________________
न्यायविनिश्चयविवरणे
पृथिव्यादिस्वभावभेदप्रबन्धस्यैव कर्मत्वेनास्माभिरभिधानात् । एतदेवाह - अक्षादीनां विकारोऽयमात्मकर्मफलं भवेत् । अन्यथा नियमायोगात् [ प्रतीतेरपलापतः ] ॥७८॥ इति । अक्षाणामिन्द्रियाणाम् आदिशब्दः पाणिपादादीनां विकारो मन्दाविल कुणिखञ्जादिः अयं ५ प्रतीयमानः । उपलक्षितमिदं तेन लाभालाभसुखदुःखादिरपि आत्मनो यत् कर्म तस्य फलं कार्यं भवेत् । अन्यथा तत्फलत्वाभावप्रकारेण नियमस्य कस्यचिदेव कश्चित् तद्विकारादिः न सर्वस्येत्यवधारणस्य अयोगात् सर्वस्यापि तत्प्राप्तेः ।
अत्रैव हेत्वन्तरमाह - 'प्रतीतेरपलापतः' इति । प्रतीतिः कर्मविषया आनुमानिकी बुद्धिः तस्या अपलापतोऽपह्नवाच्च स तत्फलमिति सम्बन्धः । तथाहि ' तदहर्जातस्य तद्विकारादिः जीव१० शरीरव्यतिरिक्तजीवसम्बन्ध ( द्ध ) द्रव्यान्तरपूर्वकः तत्त्वात् विषमाहाराद्युपयोगजनितद्विकारवत् । न मन्त्रादिनिमित्तेन तेन व्यभिचारः, तस्यापि द्रव्यान्तरसम्बन्धे सत्येवोपपत्तेः, अन्यथा न कचित्तद्व्यभिचारः स्यात् । न चैवं मन्त्रादेर्वैयर्थ्यम्, तस्य तत्सहकारित्वात् कृप्यादिवत् । यच्च तद् द्रव्यान्तरं तत्कर्म शुभमशुभचेति । कथमियमानुमानिकी तत्प्रतीतिः स्वाभाविकतद्विकारवादिभिर्नापलप्येत : न च तदपलापे क्षणमपि जीवनम् पृथिव्यादेरप्यव्यवस्थितिप्रसङ्गात् । ननु यदि तस्य पृथिव्यादिकार्यस्याहेतुत्वं तेंदोक्तनीत्या कर्मफलत्वम् । तदेव तु मा भूदिति चेत्; किन्निमित्तं तर्हि तत् स्यात्, निमित्तस्याभावात् ? कार्यमषि तन्नेति चेत्; कथं देशादिनियमः ? स्वभावादेव मयूरचित्रादिवदिति चेत न, तस्यापि मयूरादिहेतोरेव भावात् तदन्वयव्यतिरेकनियमात् तल्लक्षणत्वादन्यत्रापि हेतुफलभावस्य । कथं पुनश्चित्रकारादिनिमित्तं तत् अन्यत इति चेत् न, वैलक्षण्यत् । क्ष चित्रकारादिनिमित्तात् ततो मयूरचित्रादि, तत् कथं तस्य तदन्यतो भावः ? स्वाभाविकत्वे वा चैतन्यस्यापि निषिद्धमेतत्–“तेभ्यश्चैतन्यम्” [ ] इति । तस्मात् स्वभावकल्पनायां सामर्थ्यस्य
१५
"
युक्तिरूपस्याभावात् कर्मफलमेव तद्वैचित्र्यम् । तदेवाह -
कल्पनायामसामर्थ्यात् इति ।
तदेवं तदहर्जातस्य परलोकित्वे कर्मसिद्धया सिद्धे यत् सिद्धं तदाह
२०
१०६
[ २२७८-७९
२५
ततस्तद्विकृते ऋते ।
पारम्पर्येण साक्षाच्च नास्ति विज्ञानविक्रिया ॥७६॥ इति । ततस्तस्माद्विज्ञानस्य रूपादिविषयस्य विक्रिया मन्दाविरुत्वादिः उपलक्षणमिदं तेन प्रीतिपरितापादिश्च नास्ति न भवति । कुतः ? तद्विकृतेः तस्यात्मनो विकृतेर्विकारात् दौर्मनस्यादि - लक्षणात् ऋते विना । तस्यां तु भवति । तस्याः कर्मफलत्वात् कथं तद्विक्रियातो भाव इति चेत् ? उत्तरम् - पारम्पर्येण इति । तात्पर्यमत्र - कर्मापि तद्विकृतेरेव विज्ञानविक्रियादिनिबन्धनत्वात् उपयुक्त
१ तथापि आ०, ब०, प० । २ तू स्वकृष्या - आ०, ब०, प० । ३ अनुमानापलापे । ४ तयोक्त- प० । तथोक्त- ब०, आ । ५ धर्मसि - ताः ।