________________
२।५९-६०]
२ अनुमानप्रस्तावः चानिष्टेरिष्टस्याप्युक्तदोषानतिवृत्तः । तदनेन सौगतस्याप्यनाद्यनन्तत्वपरिज्ञानाभावः प्रतिपत्तव्यः । स्याद्वादिनस्तु नायं दोषः कतिपयतदनुमानपर्यवसाने तबलादेव क्षयोपशमविशेषसापेक्षादित्थमनादिरनन्तश्चायं प्रबन्ध इति तर्काभिधानस्य प्रमाणस्योत्पत्तेः । ततो युक्तं कायकारणत्वेऽपि चैतन्यस्यानाद्यनन्तत्वावस्थितेः संसारमुक्ती तस्येति । कीदृशश्चायं चेतनो यस्य शरीरेणाभिव्यक्तिः ? तदात्मेति चेत् ; न; तस्य तद्भिन्नलक्षणत्वात् । ज्ञानदर्शनलक्षणो हि चेतनो न शरीरं तस्य रूपादिलक्षणत्वात् । न हि ५ तद्भिन्नलक्षणस्य तत्रान्तर्भावः पृथिव्यादौ जलादेरपि तत्प्रसङ्गात् । तन्निश्चयेऽनिश्चयाच्च । अस्ति हि निश्चितेऽपि शरीरे 'तद्विकले संशयः किमयं मूर्खः किं वा पण्डित इति, अन्यथा तत्परीक्षावैयर्थ्यापत्तेः । व्यभिचारी हेतु: शब्दादिधर्मिनिश्चयेऽपि अनिश्चितस्याऽनित्यत्वादेस्तदन्तर्भावादिति चेत् , न; तत्र कथञ्चिभेदस्यापि भावात् । चेतनेऽप्येवमिति चेत् ; न; जैनोक्तौ "परस्परविरुद्धयोरेकत्रासम्भवात्" [ ] इति सूत्रेण स्वयं तद्वा- १० दस्य निराकरणात् । तन्न तदात्मनस्तेनाभिव्यक्तिः । तद्गुणस्येति चेत् । नः तदाश्रयत्वात्तद्गुणत्वे घटादौ प्रसङ्गात् , तस्य भूम्याश्रयत्वात् । सर्वदा तदभावान्नेति चेत् ; अक्यविनि प्रसङ्गः; तस्य शश्वदवयवाश्रयत्वात् । क्रियावत्त्वादिना द्रव्यत्वान्नेति चेत् , न; उत्पन्नमात्रे क्रियावत्त्वादेरसम्भवात् । तत्कार्यत्वात् , न हि कार्यकारणयोः समकालः प्रादुर्भावः सव्यापसव्यबालविलासिनीकुचचूचुकवत् परस्परमनुपकारात् । पश्चाद्धाविना च तेन पूर्व द्रव्यत्वम् ; पूर्वभाविना द्रव्याश्रयत्वादिना पश्चादपि १५ गुणत्वस्यैव प्रसङ्गात् । कथञ्चैवं गन्धादेरपि गुणत्वम् ? गुणवत्त्वेन द्रव्यत्वस्यैवोपपत्तेः । अस्ति हि तत्र तद्वत्त्वम्, द्वौ गन्धौ षड्सा इति सङ्ख्याभेदप्नतिपत्तेः । वक्ष्यति चैतत्-"गणानाम्" इत्यादिना । तन्न तद्गुणस्यापि तेनाभिव्यक्तिः । नापि तत्कार्यस्य; वक्ष्यमाणोत्तरत्वात् । कथमेवं गुणनिषेधे “गुणवद्र्व्यम्" इत्युपपन्नं भवतोऽपीति चेत् ? न, परकीयस्य तल्लक्षणस्यैवातिव्याप्त्यादिना प्रतिषेधान्न गुणस्य । कथं तर्हि तदुपपत्तिरिति चेत् ? आह
तस्मादनेकरूपस्य कथञ्चिदुग्रहणे पुनः ॥ ५६ ॥
तद्रूपं भेदमारोप्य गुण इत्यपि युज्यते । इति । तस्मादुक्तन्यायादनेकरूपस्य युगपज्ज्ञानदर्शनादिनानात्वभावस्य क्रमेण स्वाषप्रबोधसुखदुःखादिभेदात्मनश्चेतनस्य कथञ्चित् केनचित् न सर्वात्मना प्रकारेण ग्रहणं प्रत्यक्षादिना परिच्छेदः । न हि तेन तस्य सर्वात्मना परिज्ञानं स्वापादौ प्रबोधादेस्तत्र च स्वाषादेर प्रतिवेदनात् । न चैवं तस्यापि । न प्रतिपत्तिः; तस्याः प्रत्यभिज्ञाबलेन व्यवस्थापितत्वात् । ततः कथञ्चिदेव ग्रहणम् , तस्मिन् सति, पुनः पश्चात् तद्रूपं गृहीतागृहीतरूपं भेदं नानात्वम् आगेप्य नयबुद्धयाभिसन्धाय गुण इत्यपि शब्दाद् गुणीत्यपि कल्पनं युज्यते उपपद्यते । सति भेदे चेतनात् स्वापादीनां ते तस्य गुणास्तदाश्रय
१ शरीरभिन्ने चैतन्ये इत्यर्थः । २ चेतनेष्वेवमि- आ०, ब०, प० । ३ अवयविकार्यत्वाद्गुणस्य अतो न गुणत्वमवयविनः । ४ गुणेन । ५ यदि स्यात् इति सम्बन्धः। ६ न्यायवि० श्लो० २३० । ७ न्यायवि० श्लो० ११७ ।