________________
५
न्यायविनिश्चय विवरणे
[२।६०-६२ त्वात् स च गुणी तदधिकरणत्वादिति प्रतीतिबलादुपपन्नो गुणतद्वद्भाव' इत्यर्थः । गुणतद्वतोरेकान्ततः एव भेदो न कथञ्चित् तद्वादस्य विरोधादिदोषादिति चेत् ; अत्राह
यदि स्वभावाद्भावोऽयं भिन्नो भावः कथं भवेत् ? ॥ ६० ॥
अनवस्थानतोऽभेदे सकलग्रहणं भवेत् । इति ।
अत्रायमभिप्रायो यथा गुणी गुणात् स च गुणिनो भिद्यते तथा यदि न स्वभावादपि ; नानेकान्तवादान्निर्मुक्तिः अन्यतो भेदस्य स्वतश्चाभेदस्य भावे तस्यावश्यम्भावात् । तथा गुणगुणिरूपतयैव वरं तदभ्युपगमः प्रतीतिभावादिति । भिद्यते चेत् ; उत्तरम्-यदि चेत् स्वभावात् स्वात्मनोऽयं भावश्वेतनोऽन्यो वा भिन्नो व्यतिरिक्तः भावः कथं नैव भवेत् खरशृङ्गादिवत् । भिन्नस्यापि पुनः स्वभावान्तरे
णावस्थितिरिति चेत् । न ; ततोऽपि तद्भेदस्यावश्यम्भावात्. अन्यथा अनेकान्तवादादनिर्मुक्तेः । पुनस्तद१० न्तरेण तदवस्थाने चानवस्थानात् । तदेवोक्तम्-'अनवस्थानत' इति । भिन्नस्यापि स्वभावात् सत्तासम्ब
न्धेन सत्त्वम्, इत्यप्ययुक्तम् , अनवस्थानत एव स्वभावनिष्क्रान्ते सम्बन्धस्यैव निर्विषयत्वेनानवस्थितेः व्योमकुसुमादिवत् । तन्न क्वचिदैकान्तिको भेदः प्रमाणबाधनात् । भवत्वभेद एवैकान्तिक इति चेत् । उत्तरम्- 'सकल' इत्यादि । सकलस्य स्वरूपादेरिव पररूपादेरपि ग्रहणं तादात्म्येन भावस्य भवेत कदा ? अभेदे, क्वचिदपि भेदस्याभावे ।
तदेवं सति चार्वाकः कथं भूतचतुष्टयम् । कणादः षट्पदार्थान् वा कथं नामावकल्पयेत् ॥ १४१८ ॥ प्रागेव ब्रह्मवादोऽषि प्रतिषिद्धः सविस्तरम् । भेदाभेदात्मकं वस्तु तत्प्रतीत्योपगम्यते ॥ १४१९ ॥ तच्चानेकात्मक वस्तु गुणगुण्यादिरूपतः ।
संशयाद्यनुपल्लीढं (पालीढं) भवतीत्याह शास्त्रकृत् ॥ १४२० ॥ तदनेकात्मकं तत्त्वं [ न हि ज्ञानात्मना क्वचित् ] ॥ ६१ ॥ इति ।
स्पष्टमेतत् । अत्रायं भावः-स्याद्वादबलभाविभूतचातुर्विध्यमभ्युपगम्य तद्वादिनं प्रति गौरेवायं केवलमस्य विषाणे न स्तः इत्युषप्लवमवकल्पयन् भूतवादी महाभूतेनैवाविष्टो न विशिष्टया प्रज्ञयाधिष्ठित इति । भवतु स एव वादः, तत्रैव चेतनो देहस्य गुण इति चेत्; अत्राह
न हि ज्ञानास्मना क्वचित् ॥
शरीरग्रहणं येन तद्गुणः परिकल्प्यते । इति । न हि नैव ज्ञानात्मना शुक्लाद्यात्मना पटग्रहणवत् क्वचिदन्तर्बहिर्वा शरीरग्रहणमस्ति
१ गुणवद्भाव आ०, ब०, प० २। -कान्त एव आ०,ब०,प० । ३ -मवत् आ०,ब०,प० । ४-टमेव तत् ता०।५ लवादी आ०, ब०,प०।६ परिकल्पते आ०, ब०, प० ।