवलं कदाचिदवेदक इत्यपिशब्दः । परमपि तत्फलं दर्शयति
संसरेत् [परिणामात्तमुच्यते वा ततः पुनः ] ॥ ५४ ॥ इति ।
तत्कर्तृत्वादेव परापरशरीरादिपरित्यागोपादानक्रमेण देवतिर्यगादिगतिषु परिभ्रमेदयं जीव इति । तत्कर्तृत्वे निबन्धनमाह-'परिणामात्तः' इति । परिणामो मिथ्यादर्शनादिर्विकारः तेनात्तः २५ परिगृहीतः, ततस्तेषां कर्ता स एव उपयोगवतः कुत इति चेत् ? कर्मभ्य एव । न चैवं परस्पराश्रयः
'कर्मभ्यस्तदर्शनादिस्ततोऽपि कर्माणि' इति, अनादित्वात्तत्प्रबन्धस्य । तस्य च सयुक्तिकत्वेन तृतीये निरूपणात् । न तर्हि कर्मभ्यस्तत्करणस्वभावस्य मुक्तिः तत्स्वभावपरिहाण्या जीवस्यैव परिहाणिप्रसगादिति चेत् आह—'मुच्यते वा ततः पुनः' इति । मुच्यते अपवृज्यते ततः कर्मभ्यो जीवः स च न सर्वः किन्तु भव्य एवेति दर्शनार्थं वेति विकल्पवचनम् । मुच्यमानोऽपि न सर्वदा
१-धनादिति आ०, ब०, प०।२ मुक्तस्यापि । ३ जीवत्वात् । ४ नूतनशरीरधारणार्थ गतिः विग्रहगतिः। ५ सुषुप्तादि- ता०, ब०।