________________
२।६२-६४]
२ अनुमानप्रस्तावः येन तथा तद्ग्रहणेन तद्गुणः परिकल्प्यते ज्ञानात्मेति विभक्तिपरिणामेन सम्बन्धः । गुण. द्रव्ययोः कथञ्चिदप्यभेदे द्रव्यवद् गुणस्यापि गुणवत्त्वप्रसङ्गः तद्धर्मानुपाते सत्येव तदभेदोषपत्तेरिति चेत्, न; अभेदार्पणया तथेष्टत्वात् । न चैवम् "द्रव्याश्रया निर्गुणा गुणाः" [त. सू० ५/४० ] इति सूत्रविरोधः; तस्य भेदाभिसन्धिनिबन्धनत्वात् । वैशेषिकादेस्तु “ अगुणवान् गुणः" इति ब्रुवाणस्य न गन्धादेर्गुणत्वं गुणवत्त्वात् । तदेवाह
गुणानां गुणसम्बन्धो गन्धादेः सङ्ख्यया ग्रहात् ॥६२॥ इति ।
सङ्ख्यायाश्च गुणत्वं गुणसूत्रे तत्त्वेन पाठादिति भावः । सत्यं सङ्ख्यावत्तस्य ग्रहः, सा तु गुण एव न भवति "भाक्तत्वेनावस्तुसत्त्वात्, वस्तुसत्त्व एव तस्या गुणत्वोपपत्तेरिति चेत्; अत्राह
तादात्म्यं केन वार्येत [नोपचारप्रकल्पनम् ] । इति ।
स गुण आत्मा स्वभावो यस्य तस्य भावः तादात्म्यं गुणात्मत्वं सँङ्ख्याया इति षष्ठी- १० परिणामेन सम्बन्धः । केन न केनचित् वार्येत प्रतिक्षिप्येत । ननूक्तं भाक्तत्वेन तन्निवारणमिति . चेत्, अत्राह
नोपचारप्रकल्पनम् । __ अनान्यत्रापि तुल्यस्वात् [ आधारस्यैकरूपतः ] ॥६३॥ इति ।
अत्र अस्यां गन्धादिसङ्ख्यायाम् उपचारस्य असदाकाराद्यारोपस्य कल्पनं समर्थनम् । कुत १५ एतत् ? अन्यत्रापि पृथिव्यादावपि तुल्यत्वात्तत्कल्पनस्य । तथा च न कचित् सङ्ख्यामा गुणत्वमिति मन्यते । नायं दोषः, तत्र वस्तुत एव तस्या भावात् निर्बाधप्रतिपत्तिविषयत्वादिति चेत्, अत्राह-अन्यत्रापि गन्धादिसङ्ख्यायामषि तुल्यत्वात्तद्विषयत्वस्य बाधकस्य कदाचिदप्यप्रतिपत्तेः । वस्तुतो निर्गुण एव गन्धादिरद्रव्यत्वात् कर्मादिवत् इत्यनुमानं बाधकमिति चेत् न, कर्मादावपि 'पञ्च कर्माणि द्विविधं सामान्यम् , एकः समवायो बहवो विशेषाः' इति सङ्ख्यया गुणवत्त्वस्यैव प्रतीतेः, साध्य- २०. वैकल्याद्धेतोश्चासिद्धत्वात्, गुणवत्त्वे तस्यापि द्रव्यत्वात् । तदेवाद्रव्यत्वेनेति चेत्, न; 'अगुणवत्त्वाद द्रव्यत्वम्, ततश्च तत्' इति परस्पराश्रयस्य स्पष्टत्वात् । ततः सूक्तम् 'अन्यत्रापि' इत्यादि ।
क्व चेयं प्रसिद्धा सङ्ख्या यस्या गन्धादावुपचारः ! तदाधार इति चेत्, न; पृथिव्यादेरेकत्वादेकसङ्ख्याया एव तत्र तदापत्तेः । तदाह
----- ----- आधारस्यैकरूपतः॥ तत्रैकत्वं प्रसज्येत [ संख्यामात्रं यदीप्यते ।। इति ।
आधारस्य पृथिव्यादेः एकरूपत एकत्वेन निरूपणात् तत्र गन्धादौ एकत्वं प्रसज्येत तथा च 'द्वौ गन्धौ' इत्यादि व्यपदेशाभाव इति मन्यते । भवत्वनाधारसङ्ख्यायास्तत्रोपचार इति चेत्; न; प्रत्यासत्तेस्तन्निबन्धनस्याभावात् । सङ्ख्यासामान्यस्याधारेतरगतस्योपचारस्तत्र तद्भावादिति
१ परिकल्पते आ०,ब०,प०।२ वैशे० सू० १।१।१६ । ३ वैशे० सू० १११।६ । ४ संख्यात्वेन । ५ "श्रौपचारिकत्वेन" -ता० टि०।६-णवत्त्वो- आ०, ब०,प० । ७ संख्यया आ०, ब०, प०। ८ -यस्य आ०, ब०,प० । ९ एवं संख्यया गु-आ०, ब०, प० ।
१३