________________
९१
२।५५]
२ अनुमानप्रस्तावः किन्तु पुनः तदुपायानुष्ठानस्य पश्चात्, पूर्वं तु संसार एव, तदभावे मुक्तरेनुपपत्तेः तदपेक्षत्वात् ।
मुक्तिः संसारतस्तस्मिन्न चासत्यवकल्पते । पाशबन्धाद्विनिर्मुक्तेस्तस्मिन् सत्येव दर्शनात् ॥ १४०६ ॥ अविद्याकल्पितास्त्येव संसृतिः प्रागपीति चेत् । तदा तस्माद्विनिर्मुक्तिर्जीवस्य कथमुच्यताम् ॥ १४०७ ॥ न हि संसारनिर्मुक्तो तमोदीपप्रभे इव । निष्प-यं क्वचिज्जीवे युज्यते गृहगर्भवत् ॥ १४०८ ॥ सत्त्वेऽपि प्रागवस्तुत्वात्संसृतेर्मुक्तिरेव चेत् । अवस्तुनः कुतो वित्तिर्यदि वस्तुदृशिः पुमान् ॥ १४०९ ॥ कल्पनापि कथं तस्य न चेद्वित्ति: कुतश्चन । वित्तिरेव यतो भ्रान्ता कल्पनेति प्रकल्प्यते ॥ १४१० ॥ न च भ्रमोऽस्ति जीवस्य यतः स्यात्तत्र कल्पनम् । भ्रमे वा तत्र निर्मुक्तिरनादिः कल्प्यतां कथम् ॥ १४११ ॥ भ्रमोऽपि विभ्रमादेव प्राच्यात्प्राच्योऽपि तादृशात् ।। अनादिस्तत्प्रबन्धोऽयमिति चासन्मतं मतम् ॥ १४१२ ॥ चेतनादन्यतस्तस्य व्यवस्थाकारिणोऽत्ययात् । चेतनस्य च शुद्धस्य तद्वित्तावप्रवर्तनात् ॥ १४१३ ॥ तस्मात्संसारमिच्छद्भिरशुद्धिस्तस्य तात्त्विकी ।
वक्तव्या प्रागनादिस्तन्निर्वाणं नोषपद्यते ॥ १४१४ ।। वस्तुसत्त्वे संसारस्य न निवर्तनं जीवस्वरूपवदिति चेत् ; अवस्तुसत्त्वेऽपि न भवेत् । तस्यैवोक्तन्यायेनासम्भवात् । ततो निवर्तनं न क्वचिदिति प्राप्तम् । ततो वस्तुसत एव निवर्तनम् । अनर्थान्तरस्य कथमिति चेत्, न; तस्यापि तद्धेतुनिवर्तनेन निवृत्तिदर्शनात् कलधौतद्रवत्वादिवत् । ततः सूक्तम्-'पुनर्मुच्यते' इति । पुनरपि कुतो मुच्यते ? अत्राप्युत्तरम् – 'परिणामात्तः' इति । सम्यग्दर्शनादिपरिणामपरिगृहीतो यत इति । सति तत्परिपाके तद्विरोधिमिथ्यादर्शनादिनिवृत्तेस्तन्निबन्धनपरिक्षयादपवृज्यते इति यावत् ।
नन्वात्मा कर्म तत्फलं संसारो मुक्तिरिति च सत्येव भेदे, न चायमस्ति तदवस्थापनोपायाभावात् । ततोऽद्वैतबोध एव परमार्थः, तस्य स्वत एवाधिगमात् 'स्वरूपस्य स्वतो गतिः" [प्र० वा० १।६ ] इति वचनादिति चेत् । अत्राह
आत्मादिव्यतिरेकेण कोऽपरोऽध्यक्षतां व्रजे। इति । अपर इत्यद्वैतबोध उच्यते तस्याविद्यमानत्वपरत्वात् । स कः किंरूपोऽध्यक्षतां स्वसं- ३० .