________________
२।८२-८४]
२ अनुमानप्रस्तावः नाऽस्मृतेरभिलाषोऽस्ति न विना सापि दर्शनात् ।।
तद्धि जन्मान्तरान्न [ अयं जातमात्रेऽपि लक्ष्यते ॥८२॥ इति ।
अस्मृतेः स्मरणाभावात् उपलक्षणमिदं तेनाप्रत्यभिज्ञानानूहाच्चेति द्रष्टव्यम् । ततो नाभिलापोऽस्ति स्मृत्यादेरेवास्तीत्यर्थः । सापि स्मृतिर्न विना दर्शनात् दर्शनादेवास्ति । तद्धि तदपि दर्शनं जन्मान्तरात् न विना जन्मान्तरादेव पूर्वभवभाविनश्चक्षुरादेर्भवति । ततोऽभिलाषादेर्दर्शन- ५ पर्यन्तस्य तर्कादेरनुमितिरविनाभावनियमनिश्चयात् अवलग्नदशावदिति सिद्धो जातिस्मराणां संवाद इति मन्यते । तदहर्जातस्याभिलाष एव नास्ति तत्कुतस्तदनुमितिरिति चेत् ? अत्राह-'अयं जातमात्रेऽपि लक्ष्यते' इति । जात एव जातमात्रः तस्मिन्नपि न केवलं चिरजीविते अयमभिलाषो लक्ष्यते प्रवृत्तेर्लिङ्गात्प्रतीयते,तस्याः तत्पूर्वकत्वेनात्मनि प्रतिपत्तेः ततोऽस्ति तदनुमानमिति भावः । सत्यं लक्ष्यते, स तु न पौर्वभविकादनुभवाद्' अपि तु गर्भभाविन एव । तदाह
गर्भे रसविशेषाणां ग्रहणादिति कश्चन । इति । .. 'कश्चन' इत्येतद्वक्ष्यमाणात् 'प्रवर्तितः' इत्यतः परं द्रष्टव्यम्, तत्रैव च व्याख्येयम् । इतरद्व्याख्यायते-गर्भस्तदाधारत्वात् गर्भाशयस्तस्मिन् रसविशेषाणां माधुर्यादीनां ग्रहणाद् अनुभवान्न पूर्वभवे 'जातमात्रेऽयं क्वचिल्लक्ष्यते' इति सम्बन्धः । तत्रापि तद्ग्रहणमभिलाषादेव स च प्राग्भवीयादनुभवादिति सिद्धयत्येव सं इति चेत् ; अत्राह
तदादावभिलाषेण विना जातु यदृच्छया ॥८३॥ इति । तद् रसविशेषाणां ग्रहणम् आदौ गर्भगतस्य प्रथमसमये अभिलाषेण काझ्या विना 'जातु' इत्यवधारणेति निपातत्वात् । कथं तर्हि तद्ग्रहणम् ? यदृच्छया काकतालीयेन मात्रा भुक्तानां तेषां प्रतिस्रोतः स्वत एव प्रवेशादिति यावत् । ततः परं कथमभिलाष इति चेत् ? आह
तत्संस्कारान्वयेक्षत्वाद्भूयो भूयः प्रवर्तितः। इति ।। तस्य तद्ग्रहणस्य संस्कारस्तत्कृता धारणा स चान्वयोऽनुगमः स च संस्कारस्यैव अन्यस्याश्रुतेः, तस्मिन् सति ईक्षत्वमवेक्षितृत्वं तत्संस्कारान्वयेक्षत्वं तस्मात् भूयो भूयः पुनः पुनः प्रवर्तितोऽभिलाषः प्रवृत्तिमानिति यावत् । प्रवर्त्तशब्दात् प्रवृत्तिवाचिनः "तारकादिभ्य इतः" [ शाकटा०३।३।१।४ ] इति प्रवर्तित इति रूपात् । एतदुक्तं भवति-गर्भगतस्य प्रथमं यदृच्छया तद्ग्रहणं पुनस्तत्संस्कारात भूयो भूयस्तत्राभिलाषो गर्भनिष्क्रान्तस्य तु तदन्वये सति विषयदर्शित्वादनुस्मरणा- २५ दिक्रमेणेतीत्येवं कश्चन चार्वाकः । तत्रोतरमाह
कोशपानं विधेयं [ न समं भूयस्तथा दृशः ] ॥८४॥ इति । कोशस्तन्नि लितं जलं तस्य पानं विधेयं विधातव्यम् , अस्यार्थस्य प्रत्यक्षतोऽप्रतिपत्तेः ।
१-नुमानाद-आ०, ब०, प० ।२ गर्भऽपि । ३अभिलाषः । ४ प्राग्भवः। ५ जात्ववधारणेति नि- आ०, ब०, प० । ६ प्रवर्तते आ०, ब०, प० । ७ इति प्रेतप्रवर्तित प्रा०, ब०, प०।८-तं. तस्य आ०, ब०, प० ।