________________
१०७
२२८०]
२ अनुमानप्रस्तावः मदिरादिवत् । प्रसिद्धं हि मदिरादेस्तदभिलाषादिपुरुषविकारोपनिबन्धनत्वमिति न वैकल्यं साध्यस्य । नापि साधनस्य; ततो विज्ञानविकारादिप्रतिपत्तेः । ततः पारम्पर्येण तद्विकृतेरेव सा इति, ततः सिद्धा तदहर्जातस्य तस्य पौर्वभविकी विकृतिः इह तदप्रतिपत्तेरिति । न केवलं पारम्पर्यात् अपि तु साक्षाच्च अव्यवधानाच्च । तस्या ऋते न तद्विक्रिया । शोकविषादादेः साक्षादपि तस्याः प्रतिपत्तेः तदापि कर्मभावात् । ततः सा किन्नेति चेत् ? क एवमाह-नेति , शोकादेरपि कर्मसहकारिण एवं भावात् । ५ तन्न शरीरपरतन्त्रोऽपि जीवः तदुपरमेऽप्यवस्थानात् तदहर्जातवत् । कुतो वा तस्य तत्परतन्त्रत्वम् ? तद्धेतुत्वादिति चेत् ; न; ततः केवलादुत्पत्तौ मृतेऽपि प्रसङ्गात् । इन्द्रियसहायादिति चेत् । इन्द्रियाणामपि समुदायेन तत्सहायत्वम् , प्रत्येकं वा ? प्रथमविकल्पं निराकुर्वन्नाह
कारणं नाक्षसङ्घातस्तत्प्रत्येकं विना भवात् । विकल्पानां[विशेषाच्च तत्तदति विरोधतः ] ॥८०॥ इति । १०
अक्षाणां चक्षुरादीनां सङ्घातः समुदायः शरीरसहकारित्वेन न कारणम् । केषाम् ! विकल्पानां मनोविज्ञानानाम् । तेषामेवान्वितकमाणां जीवत्वाज्जीवस्येति गम्यते । कुतो न कारणम् ? तत्प्रत्येकं तद् अक्षं प्रत्येकम् एकं विना अन्तरेण भवात् उत्पत्तेर्विकल्पानाम् । नहि सङ्घातकार्य तदभावे युक्तम् । न च सङ्घातिनामन्यतमापाये सङ्घातः, तस्य तत्साकल्यरूपत्वात् । भवन्ति च प्रत्येकं तदभावेऽपि विकल्पाः, अन्यथा अन्धादीनां मरणापत्तेः । भवतु १५ प्रत्येकमेव तत् तेषां तत्सहायतया कारणमिति चेत् , तदपि न नियतविषयतया, तदप्रतिपत्तेः । न हि नियतविषया विकल्पाः प्रतीयन्ते, रूपादिपञ्चकपरामर्शात्मतयैव तेषां प्रतिपत्तेः । ताहशामेव तथा' 'तत् कारणमिति चेत् ; अत्राह-'विशेषाच्च' इति । अत्र 'तत्प्रत्येकम्' इति 'न कारणम्' इति चानुवर्तते । ततोऽयमर्थः-तदिन्द्रियं प्रत्येकं तेषां न कारणम् । कुतः ? विशेषात् । शेषस्याभावो विशेषम् , अर्थाभावेऽव्ययीभावः, तस्मात् , शेषेन्द्रियाभावप्रसङ्गादिति यावत् । तथाहि -
एकस्मादेव चेदक्षात् रूपादिविषया इमे । विकल्पा व्यर्थमेव स्यात् । तदन्याक्षप्रकल्पनम् ॥१४२४॥ न चैवं कश्चिदन्धादिजीवो भवितुमर्हति ।
चशब्देनैतदेवाह शास्त्रकारः परोत्तरम् ॥१४२५॥
स्यान्मतम्--अक्षान्तरं तेषां तत्त द्विषयाभिमुख्यार्थमतो व्यर्थमिति; तन्नः तस्यापि . तदनन्तरत्वेन प्रकृतादेवाक्षादुषपत्तेः, अन्यथा विवक्षिताभिमुख्यमपि ततो ' न भवेत् । भवतु मनोमात्रमेव तत इति चेत् ; न, विषयाभिमुख्यविकलस्य तस्याप्रतिपत्तेः । तन्न कायकार्यत्वं तेषामिति न युक्तमेतत्-“मदशक्तिवद्वि ज्ञानम्" [ ] इति । मदशक्तौ गुडादिकार्यत्ववद्विज्ञाने शरीरकार्यत्वस्याभावात् । कथं पुनः कायेन सह अतत्परतन्त्र
१ -रादावपि प्र- आ०,ब०, प० । २ पूर्वभाविक- आ०, ब०, प० । ३ भूतेन आ०, ब०, प० । ४ एव तन्न ता०। ५ जीवस्य । ६ जीवहेतुत्वात् शरीरस्य । ७ इन्द्रियाभावेऽपि । ८ इन्द्रियम् । ५ विकल्पानाम् । १० इन्द्रियम् । ५१ तावदक्ष- आ०, ब०, प० । १२ तद्वि-प० ।
२०