________________
२।६६-६७
२ अनुमानप्रस्तावः भवेत्' इति सम्बन्धः । तथा च तस्य वस्तुतो भावादप्यभेदात् न युक्तमेतत्-‘एकता भावसाम्यात्' इति, साम्यस्य भेदे सत्येवोपपत्तेः । इतरः प्राह-'वस्तुरूपत्वान्न चेत्' इति । वस्तुनः समवायस्य रूपत्वात् स्वभावत्वाद्भदस्य न चेत् न यदि तत्रोपचार इति; तत्राह-'अन्यत्र तत्समम्' इति । अन्यत्र तदेकत्वे तत् वस्तुरूपत्वं समं सदृशम् तस्यापि निरवद्यप्रत्ययवेद्यतया स्वयमभ्यनुज्ञानात्, तथा च सिद्धमेकत्वादिना तस्य गुणवत्त्वम् । अर्थान्तरत्व एव स गुणो न वस्तुरूपत्वे इति चेत् आह- ५ 'अन्यत्र' इत्यादि । अन्यत्र पृथिव्यादौ तत् वस्तुरूपत्वमेकत्वादेः समं तत्रापि तदपरस्य प्रमाणतो ऽनवगमादिति न क्वचिदेकत्वादिर्गुणः २ स्यात् । अथवा, 'न पृथग्गुणिनो गुणाः' इत्युक्तं तदेवाभ्युपगमात् वदतः सङ्ग्रहवादिनो मतम् 'एकता' इत्यादिना आशङ्क्य 'उपचारः' इत्यादिनोत्तरमाह । न हि भावसादृश्यात् सन्मात्राविशेषादेकता सर्वभावानामुपचार एव तथा भवेत् सन्मात्रस्यापि सर्वव्यक्तिष्वेकस्याभावात् उपचारत एव तदेकत्वस्यावस्थापितत्वादिति मन्यते । हेत्वन्तरमाह-'भेदेऽपि १० इत्यादि । न हि भेदस्यापि वस्तुरूपत्वे वस्तुतस्तदेकत्वमुपपन्नम्, भेदो न वस्तुरूपः तत्त्वात् मरीचिकातोयवदिति चेत्, तदेवाह-'न चेत्' इति । न यदि भेदे वस्तुरूपत्वमिति । तत्रोत्तरम् - अन्यत्र अभेदे तत् वस्तुरूपत्वं नेति समम्-सोऽपि न तद्रूपस्तत्त्वात् लूनपुनरुत्पन्नकेशाद्यभेदवदिति अनुमितिभावात् । भवतु बाधितस्य तस्यातद्रूपत्वं नापरस्य । न हि बाधवतो धर्मस्तदन्यत्र योजनमहत्यतिप्रसङ्गादिति चेत्, न, भेदेऽपि समानत्वात् । अत एवोक्तम्-'अन्यत्र तत् समम्' १५ इति । तन्न गुणगुण्यादीनामपृथक्त्वम् ।
भवतु पृथक्त्वमेव प्रतिभासादिभेदादिति चेत् ; अत्राह
___ एतेन भिन्नविज्ञानग्रहणादिकथा गता ॥६६॥ इति ।
भिन्नविज्ञानग्रहणं भिन्न प्रतिभासावलम्बनम् आदिशब्दाद् भिन्नाभिधानकारणादि तस्य कथा गता न सम्भवति इत्यवगता । केन ? एतेन अनन्तरन्यायेन । विज्ञानादावपि भेदस्य २० सत्येव पृथक्त्वे सम्भवात् , तस्य च निराकृतत्वात् । तत्रापि भिन्नविज्ञानग्रहणादिना भेदकल्पनायामनवस्थापत्तेः । तन्न गुणो नाम कश्चिन्निश्चितो यतश्चेतनोऽपि गुणः स्यात् ।
मा भूद्धर्मस्तु तर्हि तस्य स्यात् तदवष्टम्भेनावस्थानाच्चित्रवत् कुड्यस्य, ततो यथा कुड्यापाये न चित्रं तत्र तिष्ठति नाप्यन्यत्र गच्छति नश्यत्येव परं तथा शरीरापाये चेतनोऽपीति मन्वानस्य मतमुपदशर्यन्नाह -
जीवच्छरीरधर्मोऽस्तु चैतन्यं व्यपदेशतः ।
यथाऽचैतन्यमन्यत्रेत्यपरः प्रतिपन्नवान् ॥६७॥ इति । जीवतः प्राणान् धारयत: शरीरस्य धर्मोऽस्तु चैतन्यं व्यपदेशतः 'सचैतन्यमिदं
२५
१ तेरिति ततः प्रा- आ०, ब०, प०। २ अनर्थान्त-आ०, ब०, प० । ३ -दिनिगुआ०, ब०, प० । ४ -तेन तदैवाभ्युपगमाच ततः आ०, ब०, १०। ५ अभेदोऽपि । ६ बाधावती आ०, ब०, प० । ७ तर्हि स्यात् आ०, ब०, प० । ८ "शरीरस्य" - ता० टि०।