________________
न्यायविनिश्चयविवरणे
[ २।५७-५८
प्रतिभासभेदादेव पुरुषान्तरदेहवत् । सत्यपि तस्मिन्नात्यन्ताय तत्र भेद इति चेत् ,न; अस्माभिरप्यत्यन्तभेदेन तदन्तरवत्त्वस्यासाधनात् । एवमपि कथं मरणतिरोहितचिद्रूपस्य पुनराविर्भूततद्रूषतथा तदन्तरवत्त्वं स्थूलरूपस्यापि तस्य तत्प्रसङ्गादिति चेत् ? कथं भवतोऽपि जन्मनः पूर्वमनभिव्यक्तचिद्रूपस्य तथा प्रकृतदेहवत्त्वं भूतमात्रस्यापि तत्प्रसङ्गेन सर्वस्य प्राणिमयत्वापत्तेः । नायं दोषस्तत्रैव ५ तन्निबन्धस्य शक्तिविशेषस्य भावान्न तन्मात्रे इति समानमन्यत्रापि समाधानम् । तदेवाह – यथाभूताविशेषेऽपि प्रज्ञादिगुणसंस्थितिः ।
तथा भूताविशेषेऽपि भवद्भूतादिसंस्थितिः ॥ ५७ ॥ इति ।
यथा येन शक्तिभेदभावाभावप्रकारेण शरीरभाविनोऽन्यस्य च पृथिव्यादेभूतत्वं भावप्रधानत्वान्निर्देशस्य, उपलक्षणञ्चेदं तेनानभिव्यक्तचेतनत्वमपि तस्याविशेषस्तस्मिन्नपि न केवलं तद्भावे, १० प्रज्ञादिगुणसंस्थितिः इति अत्यन्तविस्मृतस्य पूर्वसंस्कारादभ्यूहनं प्रत्येकगृहीतानामन्योऽन्ययोजनेन वानुस्मरणं प्रज्ञा सादिर्यस्य मेधाशरीरभावादेः, मेघा गृहीताविस्मरणं पृथम्गृहीतानां तथानुस्मरणं वा, स एव गुणस्तस्य संस्थितिः सम्यक् शरीरभाविन्येव पृथिव्यादौ नान्यत्र स्थितिरतिव्याप्तिपरिहारेणावस्थानम् । न हि तत्रैवं शक्यं वक्तुम् - शरीरभाव्यपि पृथिव्यादिर्न तत्संस्थितिमान् भूतत्वादनुन्मीलितचेतनत्वाद्वा तदितरपृथिव्यादिवदिति, तत्त्वाविशेषेऽपि शक्तिभावेतराभ्यां तत्संस्थितिमत्त्वस्योपपत्तेः । तथा १५ तेन प्रकारेण भूताविशेषेऽपि भूतत्वतदुपलक्षिततिरोहितचेतनत्वाभेदेऽपि स्थूलस्य इतरस्य च पृथिव्यादेः भवद्भूतादिसंस्थितिः भवन् भाविशरीरप्रज्ञादिस्तस्य वर्तमानसमीपत्वेन तत्प्रत्ययविषयत्वात्, भूतश्च वर्तमानस्तत्रापि तच्छब्दस्य रूढे: अन्यथा भूतपूर्वशब्दवैयर्थ्याद् भूतषदादेव तदर्थपतिषत्तेः । तदय-, मर्थः-२ :-भूतः साम्प्रतिकः पृथिव्यादिः आदि: कारणमभिव्यञ्जकत्वेन यस्य स भूतादिः भवन्नेव भूतादिस्तस्य संस्थितिः सूक्ष्महेतुकतयैव न स्थूलभस्मादिनिमित्ततयावस्थानम् । ततो न तत्रापीदं वक्तव्यम् -- विवक्षि२० तोऽपि न पृथिव्यादिस्तद्धेतुः भूतत्वात्तिरोभूतचेतनत्वाद्वा स्थूलभस्मादिवदिति, तस्यापि सामर्थ्यभावेतरा - भ्यामेव परिहारात् । भवतु भाविरूपतया तस्यैवं जीवत्वं न भूतरूपतयेति चेत्; न; तस्याप्यनुमाना-दवगमात् - साम्प्रतिकः शरीरादिरतीतकाय पृथिव्यादिहेतुकः शरीरादित्वात् वृद्धशरीरादिवत् । तदाह-भवदित्यादि । व्याख्यानमंत्र भवन् वर्तमानः स एव भूतादिरतीत काय पृथिव्यादिनिबन्धनत्वात्तस्य संस्थितिः पूर्ववत् । तदेवं कायकारणत्वेऽपि चैतन्यस्याप्रतिक्षेष एव जीवस्य तस्य २५ कालत्रयभावित्वेनावस्थापनात्, न तावता तस्य तत्त्वमनाद्यनन्तत्वेन तदुपगमात् तस्य च नानुमानं तस्यानन्तरपूर्वादावेव ं पर्यवसानात्, ततोऽपि नः (न) परस्य तस्यानुमितिरिति चेत्; न; एवमनवस्था-प्रसङ्गाद् विषयान्तरे चासञ्चारापत्तेः यावज्जीवं तत्रैवाभिनिवेशादिति चेत्, नन्वयं भवत एव पर्यनुयोगःपृथिव्यादेरनाद्यनन्तस्य प्रत्यक्ष तो ऽनवगमात् तस्य सन्निहितार्थगोचरतयैव प्रतीतेः, अनुमानस्य
९४
१ स्थूलेतरस्य च आ०, ब०, प० । २ - नन्तरं पूर्वादेव प- आ०, ब०, प० । ३ -" आदिपदेन अनन्तरोत्तरम्य ग्रहणम्" - ता० टि० ।