________________
११३
२।८८]
२ अनुमानप्रस्तावः न च कश्चिद्विरोधोऽस्ति देहान्तरपरिग्रहे । इति । पूर्वस्माइहादन्यो देहस्तदन्तरं तस्य परिग्रहे न च नैव कश्चिदनिर्दिष्टनामा विरोधोऽस्ति विद्यते । तथाहि-न तत्र प्रमाणबाधो विरोधः, प्रमाणेन तस्यावस्थापनात् । नाप्यल्पेन महतो व्याप्त्याऽनुषपत्तिः, महतो महत्त्वेनैव व्यापनात् । तदेवाल्पस्य सतः कुत इति चेत् ? प्रदेशविसर्पणादिति ब्रमः । न चेदं वाङ्मात्रम्, इहापि दर्शनात् । दृश्यते हीदम् इहापि बालजीवस्य युवादिदेहव्यापित्वं ५ तद्विसर्पणात्, तद्वत् पिपीलिकाजीवस्यापि हस्त्यादिशरीरव्याषित्वम् , एवं महतस्तस्याल्पशरीरमात्रावस्थानं तदुपसंहारादिति प्रतिपत्तव्यम् , उपसंहरणविसर्पणधर्मत्वाज्जीवस्य । न चैवं तदुपसंहारविसर्पणयोरक्रमः; तत्सचिवस्य कर्मणः सूक्ष्मबादरस्वभावस्य क्रमात् क्रमस्यैवोपपत्तेः प्रदीपवत् । दृश्यते हि प्रदीपे तत्क्रमात् तयोरपि क्रमः । तदुक्तम्-"प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् ।" [ त०सू० ५।१६ ] इति । तदेवम् 'इह च दृश्यते' इत्यनेन तत्परिग्रहमुपपाद्य तदन्तरेणाप्युपपादयन्नाह- १०
तभावे हि तद्भावप्रतिषेधो न युक्तिमान् ॥८८॥ इति । तस्य देहान्तरपरिग्रहस्याभावे हि यस्मात्तद्भावस्य तत्परिग्रहभावस्य प्रतिषेधो न युक्तिमान् । अतस्तत्र न कश्चिद्विरोध इति । तथाहि-तस्य प्रतिषेद्धा न तावदचेतनः, चेतनोऽपि न क्षणक्षयी; तस्यापि लोकान्तरवदप्रतिपत्तेः । अक्षणिक एव गर्भमरणावधिरिति चेत्, न, बालादिशरीरत्यागेन कुमारादिशरीरान्तरपरिग्रहाभावे तस्यासम्भवात् । भवत्वयम् इदम्भविनो दृष्टत्वात् न भवान्त- १५ ।। रिणः, तस्यैवासिद्धेरिति चेत् इदम्भविनोऽपि कुतः सिद्धिः ? प्रत्यक्षादेव स्वसंवेदनलक्षणादिति चेत्; न; तेनापि मरणावधेरप्रतिपत्तेः, अन्यथा जीवितव्यप्रमाणे न कस्यचिदपि सन्देहः स्यात्-‘कियान् मम जीवितव्यकालः' इति । नापि तत्कालभाविषु सेवाकृष्यादितद्व्यापारेषु, इति व्यर्थं तत्परिज्ञानाय ज्यातिर्विदाद्युपासनम् । तन्न बालकस्य प्रत्यक्षतो भाविदशाप्रतिपत्तिः यतः तात्कालिकापरापरशरीरोपादानं तदृष्टितयाभीष्ट येत । नापि वृद्धस्य ततः प्राच्यदशापरिज्ञानम् ; तात्कालिकीनां तच्चेष्टानामवधारणापत्तेः । २० माभूत् ततस्तद्ग्रहणं प्रत्यभिज्ञानात्तु भवत्येव ‘स एवाहं वृद्धो यो बालादिरभूवम्' इति तस्योत्पत्तेरिति
चेत् ; न; तस्यापि प्रत्यक्षत्वे पूर्ववद्दोषात्, प्रमाणान्तरत्वस्य चानभ्युपगमात् इति । अपि चैवं सिद्धो भवान्तरी, तस्यापि तत एवाधिगमस्याभिहितत्वात् । तथापि तस्याभावे नेदम्भव्यषि कश्चिच्चेतन इति कुतस्तत्परिग्रह - प्रतिषेधः तस्य प्रतिषेधुरभावेऽनुपपत्तेः । ततः प्रतिषेधादपि सिद्धः प्रतिषेद्धरिव तस्यापि तत्परिग्रहः । तत्सिद्धौ कथं प्रतिषेधो यतस्तत्साधन विरोधादिति चेत् ? न तदभिनिवेशस्य तत्त्वेनाभिधानात् तस्य २५ च तत्राविरोधात् । ततः स्थितम्–'तदभावे हि' इत्यादि । जातीत्यादयश्च व्याख्यानश्लोकाः, 'कारणं
१ नाप्यकल्पेन आ०, ब, प० । २ तज्जीवस्य आ०, ब०, प० । ३ सहकारिक्रमात् संहारविसर्पयोरपि । ४-नो नापि क्षण- ता० । ५-वधेरि- आ०, ब०, प०। ६इहभवभाविनः। ७ सन्देह इत्यन्वयः। ८-मष्टानामनवधार-आ०, २०, प०।९भवान्तरेत-आ०, ब०, प० । १० जन्मान्तरपरिग्रह । ११ प्रतिपेद्धापि सि-आ०, ब०, प० । १२-बुरेव त-आ०, ब०, प० । ।
१५