________________
२।७३-७४ ]
२ अनुमामप्रस्तायः . अलं पर्याप्तं बुद्धः कायकार्यत्वसाधनेन । कुतः ? विरुद्धत्वात्तत्साधनस्य । तदपि कुतः ? अत एव संसारानाधनन्तत्वविधेरेव ।।
संसाराभावविध्यर्थात् कायकार्यत्वसाधनात् ।
संसार एव सिद्धोऽयं तदलं तेन साम्प्रतम् ॥१४२३॥ भवतु संसारस्थानादित्वं कार्यस्य कारणाव्यभिचारनियमात्, नानन्तत्वं कारणस्य कार्यवत्त्वनिः ५ यमाभावात् प्रदीपादेश्चरमभाविनस्तद्विकलस्याप्युपलब्धेरिति चेत्, अत्राह—'प्रायस्तथा भवात्' इति । तथा पूर्ववत् पश्चादप्युत्तरोत्तरदेहस्य पूर्वपूर्वधियो भवः । कुतः ? भवात् जननात् । अयमों यद्यैहिकमरणचित्तं न देहान्तरमनुसन्दधीत कारणस्य कार्यवत्त्वनियमाभावात् तदा पूर्वभवान्त्यचित्तमपि नैहिकभवाद्यकायमन्वियात् तस्यापि तत्कारणत्वात्, तथा तत्पूर्वभवान्त्यबुद्धावपि वक्तव्यमिति भव एव न भवेत् । अस्ति च भवः ततः पूर्ववत् पश्चादपि तदनुसन्धानं तस्या वक्तव्यं ततो दुर्भाषितमेतत्- १० "नावश्यं कारणानि कार्यवन्ति भवन्ति" [ प्र० वा० स्ववृ० १।६ ] इति' । स्वयं च
___ "चित्तान्तरानुसन्धाने को विरोधोऽन्त्यचेतसः" [प्र० वा० १।४७ ] । इति मरणचित्तस्य चित्तान्तरानुसन्धानं बुवन्नेव नावश्यमित्यादिकमप्यभिधत्त इति सत्यं भङ्गुरप्रज्ञो धर्मकीर्तिः । यद्येवं न कस्यचिन्निर्मुक्तिः, बुद्धिमात्रस्य देहानुसन्धाननियमादिति चेत् ; न, प्रायस्तदभ्युपगमात् । नहि सर्वस्य बुद्धितत्त्वस्य तन्नियमः; क्लेशकर्मानुविद्धस्यैव तत्प्रतिपत्तेः । १५
तदनुव्याधवैकल्ये तु बुद्धिर्बुद्धिमेवानुसन्धत्ते न देहमिति कथं निर्मुक्त्यभावः ? किञ्च', कायः कारणमात्रम् , तद्विशेषो वा बुद्धेः ? तन्मात्रमिति चेत् ; न तर्हि तन्निवर्तमानमपि कार्यस्य बुद्धेः सत्त्वं निवर्तयति; निवृत्तेऽपि सहकारिणि कार्यस्यावस्थितिप्रतिपत्तेः, यथा मृतेऽपि स्थपती प्रासादगोपुरादेः । इदमेवाह
तन्न कारणमित्येव कार्यसत्तानिवर्तकम् ।
स्वनिवृत्तौ तथा तक्षो गोपुराहालकादिषु ॥७३॥ इति । "प्रतीतव्याख्यानमेतत् । भवतु परिणामित्वेन कारणविशेष एव स तस्या इति चेत् ; अत्राह
युगपद्भिन्नरूपेण बहिरन्तश्च भासनात् ।
न तयोः परिणामोऽस्ति यथा गेहप्रदीपयोः ॥७४॥ इति । २५ तयोर्बुद्धिकाययोः परिणामो विवर्तभावो बुद्धः विवर्तिभावश्च कायस्य, स नास्ति । कुतः ? युगपत् एककालं भिन्नरूपेण अमूर्तिज्ञानादिमत्त्वेन बुद्धः वर्णादिमत्त्वेन कायस्य भासनात् । नहि
१ "नाकारणानि तद्वन्ति वैकल्यप्रतिबन्धसम्भवात्”–प्र० वा० स्ववृ० । “नावश्यं कारणानि कार्यवन्ति भवन्तीति न्यायात्'- प्र० वार्तिकाल० २।२। २ भुक्तिमात्र- ब०, प० । ३ "तदनुविद्धतावैकल्ये । - ता० टि०। ४ “कार्यकारणयोर्बुद्धिकाययोरित्यायुक्तं पूर्व चार्वाकेण तत्र विकल्पद्वयपूर्वक दूषणमाह"- ता० टि० । ५ "तन्निवृत्तितः कार्याभावगते स्ति संसार इति चार्वाकेण प्रागुक्तमयुक्तमित्यर्थः।"- ता० टि०।