________________
१०८
न्यायविनिश्वयविवरणे
[ २२८९
स्यावस्थानमिति चेत् ? न; उक्तोत्तरत्वात् - 'आत्मकर्मफलं भवेत्' इति । न च पारतन्त्र्यादेव सहावस्थानम् पृथिव्यादिषु चक्षुरादीनां तदभावेऽपि तद्भावात् । उपसंहरति- 'तद्वति विरोधत: " इति । तत् तस्मात् तद्वति अक्षवति शरीरे निमित्ते विरोधतो विकल्पोत्पत्तेविरोधात् " तद्विकृतेः' इति सम्बन्धनीयम् । अथवा विकल्पानां विशेषाद् अभियोगोपनीतादतिशयात् । चेति भावनायाम् । ५ तेषामक्षसङ्घातः तदक्षं प्रत्येकं वा न कारणम् । सोऽपि तद्विशेषादेवेति चेत्, आह- 'तचद्वति' इति । 'विना भवात्' इत्येतदत्र द्रष्टव्यम् 'विशेषात् ' इति च । तदयमर्थः - तच्चाक्षं तद्वच्च शरीरं तत्र विशेषात् विना भवात् तेषाम्, विशेषस्येति विभक्तिविकारेण सम्बन्धः । न हि तद्विशेषोत्पत्तौ अक्षे शरीरे वा विशेषनियमो प्रच्युतप्राच्या कारेऽपि तस्मिंस्तदुपलम्भात् । भवत्वेवं तथापि तस्य तदेव कारणमिति चेत्; न; विरोधतः । विरुद्धं हीदम् - अविशिष्टेऽपि कारणे कार्यं विशिष्यत १० इति, विशिष्टादेव तत्वादेः पटादिप्रतिपत्तेः । ततः सजातीया देवाभियोगसंस्कृतात्तस्योत्पाद इति युक्तमेतत् - ' तद्विकृतेः' इत्यादि ।
1
अत्रैव हेत्वन्तरमाह
जातिस्मराणां संवादादपि [ संस्कारसंस्थितेः ] । इति ।
जातेः पूर्वभवस्य स्मर्तारो जातिस्मराः तेषां संवादः अविप्रतिसारः तस्मादपि, न केवलं
१५
पूर्वस्मादेव हेतोः तद्विकृतेरित्यादि (देः) । जातिस्मरत्वे कारणमाह - 'संस्कारसंस्थितेः' इति । संस्कारस्य पौर्वभविकानुभवनिबन्धनस्य स्मरणहेतोः धारणाज्ञानस्येहापि जन्मनि सम्यग वैपरीत्येन स्थितेः । जातिस्मरा एव नोपलभ्यन्ते तत्कथं तेषां संवाद इति चेत् न; प्राग्भावीयस्य बन्धुभृत्यादेर्निक्षेष | देश्च कैश्विदपि दर्शनात्, तदहर्जातस्य च जातिस्मरत्वाभावे स्तनादौ प्रवृत्तेरनुपपत्तेः ।
तदापि तदभावकल्पनायां दूषणमाह
अन्यथा कल्पयन् लोकमतिक्रामति केवलम् ॥ ८१ ॥ इति ।
अन्यथा अन्यथात्वं भावप्रधानत्वान्निर्देशस्य, तच्च जातिस्मराणामजातिस्मरत्वमेव तत्कल्पयन् प्रतीत्यपलापेन संपादयन् चार्वाको लोकं जीवनिकार्यं भूतचतुष्टयं वा अतिक्रामति अपह्नुते केवलं नापरं करोति । नहि तदपलापः क्वचिदेव शक्यनियमो यतो जातिस्मरवन्न लोकेऽपि स्यात्, ततः तस्याप्यतिक्रमात् लोकायतत्वमस्य नश्यति, लोकबुद्ध्यनुगम एवं तत्त्वोपपत्तेरिति मन्यते । ततो लोकवज्जातिस्मराणामपि प्रतीतिभावेनानतिक्रमात् सिद्धस्तत्संवादः । प्रतीतिश्च तेषामनुमानात्, तथाहि-- तदहर्जातस्य स्तनादौ प्रवृत्तिः तदभिलाषात्, सापि स्तनादेरभिलषितार्थनियमितत्ववितर्कात्, स च तेनायं समान इति प्रत्यभिज्ञानात्, तदपि स्मरणात्, तदप्यनुभवात्, प्रवृत्त्यादित्वात् 'अवलग्नप्रवृत्त्यादिवत् । न चेहजन्मनि तदहर्जातेन स्तनादिरपरस्तथाभूतो दृष्टोऽस्ति यतो ऽनुस्मरणादिक्रमेण तत्सदृशे प्रवृत्तिः । ततः पौर्वभविकस्यैव तस्य तेन स्मरणमिति कथन्न जातिस्मराणां संवादः ? ३० एतदेवाह—
२०
२५
१ तत्प्रकृते - आ०, ब०, प०। २ तथापि आ०, ब०, प० । ३संवादयच्चा - प०। ४ एवात - आ०, ब०, प० । ५ मध्यावस्थाकालीन प्रवृत्तिवत् । "मध्यमञ्चावलग्नञ्च मध्योऽस्त्री द्वौ परौ द्वयोः । - इत्यमरः । " - ता०टि० ।