________________
५
१०
१५
न्यायविनिश्चयविवरणे
[ २/५५
वेदनविषयतां व्रजेत् प्राप्नुयात् ? न कश्चित् । सकलविकरुपातीतस्य तद्वजनात् केन तदाक्षेप इति ? अत्रोत्तरम् - आत्मादि | आदिशब्देन कर्मादि, तस्मादिवं व्यतिरेको व्यावृत्तिरध्यक्षतायास्तेनेति । इवार्थगर्भोऽत्र पञ्चमीतत्पुरुषः । तदयमर्थः
भेदरूपाद्यथात्मादेरध्यक्षं विनिवर्त्तते । तथोक्तरूपादद्वैतात्तदसम्प्रतिपत्तितः ॥ १४१५ ॥ सर्वनैरात्म्यमायातं तस्मादद्वैतवादिनाम् ।
तच्च प्रमाणशून्यत्वात्प्रागेव प्रतिवारितम् ॥ १४१६ ॥
भवतु नीलधवलादिभिराकारैश्चित्रस्यैव तस्य तद्वजनमिति चेत्, सिद्धस्तर्हि जीवो युगपदव क्रमेणापि बोधात्मनश्चित्रस्यानिषेधात्, तस्यैव परमार्थतो भीवत्वात् । तदाह
२०
९२
नानायं क्रमशो वृत्तेः [ न चेदत्राभिधास्यते ] ॥ ५५ ॥ इति ।
अयं प्रतीयमानो बोघात्मा नाना कथञ्चिदवग्रहादिपर्यायैः शबलः । कुतः ? वृत्तेः प्रवृत्तेः । कीदृशैः ? क्रमशः क्रमसाकल्येन भवद्भिरिति । नास्त्येव तादृशो बोधः प्रत्यक्षतस्तस्याग्रहणात् तत्र सन्निहितस्यैव सच्चेतनादेरवभासनात् न कालव्यापिनः तस्य मरणावधेर्य -
"
"यदि कालकलाव्यापि वस्तुग्रहणमक्षतः ।
सर्वकालकलालम्बे ग्रहः स्यान्मरणावधेः ||" [ प्र० वार्तिकाल० ४।१९७ ]
इति चेत्; अत्राह-न चेत् अत्राभिधास्यते । न चेत् न यदि क्रमशबलो बोधः, अत्र एतस्मिन् अक्रमशबले बोधात्मनि अभिधा तदस्तित्ववादः अस्यते निराक्रियते तत्रापि देशव्यापिनि प्रत्यक्षस्यावृत्तेः ।
यदि देश कलाव्यापि वस्तुग्रहणमक्षतः ।
सर्वदेशकलालम्बे ग्रहः स्यात्सागराऽवधेः ॥ १४१७ ॥
इति दोषात् । योग्यतया नियमस्येतरत्रापि सुकरत्वात् । प्रत्यक्षायोग्यस्य च तद्गतस्यानुमानात्प्रतिपत्तेरद्वैतभागवत् । न हि तत्रापि 'नानुमानम् - चित्रप्रतिभासाप्येकैव बुद्धिरशक्यविवेचनत्वात् ' इति तस्य दर्शनात् । तेनापि विप्रतिपत्तिरेव निवार्यते न तद्भागस्य ग्रहणम् प्रत्यक्षत एव सर्वात्मना तस्य ग्रहणादिति चेत्; न; विप्रतिपत्तिविवेकस्याग्रहणात्, ग्रहणेऽनुमानस्य वैफल्यात् । ततोऽनुमानादेव तस्य प्रतिपत्तिः तद्वदनाद्यनन्तत्वस्यापि । ततो युक्तं प्राणादिमत्त्वात् परिणामिन एवात्मनः साधनं न कूटस्थस्य नापि विज्ञानसन्तानस्य तत्र तस्य विरुद्धत्वात् ।
२५
परिणामिन्यषि विरुद्ध एवायं शरीरोपक्लृप्तादेव चैतन्यादुत्पत्तेरिति चार्वाकः । तदेवाह -
हणप्रसङ्गात् । तदुक्तम्
१ तत्परिज्ञा -आ०, ब०, प० । २ तस्मादेव प० । ३ - मंत्रार्थः आ०, ब०, प० । ४ " चित्रप्रतिभासापि बुद्धिरेकैव बाह्यचित्रविलक्षणत्वात् । शक्यविवेचनं चित्रमनेकमशक्यविवेचनाश्च बुद्धलादयः । " प्र० वार्तिकाल० पृ० ३९५ । ५ वैफल्यापत्तेः आ०, ब०, प० । ६ नापि ज्ञानआ०, ब०, प० ।