________________
न्ययविनिश्चयविवरणे
[२१८५-८६ न हि गर्भगतः प्रत्यक्षादेवं प्रत्येति 'यदृच्छया मे रसादिग्रहणम्' इति कोशपानस्यैवात्रापि शरणत्वात् मात्रादेरेवमव्यवहारात् । न च प्रत्यक्षाभावेऽनुमानम् ; तस्य तत्पूर्वकत्वात् । भवतोऽपि समानमिदं गर्भगतस्यापि पौर्वभविकादेवानुभवादेः स्मरणादिरित्यत्रापि प्रमाणाभावादिति चेत् ; आह-'न समं भूयस्तथादृशः' इति । न समं न सदृशं कोशपानं विधेयमिति । कुतः ? भूयः प्राचुर्येण तथा तेन 'दर्शनात् संस्कारस्ततः स्मृतिः' इत्यादिना प्रकारेण दृशो दर्शनादवलग्नवेलायाम् । तदुक्तम्
"अक्षज्ञानेरनुस्मृत्य प्रत्यभिज्ञाय चिन्तयन् ।
आभिमुख्येन तद्भेदान् विनिश्चित्य प्रवर्तते ॥" [सिद्धिवि०परि०१] इति । ततः प्रागपि तथैवासौ प्रतिपत्तव्यः, अन्यथा, हेतुफलभावस्य' क्वचिदपि निर्णयनियमाभावात् कथं जलादावपि पानाधर्थिनां प्रवृत्तिः ? कथं वा शुभाशुभकर्माभावनिर्णयेन 'निरारेकं वैरिवधाभिला१० षिणां नास्तिकशास्त्रोपादानं यत इदं सूक्तं भवेत्
"इदममरगुरुर्जगौ महात्मा सुरपतये किल वृत्रनाशनाय ।" [ ] इति ।
ततः स्थितं भूयोदर्शनबलाद्गर्भगतस्यापि स्मरणादिरनुभवादेरेवेति । ततो न युक्तं शालूकदृष्टान्तेन तस्यानुभवादेरन्यतोऽपि भाव इति, चैतन्यस्यापि कायादिवान्यतोऽपि भावप्रसङ्गात् । शालू. कस्य च शालूकेतरजन्मनो वैलक्षण्यात् स्मरणादेश्च तदभावात् ।
पुनरपि गर्भ इत्यादि निराकुर्वन्नाह
रूपादिदर्शनाभावात् तत्सम्बन्धस्मृतिः कथम् । इति ।
रूपं स्तनादिगतमादिर्यस्य तत्कार्यस्य क्षीरादेस्तस्य दर्शनं तदभावो गर्भे तस्मात् । तयो रूपतत्कार्ययोः सम्बन्धोऽविनाभावस्तस्य स्मृतिः स्मरणं गर्भनिष्क्रान्तस्य कथम् ? न कथञ्चित् । न हि
दृष्टेऽपि स्तनादौ प्रागदृष्टस्य तस्य स्मरणम्, नालिकेरद्वीपादागतस्य धूमे पावकसम्बन्धवत् । सापि २० माभूदिति चेत् ; न; प्रवृत्तिदर्शनात् । गर्भेऽपि रूपादिदर्शनमस्तीति चेत्, न; तत्र स्तनादेरभावात् , नयनादिव्यापाराभावाच्च । तदेवाह
नावश्यं चक्षुरादोनां सर्वत्रोन्मीलनादयः ॥८॥ इति ।
चक्षुरादीनामादिपदात् जिह्वादीनाम् उन्मीलनादय आदिशब्दात् उच्चर्वणादयश्च नावश्यं न नियमेन । क्व ? सर्वत्र सर्वस्मिन् जराय्वादिपरिपिहिते प्राणिनि तत्कथं गर्भे रूपादिदर्शनं यतः २५ पश्चात्तत्सम्बन्धस्मरणम् ? अस्ति च बालकस्य स्तनादिदर्शनात् तत्र रसविशेषार्थितया प्रवृत्तिः, अतोऽवगम्यते जन्मान्तरे तस्य तदर्शनमिति । पुनरपि तद्विकृतरित्यादि समर्थयितुमाह
तथा रागादयो दृष्टाः सङ्कल्पाद्यविनाभुवः । इति । .
रागः शरीरेन्द्रियादावभिरतिरादिर्येषां द्वेषादीनां ते रागादयो दृष्टाः प्रवृत्तिविशेषतोऽबगताः 'जातमात्रेऽपि' इति सम्बन्धः । कीदृशाः ? सङ्कल्पो ममेदमहमिदमिति चाभिनिवेश आदिर्यस्य
१-लस्य ता०। २ निराकारैकं आ०, ब०, प० । निःशङ्कम् । ३ कन्दः ।