________________
१०० न्यायविनिश्चयविवरणे
[२।६८-७० जीवच्छरीरम्' इत्यभिधानतो यथा येन व्यपदेशप्रकारेण अचैतन्यं चित्रादि अन्यत्र कुड्यादौ धर्म इति एवम् अपर चार्वाकः प्रतिपन्नवान् । तत्रोत्तरमाह
अप्रत्यक्षेऽपि देहेऽस्मिन् स्वतन्त्रमवभासनात् ।
प्रत्यक्षं तद्गुणो ज्ञानं नेति सन्तः प्रचक्षते ॥६८॥ इति । ___ बहलतमःपटलपरिपिहितलोचनदशायाम् अप्रत्यक्षेऽपि विस्पष्टप्रतिभासाविषयेऽपि न केवलं विपुलविलसदालोकपरिकलितप्रदेशदशायां प्रत्यक्षेऽपीत्यपिशब्दः । कस्मिन् ? देहे शरीरे अस्मिन् आत्मीये प्रतीयमाने प्रत्यक्षं स्पष्टावभासं ज्ञानम् । कुत एतत् ? स्वतन्त्रं यथा भवति तथा अवभासनात् । तत् किम् ? तद्गुणः तस्य देह [ स्य ] गुणस्तदाश्रयं नेति सन्तः प्रचक्षते
कथयन्ति । नहि तस्मिन्नप्रत्यक्षेऽपि प्रत्यक्षस्य तद्गुणत्वं रूपादेशकाशगुणत्वप्रसङ्गात् । शब्दस्य १० कथं तादृशस्याकाशगुणत्वमिति चेत् ? न, तस्य निषेधात् । स्पर्शस्य वायुगुणत्वं कथमिति चेत् ?
न; स्पर्शविशेषस्यैव वायुत्वात् , तस्य च प्रत्यक्षत्वात् । तस्य तदर्थान्तरत्वे गुणगुणिभावाभावस्य निवेदनात् । तन्न देहगुणत्वं ज्ञानस्य । ततः किम् ? इत्याह
तद्दष्टहानिरन्येषामदृष्टपरिकल्पना । इति ।
तत् तस्मात् तस्य गुणत्वाभावात् अन्येषां लौकायतिकानां दृष्टहानिः प्रत्यक्षवेद्यस्य १५ स्वतन्त्रज्ञानस्य प्रतिक्षेपात्, अदृष्टपरिकल्पना परतन्त्रस्य तस्यादृष्टस्यैवोपगमात् । तदेवाह
स्वातन्त्र्यदृष्टभूतानामदृष्टगुणभावतः ॥६६॥ इति । ___ दृश्यते हि स्वातन्त्र्यं ज्ञानस्य । नहि देहभूताभूतसम्बन्धितया गुणभावः । ततो दृष्टहानिरदृष्टकल्पना चान्येषामिति । भवतु "तस्य तदात्मत्वं तद्गुणत्वं तद्धर्मत्वं वा, तथापि न
संसारमोक्षयोरभाव इत्याह२०
तत्सारतरभूतानि कायापायेऽपि कानिचित् । इति ।
तदित्यत्र अपिशब्दो द्रष्टव्यः । तदयमर्थः-तदपि तस्य तद्गुणत्वादिप्रकारेणापि 'जीवः संसारमुक्तिभाग्' इति दुरादाकृष्य सम्बन्धनोयम् । कथमेतत् ? देहपाते सह तेन तस्यापि प्रलयादिति चेत् ? तन्न; यतः कायापायेऽपि न केवलं तद्भावे कानिचित् न सर्वाणि शरीरान्तरपरिणामभाञ्जि भवन्ति पूर्वोक्तन्यायात् । कीदृशानि कानिचित्तानीति चेत् ? सारतरभृतानि तैश्चैतन्यस्य प्रागभिव्यक्तत्वात् तेभ्योऽपि साराणि पुनरप्यभिव्यञ्जकत्वात् भूतानि सूक्ष्मरूपाणि पृथिव्यादीनि, ततो निषिद्धमेतत्-"यावज्जीवेत् सुखं जीवेत्" [ ] इत्यादि । ततस्तस्य तदात्मकत्वादिकल्पनं प्रयासमात्रमेव चार्वाकस्य संसारमोक्षयोस्तदर्थस्यानुष्ठानस्य च तथापि निषेधाभावादिति मन्यते । तस्मादित्यादयश्च व्याख्यानश्लोकाः यथेत्यादिना व्यवस्थापितस्यैवात्मनः तैर्व्याख्यानात् ।
१ -तदे-आ०, ब०, प० । २ -कि- आ०, ब०, प० । ३ -यानेति आ०, ब०, प० । ४ देहभूतसम्ब- आ०, ब०, प० । ५ ज्ञानस्य । ६ यावनी सुखं आ०, ब०, ५०। “यावनीवेत् सुखं जीवेन्नास्ति मुत्योरगोचरः। भस्मीभूतस्य देहस्य पुनरागमनं कुतः ।।"-ता०टि०।