________________
२।५६-५७]
२ अनुमानप्रस्तावः भूतानामेव केषाश्चित् परिणामविशेषतः । कायश्चित्कारणं सोऽपि कथं संसारमुक्तिभाक् ॥ ५६ ॥ इति ।
कायः शरीरं भूतानां पृथिव्यादीनाम् एवकारान्न परमाण्वादीनां कार्यन्वेन सम्बन्धी, तेषामपि न सर्वेषाम् ; सर्वेषां कायमयत्वप्रसङ्गात्, अपि तु केषाश्चित् । भूतत्वाविशेषे कथमिदमिति ?
अत्रोत्तरम्-परिणामविशेषतः। तेषामेव समुदायलक्षणोऽवस्थाविशेषस्तस्मात्तत इति केषाञ्चिदेव ५ तद्विशेषभावात्तेषामेव स इत्यभिप्रायः । भवति चात्र सूत्रम्-“तत्समुदाये शरीरेन्द्रियविषयसंज्ञाः" [ ] इति' । भवतु नामैवं तथापि कः प्रकृतोपयोगः ? तत्रोत्तरम्-चित्कारणं चितश्चेतनस्य दर्शनस्मरणादेः कारणं काय इति सम्बन्धः “तेभ्यश्चैतन्यम्" [ ] इति वचनात् । प्रयोगश्चात्र-यस्मिन् सत्येव यद् भवति तत्तस्य कार्य यथा किण्वादेर्मदशक्तिः,सत्येव च काये भवति चेतन इति । तदुक्तम् – “मदशक्तिवद्विज्ञानम्" [ ] इति । भवतु तद्धेतुः काय एवात्मा 'चैतन्य- १० विशिष्टः पुरुषः" [ ] इत्यभिधानात्, स एव च संसरति मुच्यते चेति चेत्, उत्तरम्सोऽपि कायोऽपि न केवलं परः कथं नैव संसारमुक्तिभाक् ? तस्य जन्मनः पूर्वं मरणाचोर्ध्वमभावेन तदनुपपत्तेरिति भावः । तत्रोत्तरमाह
शक्तिभेदे तथा सिद्धिः [संज्ञा केन निवार्यते ] इति ।
तथा तेन कायश्चित्कारणमिति प्रकारेण सिद्धिः निीतिः भवतीति शेषः । कदा ? शक्तेः १५ सामर्थ्यस्य भेदे तदन्यासम्भविनि विशेषे सति । तात्पर्यमत्र-कायात्मनः पृथिव्यादेश्चैतन्यं प्रत्यभिव्यञ्जकत्वेन कारणत्वमिति मते तद्भेदस्तस्य वक्तव्योऽन्यथा तदयोगात् भूतान्तरवत् । किं तेन कायत्वादेव तदुपपत्तेरिति चेत् ? न, मृतेऽपि देहे तत्प्रसङ्गात् । विशेषादिति चेत्; स तर्हि तद्भेद एव नापर इति सिद्धः स एव तद्भेदाधिष्ठानं जीवः, तदपरस्तु भावः पुद्गलादिस्तत्र दर्शनस्मरणप्रत्यभिज्ञानादेरात्मधर्मस्याभावात् तदधिष्ठाने च विपर्ययात् । ततः संज्ञयैव तस्य भूतत्वं नार्थतः । न च सा तत्र निवार्यते २० अनेकसंज्ञासमावेशस्यैकत्राविरोधात् । तदाह-संज्ञा केन निर्वायते' इति । यदि तस्य तच्छरीरतयैव जीवत्वमविनष्टैव दृष्टि स्तिकानामिष्टत्वात् । अपरशरीरत्वेनाषीति चेत्, कथमत्यक्ततच्छरीरस्य तत्सम्भवेत् युगपदेकत्र तदनुपलम्भात् । त्यक्ततच्छरीरस्येति चेत्, न; तस्यापि भस्मभावेनात्रैवोपलभ्यमानस्य तद्वत्त्वाप्रतिषत्तेरिति चेत्, मा भून्नाम स्थूलस्य तद्वत्त्वं सूक्ष्मस्य तु न कथं तस्य शरीरान्तरवत्त्वमनुभवतोऽप्यप्रतिपत्तेरविरोधात् । नाविरोधादेव तदस्तित्वमतिप्रसङ्गात्, अपि तु प्रमाणादेव, २५ तच्चेह नास्तीति चेत् ; न तस्याषि भावात् । तथाहि-विवादापन्नः पृथिव्यादिः तदन्तरवान् चैतन्याभिव्यञ्जकशक्तिभेदवत्त्वात् बालदेहपृथिव्यादिवत् । प्रसिद्धं हि बालदेहपृथिव्यादेस्तथाविधस्य तदन्तरवत्त्वं तत्रैव युवादिदेहभावस्य प्रतिपत्तेः । कथं पुनस्तदेहस्य बालदेहाद् भेद इति चेत् ?
१ "पृथिव्यापस्तेजोवायुरिति तत्त्वानि तत्समुदाये शरीरेन्द्रियविषयसंज्ञा इत्यादि" तत्त्वोप० पृ० १ । न्या० कु० टि० पृ० ३४१ । २ 'तेभ्यश्चैतन्यामिति । तत्र केचिद् वृत्तिकारा व्याचक्षते-उत्पद्यते तेभ्यश्चैतन्यम् । अन्ये- अभिव्यज्यते इति ।" तत्त्व सं० पं० पृ०५२० ।पा० कु० टि० पृ०३४२ । ३ तत्त्वान्तरत्वेन भेदः।