________________
न्यायविनिश्चयविवरणे
[२।६४-६६ चेत्: तदेव तर्हि स्यात् कथं विशेषः ? सामान्येन तस्याक्षेपादिति चेत्, न; आधारेतरगतयोरेकत्वनानात्वयोयुगपदाक्षेपेण गन्धादौ तद्व्यपदेशस्यापि युगपत्प्राप्तेः, ततो यदि तत्कल्पनं सामान्यमेव न विशेषस्तदेवाह-सङ्ख्यामात्रं यदीष्यते' इति । यदि चेत् इष्यते तत्कल्पनं सङ्ख्यैव विशेष
रहिता तन्मात्रं स्यात् । न च तेन कल्पितेनापि प्रयोजनं स्यात्, 'द्विव्यपदेशस्य तस्मादनुपपत्तेः । उप५ चरितत्वे च गन्धादौ सङ्ख्यायास्तद्वदेव पृथक्त्वस्यापि स्यात्, सङ्ख्यावत्तस्यापि गुणत्वेन वस्तुतस्तत्रासम्भवात् । ततः किमिति चेत् ? आह- .
नानात्मविभ्रमादेयं न पृथग्गुणिनो गुणाः ॥६४॥ इति । नानात्मा नानास्वभावः पृथक्त्वमिति यावत्, तस्य विभ्रमः कल्पितत्वं तस्मात् । एवं गन्धादिसङ्ख्यावत् । न पृथग न भिन्ना गुणिनः पृथिव्यादेगुणाः रूपादयः स्युठा उपलक्षणमिदम्, १० तेन कर्मसामान्यादयोऽपि तद्वतो न पृथगिति प्रतिपत्तव्यम्, वस्तुतः पृथक्त्वाभावे तदनुपपत्तेः । 'तदभावेऽप्याकारभेदात्ते ततः पृथगिति चेत्, एतदेवाह
प्रसक्ता रूपभेदाच्चेत् [ भेदो नानात्वमुच्यते ] । इति ।
रूपभेदात् स्वाकारभेदात्ते ततः पृथक् प्रसक्ताः प्रवृत्ताः चेत् यदि । तत्रोत्तरमाह -- 'भेदो नानात्वमुच्यते' इति । भेद इत्यपि नानात्वं पृथक्त्वमेव न स्वरूपवैलक्षण्यम् १५ उच्यते, अन्यथा पृथिव्यादिष्वपि पृथक्त्वकल्पनावैकल्यप्रसङ्गात् । ततो गुणादीनां तद्वतो भेदमि
च्छता पृथक्त्वं तत्र तात्त्विकमेवाङ्गीकर्तव्यम् इत्यव्याषकमेव "अगुणवान्" इति गुणलक्षणम् । तदनेन "गुणवत्" इति द्रव्यलक्षणस्यातिव्यापकत्वमुक्तं भवति गन्धादेरपि गुणवत्त्वेन तत्त्वापत्तेः, समवायस्य चैकत्वेन तस्यापि तद्वत्त्वात् । नास्त्येव "तत्रैकत्वं केवलं भावसादृश्यात्तत्र तद्व्यवहारः । तदुक्तम् - "तत्त्वं भावेन व्याख्यातम्" [ वैशे० ७।२।२८ ] इति , तदेवाह
एकता भावसाम्याच्चेत् [ उपचारस्तथा भवेत् ] ॥६५॥ इति । भावः सत्त्वं तेन साम्यं साधयं सत्सदितिवत् समवायः समवाय इत्यविशिष्टज्ञानविषयत्वं तस्मात्, एकता एकत्वं समवायस्येति शेषः। 'चेत्' इति पराकूतद्योतने । तत्रोत्तरमाह-'उपचारस्तथा भवेत्' इति । तथा तेन तत्साम्यप्रकारेणोपचार एकत्वस्य भवेत् सादृश्यगुणोपनीतत्वात् माणवके
सिंहत्ववत् । तथा च तत्र नानात्वमेव स्यात् । वस्तुत एकत्वाभावे तस्यावश्यम्भावात् । यदि च, २५ तत्र गुणवत्त्वभयान्न वास्तवमेकत्वं पृथक्त्वमपि न भवेत्, तदपि कुतश्चित् कार्यविशेषादेरुपचरितमेव स्यात् । तदेवाह
भेदेऽपि [ वस्तुरूपत्वात् न चेदन्यत्र तत्समम् ] । इति । भेदः समवायस्य तदन्यत्वान्नानात्वं तस्मिन्नपि न केवलं तदेकत्व एव, उपचारः तथा
१ तदा व्यपदे- आ०, ब०, प० । २ पृथक्त्वाभावेऽपि । ३ वैशे० सू० १११।१६४ "क्रियागुणवत्समवायिकारणमिति द्रव्यलक्षणम्"-वैशे० सू० १।११५ । ५ समवाये । ६ सिंहवत्त्ववत् आ०, ब०, प० ।