________________
२।७७] २ अनुमानप्रस्तावः
१०५ यप्रज्ञानां महाकायानामपि मतङ्गजादीनामल्पप्रज्ञानामवलोकनात् । बलीयसि च करिवराहादीनां काये तस्या अबलीयस्त्वात् विपरीते चाबलीयसि स्त्रीबालादीनां विपर्ययात् बलीयस्त्वात् स्थितिसारत्वात् न तस्यास्तद्विवर्तत्वम् । उपसंहरन्नाह-तस्मान्न ते तस्य परिणामाः सुखादयः इति । स्वपदव्याख्यातमेतत् । यत्रापि परिणामतद्वद्भावो घटकपालादौ तत्रापि प्रमितेऽपीत्यादि विद्यते ततो व्यभिचार इति चेत; आह
एतदत्र घटादीनां न तु जातुचिदीक्ष्यते । इति । एतत् प्रमितेऽपीत्यादि अत्र लोके घटादीनां परिणामतद्वद्भावेन प्रसिद्धानां न तु नैव जातुचित् कदाचित् ईक्ष्यते दृश्यते । ततो न व्यभिचार इति भावः ।। अथ गुणदूषणमत्राप्यतिदिशन्नाह
तुल्यश्च गुणपक्षेण [ तत्तथा परिणामतः ] ॥७७॥ इति । १० सदृशश्चायं गुणपक्षेण परिणामपक्षस्ततो यथा तत्रोक्तं 'न हि ज्ञानात्मना' इत्यादि तथा अत्रापि वक्तव्यम्-'न हि ज्ञानात्मना क्वचित् शरीरग्रहणं येन तद्विवर्तः प्रकल्प्यताम् ।' इति । निगमयति-तत्तथाऽपरिणामतः' इति । तत् तस्मात् अपरिणामतो धियः कायविवर्तत्वाभावात् सा तथा तेन 'संसरेत्' इत्यादिना प्रकारेण भवति । किञ्च, परलोकिनमात्मानमनिच्छतश्चार्वाकस्य कुत इदं संसारवैचित्र्यम्-कस्यचिद्विकृतमिन्द्रियं दुर्भगसंस्थानं संहननं दुःखप्रचुरं जीवनम् अन्यस्या- १५ विकलं चक्षुरादि मनोनयनाभिरामं शरीरसंस्थानमभिनन्दनीयश्च जीवनम् अपरस्य तदुभयप्रकारशबलमिति ? न चेदं दृष्टादेव कारणात्, सर्वत्र व्यभिचारात् इष्टाहारविहारसेवाकृष्यादौ समानेऽपि क्वचिदिन्द्रियविकारादेरन्यत्र तद्विपर्ययस्य च प्रतिपत्तेः । स्वभावत एव 'सत्त्वज्ञेयत्वादेर्जलबुदधुदवदिति चेत्, कस्यासौ स्वभावः ? तद्वैचित्र्यस्येति चेत्, न; अनुत्पन्नस्य तदभावात् । उत्पन्नस्येति चेत्, न; उत्पत्तौ स्वभावस्ततश्चोत्पत्तिरिति परस्पराश्रयात् । तत्कारणस्य पृथिव्यादेरिति चेत्, न, २० ततोऽप्येकस्वभावादेकप्रकारस्यैव निकायस्योत्पत्तिप्रसङ्गात् । न चैवम् , वरिश्र(षा,स्रावणाशुद्धादप्यम्भसः परिवासितात्कस्यचिदारक्तशिरसोऽपरस्य पीतमस्तकस्यान्यस्याल्पवपुषोऽपरस्य विपुल. विग्रहस्य जीवनिवहस्य प्रादुर्भावप्रतिपत्तेः । न ोकस्वभावात् पद्मादिबीजाद्विचित्रस्तत्प्रसवो दृष्टः । नापि तत्र स्वभावभेदः; प्रत्यक्षतोऽप्रतिपत्तेः । तद्वैचित्र्यादेवानुमीयत इति चेत्; न; तस्यापि सम्भूर्य इति कार्यमुपयोगे तदाकारवर्णसाकर्यस्याबुद्धिगोचरस्य प्रसङ्गात् । कस्यचित्वचिद्व्यापारे निया- २५ मकं वक्तव्यं तदन्तरेण तदसम्भवात् । तद्त एवान्यस्तद्भेदो नियामक इति चेत्, न; तत्राप्यन्यतस्तझेदान्नियमकल्पनायामनवस्थानदोषात् । नायं दोषः; पूर्वपूर्वस्मादुत्तरोत्तरस्य नियमादनादित्वात् तत्प्रबन्धस्येति चेत्: आगतं तर्हि तद्विषयस्य जीवस्याप्यनादित्वं विषयिणस्तस्य तदभावेऽनुपपत्तेरिति सिद्धो नः सिद्धान्तः-जीवस्य परलोकिनोऽप्रतिक्षेपात्, तस्य च कर्मण एव तद्वैचित्र्यात्, तदनुबन्धिनः
१ सत्त्वज्ञ यत्वादेः' इति पदं सम्पातादायातमिति भाति । २ परिश्रवणाशु- आ०, ब०, प० । वर्षापतितात् शुद्धाजलात् । ३ तुलना- "तथाहि रक्तशिरसः पीतकायादयः परे । जलादिप्राणिनो दृष्टाः स अाकारः कुतो भवेत् ।।" -प्र. वार्तिकाल० ११३७ । ४ मिलित्वा कार्य प्रत्युपयोगे ।