________________
११२ न्यायविनिश्चयविवरणे
[२१८६-८७ रूपादिवददोषश्चेत् तुल्यं तत्रापि चोदनम् ॥
आधिपत्यं विशिष्टानां यदि तत्र न कर्मणाम् ।" [ प्र०वा०११५०-५२ ] इत्यलं निर्बन्धेन । ततः सङ्कल्पादेरेव रागादयस्ते च तत्कृतप्रवृत्तिविशेषादवघृतसन्निधानाः तद्धेतुं सङ्कल्पा
दिकमवगमयन्ति प्राग्भवीयमेव इहभवे तस्य तदभावादित्युषपन्नमेतत्-तद्विकृतेरित्यादि। यदि पुनर्भवा५ न्तरानुभूतस्य स्मरणं किन्न सर्वस्य ? किं वा सामान्यवन्न विशेषस्यापीति चेत् ? भवत्येव यदि तादृशसंस्कारः, केषाञ्चित् स्वजात्यभिजनादिविशेषे ऽपि तत्प्रतिपत्तेः । सामान्यमात्रे तु संस्कारे तस्यैव स्मरणं न विशेषादेः । तत्रापि तदभावे न कस्यचित् । कथं तर्हि सामान्यस्मरणाद्विशेषे प्रवृत्तिरिति चेत् ? न; तस्य तस्मादव्यतिरेकात् दृष्टत्वाच्च । तदेवाह--
तदाहारादिसामान्यस्मृतितद्विप्रमोषयोः ॥८६॥
भावोऽभावश्च वृत्तीनां भेदिष्विह च दृश्यते । इति
तच्च तत्प्रागनुभूतमाहारादि, आदिशब्दात् स्तनादि च, तदेवेह सामान्यं तस्य स्मृतिश्च संस्कारात्, तस्याः स्मृतेर्विप्रमोषश्चानुत्पादस्तदभावात् तदाहारादिसामान्यस्मृतितद्विप्रमोषौ तयोः सतोर्यथाक्रम वृत्तीनां विषयोपसर्पणादीनां भावः स्मृतौ अभावश्च तद्विप्रमोषे स च
न केवलं बालवेलायामपि त्विह च मध्यदशायामपि, तच्चोभयं भेदेषु विशेषेषु न केवलं सामान्यमात्रे । १५ कथमेतत् ? तेषामस्मरणादिति चेत्, न; दृश्यते यतः । न हि दृष्टे पर्यनुयोगोऽतिप्रसङ्गात् । दृश्यते
हि बन्धुरयं भवति न जाने पितृवर्गिणो मातृवर्गिणो वेति बन्धुत्वसामान्यस्मरणादपि लोकस्य तद्विशेषे प्रवृत्तिः, तद्वद् बालकस्यापि आहारादिविशेष इति न कश्चिदुपालम्भः । नन्वत्र तत्स्मृतौ तत्र तद्भाव एव वक्तव्यस्तत्रैव चोद्यात्, न तद्विप्रमोषे तदभावो विपर्ययादिति चेत्, नः; प्रवृत्तीनां तदन्वय
व्यतिरेकानुविधानप्रतिपादनेन कार्यत्वज्ञापनार्थत्वात् तद्वचनम्य । एवमपि भूयस्तथा दृशः' इत्यत्रेदं २० वक्तव्यं स्मरणप्रस्तावात् न रागाद्यभिधानात् परत इति चेत्; न; स्मरण यापि रागादिव्यवधानेनैव
तत्कारणत्वमिति निवेदनार्थत्वात्, तथा वचनस्य । न हि स्मरणमात्रात् कचिद् व्यवहारो रागाद्यभावे । तत एवोक्तम् 'स्मरणादभिलाषे व्यवहारः' इति । उपसंहरन्नाह
तस्मात् संसारवैचित्र्यं नियमान विहन्यते ॥८७॥ इति । तस्मादात्मनोऽनादिनिधनस्याप्रतिक्षेपात् कर्मणश्च संसारहेतोरवकल्पनात् संसारस्य" वैचिव्यं सकलविकलेन्द्रिययोर्विकलसकलेन्द्रियत्वं तिर्यगादेर्मनुष्यादित्वं मनुष्यादेस्तिर्यगादित्वमित्यादिरूपवैश्वरूप्यं न विहन्यते न विघातं गच्छति । कुतः ? नियमात् प्रमाणतस्तद्विघातस्य निषेधात् । व्याहतमेव पिपीलिकाजीवस्य तच्छरीरपरित्यागेन हतिशरीरसञ्चरणम् अल्पोयसस्तस्य तद्व्यापित्यसम्भवात् तद्व्यापिनश्च जीवस्यं भवद्भिरभ्युपगमादिति' चेत्, अत्राह
२५
१ किन्न सा- आ०,ब०, प० । २ भवतु आ०, ब०,प०।३ चोद्याभावात् । ४-था तादृश आ०, ब०, प०।५-सारवै- आ०, ब०, प०।६ -स्य च शरीरवद्भिः आ०. ब०, प०। ७“जीवो उवोगमश्रो अमुत्ति कत्ता सदेहपरिमाणो। -ता०टि०।।