________________
न्यायविनिश्चयविवरणे
| २७५-७६ परिणामे' तथा भासनमुपपन्नं मृच्छिवकयोः परस्पराभेदेनैव प्रतिभासावलोकनात् । पिण्डशिवकयोः क्रमेण रूपभेदेन प्रतिभासेऽपि परिणामसद्भावात् व्यभिचार इति चेत्, न; युगपद्ग्रहणेन तद्व्यवच्छेदात् बहिः शरीरमन्तर्बुद्धिरिति देशभेदेन प्रतिभासनाच्च न तयोः परिणामः । यथेत्यादिकमुभयत्रापि दृष्टान्तः । स्पष्टश्चायम् । अतश्च न तयोः परिणाम इत्याह--
प्रमितेऽप्यप्रमेयत्वाद्विकतेरविकारिणि । *निर्हासातिशयाभावानि हाँसातिशये धियः ॥७॥ बलीयस्यबलोयस्स्वाद्विपरोते विपर्ययात् । ..
काये [तस्मान्न ते तस्य परिणामाः सुखादयः ] ॥७६॥ इति ।
प्रमितेऽपि परेण प्रत्यक्षप्रतिपन्ने ऽपि काये अप्रमेयत्वात् अपरिच्छेद्यत्वात् धियो बुद्धेः १० नासौ तस्य विवर्तः । न हि विवर्तिनः प्रतिपत्तौ विवर्तस्याप्रतिपत्ति: स्वर्णप्रतिपत्तौ रुचकादेरवश्यं
तया प्रतिपत्तेः । अविकारिणि विकारविकले काये विकृतेर्विकरणाच्च । न ह्युपादानविकारमन्तरेण तदुपादेयस्य विकारः, सत्येव कुतश्चित्तन्तुविकारे पटविकारस्योपलम्भात् । न चैवमत्र, शास्त्रश्रवणादिना बुद्धिविकारस्य अविकृत एव शरीरे दर्शनात् । विकृतेऽपि तस्मिन् दृश्यत एव तद्विकारो मृष्टत
राहाराभ्यां देहस्यानुग्रहोपसङ्घातयोः बुद्धावपि प्रीतिपरितापयोरुपलम्भादिति चेत्, न; सौमनस्य१५ दौर्मनस्याभ्यामेव तद्भावात्, तदभावे सतोरपि तयोस्तदप्रतिपत्तेः । विपर्ययदर्शनाच्च, दृश्यते हि
तदनुगृहीतदेहस्यापि इष्टानवाप्तौ परितापः, तद्विपरीतस्य चाभ्यस्तशास्त्रहृदयनिर्णयादपरिमिता प्रीतिः । कथं तर्हि चक्षुरादिविकारे तद्विकारः ? दृश्यते हि काचकामलादिना विकृते चक्षुरादौ बुद्धरपि मन्दप्रतिभासविभ्रमादिरूपो विकार इति चेत्, न; तस्यापि चित्तविकारादेव शक्ति वैगुण्यलक्षणादुत्पत्तः,
प्रगुणशक्तिकत्वे चित्तस्य सत्यपि तद्विकारे सत्यस्वप्नवदवितथस्पष्टावभाससंवित्तरप्रतिषेधात् । किमिदानीं २० विकृतेन चक्षुरादिनेति चेत् ? न, तस्य तत्र कारणमात्रत्वात् अविकृतवत् । न हि तस्य तन्मात्रत्वं
प्रतिषिद्धयते, शरीरवदुषादानत्वस्यैव प्रतिक्षेपात् । अनुपादानत्वे कथं तन्निवृत्त्या बुद्धिनिवृत्तिरिति चेत् ? न, तया गवाक्षनिवृत्तिवत् बुद्ध रूपाद्याभिमुख्यस्यैव विवर्तनान्न स्वरूपस्य, अन्यत्र वृत्तिदर्शनात् । अन्यैव सा बुद्धिरिति चेत्; कथमेवं प्रतिविषयं बुद्धिभेदे कर्कटीभक्षणादौ 'रूपादिकं युगप
दहमेवानुभवामि' 'य एव रूपमुपलप्सि स एवाधुना स्पर्शादिकमुपलभे' इति च प्रतिसन्धानं सन्ता२५ नान्तरवद्भेदे तदनुत्पत्तेः । तदपि विकल्पादेव कुतश्चिन्नेन्द्रियबुद्धीनामन्योऽन्यतादात्म्यात्, प्रतिभासभेदेन
तदनुषपत्तेरिति चेत्, न, विकल्पकेऽपि तदविशेषात् परस्परविकल्पलक्षणरूपादिपरामर्शभेदाधिष्ठानत्वात् । तथापि तदेकत्वे तबुद्धीनामपि स्यादविशेषात् । ततो युक्तं विकृतेरविकारिणीति । तथा निर्हासातिशये शरीरस्य व्याध्यादिरसायनादिना क्षयपरिपोषणप्रकर्षे घियस्तदतिशयाभावाच्च नासौ तस्य परिणामः । न हि शरीरस्य निर्हासो बुद्धिमन्वेति पुष्टिा, कृशतरशरीराणामपि सातिश
१परिणामेन ब०, प० । २खण्डशिव-ब०प०।३ तुलना-तत्त्वसं० का०१९३४ । तत्त्वसंपं० पृ० ५२७ । ४ तुलना-प्र० वा० २।७३ । अकलङ्क टि०पृ० १६३ । ५ चक्षुरादेः । ६ कृतश- ब०प० ।