________________
१११
२।८६]
२ अनुमानप्रस्तावः रागाद्यभ्यासादेः, तेन विना न भवन्तीति सङ्कल्पाद्यविनाभुवः। ततो न युक्तमेतत्'-"कफप्रकृते' रागः तन्मूलश्चानुनयादयः । पित्तप्रकृतेषः तदाश्रयाश्चासूयादयः,वातप्रकृतेर्मोहः तन्निमित्ताश्च चापल्यादयः।" [ ] इति ; तेषां सङ्कल्पादिनिबन्धनतयैवावलग्नवेलायां प्रतिपत्तेः । व्यभिचाराच्च कफप्रकृतावपि द्वेषादीनामुपलम्भात् । अथ तत्प्रकृतेरन्यापि प्रकृतिरस्ति तासां साङ्कादिति, तन्न; द्वेषादिवत् सर्वस्यापि प्रकृत्यन्तरकार्यस्य तत्प्रकृतौं प्रसङ्गात् । न चैवम् , कस्यचिदेव ५ दर्शनात् । दृष्टस्यैव तदन्तरं कारणं नान्यस्येति चेत्, तर्हि सत्त्वान्तरेऽपि कुतस्तद्भवेत् ? तत एवेति
चेत्, प्रकृतेऽपि स्यात् अविशेषात् । अन्यत इति चेत् ; सिद्धो व्यभिचारः-पित्तादेदृष्टस्यापि तस्यान्यतो भावात् । तन्न तत्साकर्यात् तत्प्रकृतौ द्वेषादिः । अथ सोऽपि तत्प्रकृतेरेव कार्यम् ; व्यर्थं तर्हि प्रकृत्यन्तरकल्पनं कार्याभावात् । तदन्तरस्यापि तदेव सर्वं कार्यमिति चेत् ; एवमपि तन्निहींसातिशयसाम्ये तत्प्रकृतेः सर्वस्यापि समान एव रागादिः प्राप्नुयात् । न हि कारणस्याविशेषे विशेषः कार्यस्य, १० तस्यातद्धेतुत्वापत्तेः । न चैवम्, सत्यपि तत्साम्ये कचिद्रागादेरुत्कर्षस्यान्यत्रापकर्षस्य च तारतम्येन प्रतीतेः । नायं दोषः, तत्साम्येऽपि स्वहेतुबलनिबद्धात् परिणतिविशेषात्तदुपपत्तरिति चेत्, न; तस्यापि दृश्यस्य तदव्यभिचारात् । न ह्यसौ रागादौ क्वचिदेव नियतो द्वेषादेरपि तत एवोपलम्भात् । ततो द्वेषादिवद्विलक्षणपरिणामजन्यस्यापि तत एवोपपत्तेः कथं तस्मान्नैव तत्प्राप्तिर्भवेत् ? 'अथ अदृश्य एव तद्विशेषो रागादिवैषम्यहेतुः; स तर्हि सङ्कल्पादावेव कार्यविशेषादुन्नेतव्यः तस्यैव तद्धतुतया दृष्टेन कफादौ १५ विपर्ययात्, अन्यथा पर्वतादौ धूमहेतुरपि विशेषः क्वचिदन्यत्रैवावकल्प्येत इति न पावक इति न क्वचिन्नियतो हेतुफलभावः । तन्न तद्विशेषकल्पनमुपपन्नम् । तदभावे च न कफादे रागादिविशेषस्तदविशेषात् । अविशिष्टादपि कारणात् कार्यवैषम्यं दृश्यत एव यथा पृथिव्यादें रूपसंस्थानादिभेदः शरीरस्येति चेत, न, तत्रापि तथैव चोद्यात्-कथं तदविशेषे तद्भेद इति ? तव कस्मान्न भवतीति चेत् ? न, अदृष्टविशेषसहायात ततस्तदुपगमात् । अत एवोक्तम् -
"अक्षादीनां विकारोऽयमात्मकर्मफलं भवेत् ।” इति । धर्मकीर्तिनाप्युक्तम्
"व्यभिचारान्न वातादिधर्मः प्रकृतिसङ्करात् । अदोषश्चेचदन्येऽपि धर्मः किं तस्य नेक्ष्यते ॥ न सर्वधर्मः सर्वेषां समरागप्रसङ्गतः।
१ "चार्वाकवचः' - ता० टि०। तुलना-“वातप्रकृतेर्मोहः, पित्तप्रकृतेदे॒षः, कफप्रकृते राग इति”-प्र० वार्तिकाल० १११४। “केचिदाहुः-श्लेष्मणः सकाशाद्रागः पित्ताद् द्वषो वातान्मोह इति"तत्त्वसं० पं० पृ० ५१८ । २ 'कफः प्रकृतिः स्वभावो यस्य गर्भादिमरणपर्यन्तस्यात्मनः"- ता०टि०।३ "रागादीनाम्”- ता० टि०। ४ -तुवत्त्वाप- आ०, ब०, प० । ५ कथन्न साम्येव त-आ०,ब०, प० । ६ अन्यथा दृश्यत एव आ०, ब०, प० । ७ -वे न क- प्रा०,ब०, प० । ८ -व्यादिरू-श्रा०, ब०, प० । .६ पृथिव्यादेः । १० न्यायवि० श्लो० २४६ । ११ नेक्षते आ०, ब०, प० ।