________________
। ०-७१]
२ अनुमानप्रस्तावः मतान्तरमुपदर्शयति दूषयितुम्
कार्यकारणयोर्बुद्धिकाययोस्न निवृत्तितः ॥७॥
कार्याभावगते स्ति संसार इति कश्चन । इति ।।
कारणं हि कायो बुद्धेर्बुद्धिस्तु तस्य कार्य तद्भाव एव भावात् , धमादेरपि तत एवामिकार्यत्वात् । न च तत्कार्यमन्यतोऽपि यतस्तदभावेऽपि स्यात् । स्यादेव शालूकवत् । शालूकं हि ५ शालूकादिव गोमयादपि दृश्यते इति चेत् , न; तस्य तज्जन्मन: तदन्यतो वैलक्षण्यात् । बुद्धिरपि विलक्षणा तदन्यतः स्यादिति चेत् ; न, तस्या एवाप्रतिपत्तेः । शालूकवत् सम्भाव्यत इति चेत् ; धूमोऽपि पर्वतगत: किन्न तथा सम्भाव्येत ? दृष्टसदृशतयैवं तस्य प्रतीतेरिति चेत् , न, बुद्धावपि समानत्वात् । तादृश्येव तदन्यतोऽपि किन्न भवतीति धमोऽपि किन्न स्यात् ! तत्रैव तद्भावभावस्य नियमात् , अन्यत्राभावात्, भावे सोऽपि पावक . एव स्यात् तन्नियमाधिष्ठितस्यैव । तत्त्वात् । तदुक्तम् -
"अग्निस्वभावः शक्रस्य मूर्धा यद्यग्निरेव सः। अथानग्निस्वभावोऽसौ धूमस्तत्र कथं भवेत् ॥" [ प्र० वा० ३।३५ ] इति ।
अन्यतोऽपि तस्य भावे निर्हेतुकत्वमेव स्यात् तन्नियमादन्यस्य सहेतुकत्वनिबन्धनस्याभावात्, तस्य चातथात्वेनावस्थापनात् । तदप्युक्तम्
"धूमः कार्य हुतभुजः कार्यधर्मानुवृत्तिः।
सम्भवस्तदभावेऽपि हेतुमचां विलङ्घयेत् ॥" [प्र० वा० ३।३३ ] इति चेत् ; न; बुद्धावपि तुल्यत्वात् । तथा हि
कायस्वभावो यद्यन्यः काय एव तथा हि सः । अथाकायस्वभावोऽसौ बुद्धिस्तत्र कथं भवेत् ॥१४२१॥ बुद्धिः कार्यं हि कायस्य कायधर्मानुवृत्तितः ।
साऽसती तदभावेऽपि हेतुमत्तां विलङ्घयेत् ॥१४२२॥ ततः कायस्यैव कार्यं बुद्धिः । तथा च कार्यकारणयोर्बुद्धिकाययोः मध्ये तस्य कारणस्य निवृतितो विनिपातात् नास्ति संसारः कायान्तरसञ्चारः । कुतो नास्ति ? बुद्धेरवस्थानात् तस्या एव तदुपगमादिति चेत्; न; कार्यस्य बुद्धः अभावगतेः अभावप्राप्तेरभावनिर्णयाद्वा । न २५ हि कारणनिवृत्तौ कार्यस्यावस्थानमतत्कार्यत्वापत्तेः । इति एवं कश्चन चार्वाकविशेषोऽविद्धकर्णः । तत्रोत्तरमाह
तस्यापि देहानुत्पत्तिप्रसङ्गः [ अन्योन्यसंश्रयात् ] ॥७१॥ इति ।
तस्याप्यविद्धकर्णस्यापि न केवलं पुरन्दरादेः देहानुत्पत्तिः देहादनुत्पत्तिः पर्युदासेन तदन्यस्मादुत्पत्तिर्बुद्धस्तस्याः प्रसङ्गः प्राप्तिः । तथा हि-यथा निवृत्तेऽपि पावके धूमो धूमादेवोत्प- ३०
१ "अग्नेः सकाशादन्यत उत्पत्तिप्रकारेण"- ता० टि० । २ -तयैतस्य ता०। ३ अग्नेःस्वआ०, ब०, प०।
२०