________________
१०
१०२ न्यायविनिश्चयविवरगे
[ २०७२ द्यते तथा कायपरिपाते बुद्धिरपि बुद्धरुत्पद्येत किमवष्टम्भा तदुत्पत्तिः ? अनवष्टम्भे मुक्तत्वेन संसारविरहापत्तेरिति चेत्, आकाशावष्टम्भेन धूमस्येव भूतविशेषावष्टम्भेनेति ब्रूमः । तथा च सूत्रम्“विग्रहगतौ कर्मयोगः" [त० स० २।२५ ] इति । तदवष्टम्भविनाशे तद्विनाश इति चेत्; न, पुनरपि तदन्तरावष्टम्भेन तस्योत्पत्तेः । धूमवत् किन्न तस्य निर्मूला निवृत्तिरिति चेत्; न, धूमेऽपि तदसिद्धः, अकिञ्चित्करत्वेन तत्सन्तानावस्तुत्वापत्तेः निरूपितत्वात् । अनिवृत्तः किन्नोपलभ्यत इति चेत् ? न; सूक्ष्मरूपसमापत्तेः । सैव कथं स्थूलस्य विरोधादिति चेत् ? न; तथाऽपरिणामात् अग्निमतोऽनग्निमत्त्ववत् । ततः स्थितं बुद्धदेहानुत्पत्तिप्रसङ्ग इति । एतदेव स्पष्टयन्नाह—'अन्योऽन्यसंश्रयात्' इति । अन्यो मरणादूर्ध्वभावी संसारो बुद्धिविवर्तरूपः सोऽन्यसंश्रयादन्यः प्राच्य
एतत्संसारः तत्संश्रयात् कारणत्वेन तदाश्रयणात् । अथवा न भवत्युत्पत्तिर्यस्मात् असावनुत्पत्तिः देहश्चासावनुत्पत्तिः देहानुत्पत्तिः तत्प्रसङ्गोबुद्धदेहोऽनुत्पादक इति यावत् । तथा हि- न देहो बुद्धेरुत्पादको देहत्वात् मृतदेहवत् । तद्विशेष एव तस्या उत्पादकस्तत्रैव तद्भावभावनियमान्न तन्मात्रम् अग्निविशेषवद्धमस्य । न च तस्य तद्व्यभिचारस्तदयमप्रसङ्ग इति चेत्; कः पुनरसौ तस्य विशेषः ? प्राणापानपरिग्रह इति चेत्; सोऽपि कुतः ? तत एवेति चेत्, न, मृतेऽपि प्रसङ्गात् । प्रयत्नादिति
चेत्, न; तस्य बोधप्रदेशपरिस्पन्दादपरस्याप्रतिपत्तेः । भवतु स एवेति चेत्, न; तत्परिग्रहे देहात्प्र१५ यत्नोत्पत्तिस्ततश्च तत्परिग्रह इति परस्पराश्रयात् । तदेवाह-'अन्योऽन्यसंश्रयात्' इति । यदि वा
देहस्यैवानुत्पत्तिस्तत्प्रसङ्गः कारणाभावात् । पृथिव्यादिः कारणमिति चेत्, न; सर्वस्य देहरूपत्वापत्तेः । परिणामविशेषवानेव स तद्धेतुर्न सर्व इति चेत्, न, तद्विशेषस्यापि तत एव भावेऽतिप्रसङ्गस्यानिवृत्तेः । तत्रापि तदपरतद्विशेषकल्पनायामनवस्थानात् । अथ स्वभाव एवायं तस्य यदविशिष्टोऽपि
कश्चिदेव तद्धेतुर्न सर्व इति चेत्, कार्यस्यैवायं स्वभावो यदहेतुकमपि तत् क्वचित् कदाचिदेव भवतीति २० किन्न कल्प्यते ? तथा तदप्रतिषत्तेरिति चेत्; न; अविशिष्टमपि किञ्चिदेव कारणमित्यस्याप्यप्रतिपत्तेः ।
कथं वा पृथिव्यादिहेतुकत्वे तस्य बुद्धौ तद्भावनियमः, अन्यथा बुद्धेरप्यन्यहेतुकत्व एव काये तन्नियमः स्यात् । न चासौ तत्र नास्ति, 'बुद्ध्यपगमे गर्भगतस्यापि कायस्य गलनात् । अस्तु 'बुद्धेरेव तदुत्पाद इति चेत्, न; अन्योऽन्यसंश्रयात्-बुद्धिभावे ततः कायः कायाच्च तद्भाव इति । न सह
भाविन्या एव बुद्धः कायस्तस्य प्राग्भाविन्या एव भावात्, सापि कायवत्येव तत्त्वात्तदुत्तरबुद्धिवदिति २५ चेत्; तर्हि तत्कायस्यापि तथाविधप्राच्यबुद्धितो भावः, तत्राप्येवमिति सिद्धोऽनादिः संसारः, अनन्तश्च
पूर्वभवान्त्यबुद्धेरै हिकायकायस्य ऐहिकान्त्यबुद्धेरप्युत्तरभवाद्यकायस्य, तदन्त्यबुद्धरपि तदुत्तरभवाद्यकायस्य प्रादुर्भावात् । एतदेवाह
___ उत्तरोत्तरदेहस्य पूर्वपूर्वधियो भवः । इति । सुबोधमेतत् । उपसंहरन्नाह
अत एव विरुद्धत्वादलं [प्रायस्तथा भवात् ] ॥७२॥ इति ।
१ एव तत्सं- आ०,ब०, प० ।२ देहविशेष एव । ३ पृथिव्यादिः । ४ बुद्ध्युपगमे आ०, ब०, प० । ५ बुद्धि रेव आ०, ब०, प० ।